नागालैण्डराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(नागाल्याण्डराज्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Nagaland
नागाल्याण्डराज्यम्
राज्यम्
भारते नागाल्याण्डराज्यम्
भारते नागाल्याण्डराज्यम्
नागाल्याण्डराज्यस्य भूपटः
नागाल्याण्डराज्यस्य भूपटः
Coordinates (कोहिमा): 25°40′N 94°07′E / 25.67°N 94.12°E / 25.67; 94.12Coordinates: 25°40′N 94°07′E / 25.67°N 94.12°E / 25.67; 94.12
राष्ट्रम्  भारतम्
उद्घोषणम् १ डिसम्बर् १९६३
राजधानि कोहिमा
मण्डलम् ११
सर्वकारः
 • राज्यपालः निखिल कुमारः
 • मुख्यमन्त्री नेव्यु रै
क्षेत्रम्
 • योगः
क्षेत्रश्रेणी २५तम
जनसङ्ख्या (२०११)
 • श्रेणी २४तम
 • जनसङ्ख्यासान्द्रता
समयक्षेत्रम् भारतीय कालगणनम् (UTC+05:30)
साक्षरतापरिमाणम् ८०.११% (१३तम)
भाषा आङ्ग्लम्
जालस्थानम् http://nagaland.nic.in/ nagaland.nic.in

नागाल्याण्डराज्यं (Nagaland) भारतस्य ईशान्यदिशि विद्यमानं राज्यम् । अस्य राज्यस्य पश्चिमसीमायाम् असमराज्यम्, अरुणाचलप्रदेशराज्यम्, उत्तरदिशि असमभागः, पूर्वदिशि बर्मा, दक्षिणदिशि मणिपुरराज्यञ्च विद्यते । राज्यस्य राजधानी कोहिमा, बृहत्तमं नगरं दीमापुरम् । अस्य विस्तारः १६,५७९ च कि मी। २०११ तमे वर्षे जातायाः जनगणनायाः अनुसारम् अत्रत्या जनसङ्ख्या अस्ति १९, ८०, ६०१ । सीमायां विद्यमानम् असम-उपत्यकाप्रदेशं विहाय आराज्यं पर्वतप्रदेशैः युक्तमस्ति । इदं राज्यं समभाजकवृत्तस्य पूर्वदिशि ९८ ९६ रेखांशे उत्तरदिशि २६.६ - २७.४ अक्षांशे विद्यते । भारतस्य १६ तमं राज्यं नागाल्याण्ड् १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के प्रतिष्ठापितं जातम् । इदं ११ मण्डलैः युक्तम् - कोहिमा, फेक्, मोकोक्चङ्ग्, वोख, झन्हेबोटो, त्यून्साङ्ग्, मान्, दीमापुर्, किफिर्, लाङ्ग्लेङ्ग्, पेरेन् च । कृषिकार्यम् अत्रत्यं प्रमुखम् आर्थिकमूलम् । व्रीहिः, धान्यकं, तमाखुः, तैलबीजानि, इक्षुदण्डः, आलूकम् इत्यादयः अत्रत्याः फलोदयाः । सस्यविज्ञानम्, गृहोद्यमः, योगक्षेमयोजना, स्थावरसम्पदा, प्रवासोद्यमः च अन्यानि आर्थिकमूलानि ।

अन्तर्विषयाः

भौगोलिकम्[सम्पादयतु]

नागाल्याण्ड्राज्यं पर्वतीयराज्यम् । असमप्रदेशे ब्रह्मपुत्रस्य उपत्यकायां नागापर्वताः २००० पादमिताः उन्नताः । आग्नेयदिशी ६००० पादमिताः उन्नताः । १२,५५२ पादमितोन्नतः सारामतिपर्वतः राज्यस्य उन्नततमं स्थानम् । अत्रैव नागापर्वताः बर्मायाः पट्कै-आवल्या सह संयोजिताः भवन्ति । दोयाङ्ग्-दिफूनद्यौ उत्तरे, बारक्नदी नैरुत्ये, बर्मायाः चिन्द्विन्नदी आग्नेये च राज्यं विभजन्ति । राज्यस्य भूप्रदेशे २०% भागः विविधैः सस्यैः प्राणिभिः सह युक्तं घनारण्यं वर्तते । नागाल्याण्ड्राज्यं मान्सून्वातावरणेन युक्तम् आर्द्रताधिक्ययुक्तञ्च । वार्षिकवृष्टिः ७०-१०० इञ्च्मिता भवति आधिक्येन मेतः सेप्टेम्बर्मासं यावत् । तापः २१ से - ४० सेण्टिग्रेड्मितः । शैत्यकाले तापः ४ से अपेक्षया न्यूनः तु न भवति । ग्रीष्मकाले तापः १६-३१ सेण्टिग्रेड्मितः भवति । राज्यस्य केषुचित् भागेषु शैत्यस्य शीघ्रागमनं महत् शैत्यं शुष्कवातावरणञ्च अनुभूयते । फेब्रवरि-मार्चमासयोः महान् वातः दृश्यते ।

नद्यः[सम्पादयतु]

नागालैण्ड-राज्यं पर्वतीयप्रदेशः अस्ति । अतः नद्यः अपि बहव्यः सन्ति । