मलयाळम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मलयाळम्‌ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
मलयाळम्
മലയാളം malayāḷam
മലയാണ്മ malayāṇma
Word Malayalam.svg
मलयाळभाषायाम् लिखितः मलयाळम्
विस्तारः मुख्यतः भारतस्य केरळप्रदेशे
प्रदेशः केरळ, लक्षद्वीपः, कर्णाटकः, तमिळनाडु
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
द्रविडभाषापरिवारः
  • दक्षिणीयद्रविडः
    • तमिळ-कन्नडः
      • तमिळ-कोडागूः
        • तमिळ-मलयाळम्
          • मलयाळम्-भाषासमूहः
            • मलयाळम्
लिपिः मलयाळम् लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा भारतप्रदेशेषु :केरळ,[२]लक्षद्वीपः (केंद्रशासित), पुत्तुचेरी (केंद्रशासित)
नियन्त्रणम् केरळसाहित्यअकादमी, केरळराज्यसरकारः
भाषा कोड्
ISO 639-1 ml
ISO 639-2 mal
ISO 639-3 mal
Malayalamspeakers.png
क्षेत्रम् यत्र मलयाळम् संभाषितम्
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

मलयाळम् (Malayalam) भारतीयभाषासु अन्यतमा या च केरळराज्ये अधिकतया उपयुज्यते । भारते अधिकृततया सूचितासु २२ भाषासु अन्यतमा । केरळराज्यस्य, लक्षद्वीपस्य, पुतुच्चेर्याः च राज्यभाषा विद्यते । इयं द्रविडभाषापरिवारस्‍य काचित् भाषा। केरळदेशे जना: मलयाळभाषया वदन्ति । ४००००००० जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिऴ्‌नाडुराज्यस्य नीलगिरि-कन्याकुमारी-कोयम्बत्तुरमण्डलेषु, कर्णाटकस्य दक्षिणकन्नड-मङ्गलूरु-कोडगुमण्डलेषु च उपयुज्यते।

मलयाळं ६ शतके द्रविडभाषातः उत्पन्नम् इति श्रूयते । अन्यः वादः वर्तते यत् इयं भाषा इतोपि प्राचीनतमा इति । अस्याः भाषायाः ८०% शब्दाः संस्कृतशब्दाः एव । मलयाळभाषायाः उगमात् पूर्वं प्राचीनतमिऴभाषा उपयुज्यते स्म साहित्ये, तमिऴकप्रदेशस्य सभासु च । अस्य किञ्चन उत्तमम् उदाहरणं नाम 'शिलप्पधिकारम्' । सङ्गमसाहित्ये अयं ग्रन्थः उत्कृष्टः मन्यते । अयं कोचिनस्थेन चेराराजकुमारेण इळङ्को अडिकळेन लिखितम् । सङ्गमसाहित्यस्य बहवः शब्दाः आधुनिकमलयाळभाषया संरक्षिताः सन्ति । मलयाळलेखनाय उपयुक्ता प्राचीनतमा लिपिः नाम वट्टॆऴुत्तुलिपिः। अग्रे ततः उत्पन्ना कोलॆऴुत्तुलिपिः उपयुज्यमाना अस्ति । मलयाळभाषा संस्कृतस्य शब्दसम्पत्तिं व्याकरणनियमाञ्च अङ्ग्यकरोत् तदा आर्य-एझुट्टा नामिका ग्रन्थलिपिः आधृता । इममेव आधुनिकमलयाक्लिपित्वेन परिष्कृतः । बहवः मध्यकालीनाः साहित्यग्रन्थाः मणिप्रवाळलिप्या लिखिताः सन्ति या च संस्कृत-प्राचीनमलयाळलिप्योः संयुक्तरूपा वर्तते । तमिऴपरम्परातः भिन्नः प्राचीनमलयाळसाहित्यकृतिः ९-११ शतकयोः उपलभ्यते । मलयाळभाषा संस्कृत-तमिऴभाषयोः परम्परातः उद्भूता इत्यतः भारतीयभाषासु एव अस्याः अक्षरमालायाम् अत्यधिकाः वर्णाः विद्यन्ते । मलयाळलिपिः संस्कृतशब्दानां सर्वासां द्राविडभाषाशब्दानाञ्च अभिब्यक्तौ समर्था वर्तते ।

शब्दनिष्पत्तिः[सम्पादयतु]

मलयाळम् इत्येषः शब्दः मलयाळभाषायाः 'मला' - पर्वतः 'अळम्' - प्रदेशः - इत्येताभ्यां पदाभ्यां निष्पन्नः स्यात् । आदौ 'पर्वतप्रदेशः' इत्येषः प्रदेशं (चेरासाम्राज्यम्) निर्दिशति स्म । अग्रे सः एव शब्दः भाषायाः नाम जातम् । मलयाळभाषा मलयाण्मा, मलयाय्मा, कैरळी, इत्येतैः शब्दैः अपि निर्दिश्यते ।

उद्विकासः[सम्पादयतु]

मलयाळभाषायाः तदीयसाहित्यस्य च उत्पत्तेः विषये विश्वासयोग्यं प्रमाणम् अद्यावधि न प्राप्तमस्ति । तथापि अस्याः साहित्यं सहस्रवर्षीयम् इति अङ्गीक्रियते । अस्याः भाषायाः विषये एतावदेव वक्तुं शक्यते यत् इयं भाषा संस्कृतजन्या न । इयं द्राविडपरिवारस्य सदस्या । किन्तु अद्यावधि इदं न निश्चितं यत् इयं भाषा तमिऴभाषातः विभिन्न काचित् शाखा विद्यते उत मूलद्रविडभाषातः उत्पन्नाः अन्याः दक्षिणभाषाः इव पृथक् अस्तित्वयुता काचित् भाषा इति । तन्नाम तमिऴ-मलयाळभाषयोः सम्बन्धः माता-पुत्र्योः इव अथवा भगिन्योः इव इत्येतत् विद्यते अस्पष्टम् । भाषाविज्ञानिनः अस्याः समस्यायाः परिहारम् अन्विष्येयुः । इदं निश्चितं यत् मलयाळभाषायाः साहित्यस्य अङ्कुरस्य आरम्भावसरे तमिऴभाषासाहित्यं परिपुष्टमासीत् । अतः तमिऴभाषा मलयाळभाषायाः स्रोतरूपा इत्यपि वक्तुं शक्यम् । किन्तु १३ शतकस्य अन्तिमभागे मलयाळभाषा तमिऴेतरभाषाजन्या इति अङ्गीकृतम् ।

प्राचीनतमं मलयाळपद्यं १२ शतके लिखितं रामचरितम् । इदं संस्कृतवर्णानां परिचयतः पूर्वं रचितमस्ति । किन्तु एतेन आधारेण किमपि निर्णेतुं न शक्यते । आरम्भमलयाळसाहित्ये 'पाट्ट्' नामकानि गीतानि लभ्यन्ते यानि कृषिः प्रेम नायकाः देवाः इत्यादिषु विषयेषु रचितानि सन्ति । एतानि १४ शतकीयानि चम्पुसदृशानि सन्ति यत्र पद्यं गद्यं च मिश्रितं संस्कृतप्रभावोपेतम् पुराणादिसम्बद्धञ्च विद्यन्ते ।

१६-१७ शतकयोः तुञ्चत्तु रामानुजन् ऎऴुत्तच्छन् इत्येषः तमिऴ-वट्टॆऴुत्तु-लिपेः स्थाने ग्रन्थ-मलयाळलिपिम् आरचितवान् । ऎऴुत्तच्छन् आधुनिकमलयाळभाषायाः पिता इति निर्दिश्यते । अयं भारतीयप्राचीनकाव्ययोः रामायण-महाभारतयोः अनुवादं मलयाळभाषया अकरोत् । तदीयम् अध्यात्मरामायणं महाभारतञ्च अद्यत्वे अपि मलयाळभाषिहिन्दुगृहेषु धार्मिककार्यक्रमेषु श्रद्धया पठ्यते । १५ शतके पृथक् भाषारूपेण मलयाळभाषा अङ्गीकृता ।

केरळे प्रथमं मुद्रितं पुस्तकं हेन्रिहेरिक्सेन लिङ्गमुलबर्तमुलभाषया लिखितं 'डाक्ट्रिना क्रिस्टम्' । अस्य लिप्यनुवादः भाषानुवादश्च मलयाळभाषया कृतम् । अस्य मुद्रणं १५७८ तमे वर्षे पोर्चुगीस्जनैः कृतम् ।

आङ्ग्लिकन्-अर्चकः बेञ्चमिन् बैले मलयाळभाषया उट्टङ्कनं यदा आरब्धवान् तदा १८२१ तमे वर्षे कोट्टयप्रदेशे स्थितेन चर्चमिषन्सोसैटिसंस्थया मलयाळपुस्तकानां मुद्रणम् आरब्धम् । गद्यानां स्तरारोपणे च तस्य योगदानं महत्त्वपूर्णं वर्तते । जर्मनिदेशस्य स्टग्गर्ट्नगरस्य हर्मन् गण्डर्टः १८४७ तमे वर्षे केरळस्य तलश्शेरिप्रदेशे 'राज्यसमाचारम्' इति नामिकां प्रथममलयाळदिनपत्रिकाम् आरब्धवान् ।

प्रसिद्धाः लेखकाः केचन[सम्पादयतु]

उण्णायि वार्यर्[सम्पादयतु]

अयं १८ शतकस्य प्रसिद्धः उत्कृष्टः कविः । कथाकेळि-लेखकेषु अन्यतमः । एतेन लिखिता 'नळचरितम् आट्टक्कथा' अद्यत्वे अपि बहु प्रसिद्धा वर्तते । अयं केरळस्य कालिदासः इति निर्दिश्यते । कथाकेळिः नृत्यरूपकं विद्यते । मलयाळभाषायाः अट्टक्कथायाः संस्कृतनाटकस्य च सामान्यांशाः विरलाः । तन्नाम संस्कृतनाटकरचने ये नियमाः अनुस्रियन्ते ते अट्टक्कथायाः रचने न अनुस्रियन्ते । कश्चन रसः प्रमुखतया दृश्यते संस्कृतनाटके, किन्तु अत्र सन्दर्भानुसारम् आगताः सर्वे अपि रसाः पोष्यन्ते । अट्टक्कथा साहित्यकृतित्वेन परिगण्यते चेत् ज्ञायते यत् अट्टक्कथायाः समग्रता कलैक्यता च कुण्ठिता भवति इति ।

कुञ्चन् नम्प्यार्[सम्पादयतु]

'जनानां कविः' इति प्रसिद्धः अयं १८ शतकस्य आदिमभागे आसीत् । अनेन जनानां सांस्कृतिक-धार्मिक-कल्पनाः एव परिवर्तिताः । अयम् अत्युच्चस्थाने विद्यमानं कलां साहित्यञ्च जनानां समीपम् आनयत् । देवालये निवसन्तः नम्बूतिरिब्राह्मणाः नृत्य-नाटक-साहित्यैः सम्बद्धाः आसन् । नायर्जनाः ये अधिकसङ्ख्याकाः आसन् ते सांस्कृतिक-धार्मिककलापैः युक्ताः न आसन् । अस्मिन् समये आगतः कुञ्चन् नम्ब्यारः यः मन्दिरसेवकजातीयः आसीत् सः 'तुळ्ळल्' नामकं नूतन-एकाकि-नृत्यम् आविष्कृतवान् । एतन्निमित्तं तेन पञ्चाशदधिकाः कृतयः रचिताः । एताः पौराणिककथायुक्ताः किन्तु आधुनिक-सामाजिक-परिस्थितौ सम्बद्धाः च आसन् । पौराणिककथाव्यक्तयः अत्र सामान्यजनाः जाताः । तस्य शैली विनोदयुक्ता विकत्थनयुक्ता च । सः सामाजिकजागरणम् अकरोत् ।

रामपुरत्तु वार्यर्[सम्पादयतु]

रामपुरत्तु वर्यार् नामकः कश्चन वार्यः 'कुचेलवृत्तम्' - कुचेल-सुधाम्नोः वृत्तम् अलिखत् । तेन लिखिता एका एव कृतिः एषा आधुनिकमलयाळगीतानां मुकुटमिति मन्यते ।

स्वातितिरुनाळ्[सम्पादयतु]

स्वातितिरुनाळ्(१८२९-१८४७) तिरुवनन्तपुरस्य महाराजः आसीत् । महान् पण्डितः सः बह्वीषु भारतीयभाषासु काव्यात्मकीः सङ्गीतकृतीः अरचयत् । मलयाळं, संस्कृतं, तमिऴ्, तेलुगु, हिन्दी, मराठि इत्येतासु भाषासु सः कृतभूरिपरिश्रमः । सः कालः त्यागराज-मुत्तुस्वामी-श्यामशास्त्रिणां कालः । साहित्यदृष्ट्या इरयिम्मन् तम्पिः विद्वान् कोयित्तम्पुरान् च अस्य आस्थानकवी आस्ताम् । तयोः कृतयः काव्यांशेन सङ्गीतेन च युक्ताः ।

बाह्यानुबन्धाः[सम्पादयतु]

टिपण्ण्यः[सम्पादयतु]

  1. Statement 1: Abstract of speakers' strength of languages and mother tongues – 2011". www.censusindia.gov.in. Office of the Registrar General & Census Commissioner, India. [१] "Archive". 
  2. Official languages. UNESCO. आह्रियत 10 May 2007. 
"https://sa.wikipedia.org/w/index.php?title=मलयाळम्&oldid=460285" इत्यस्माद् प्रतिप्राप्तम्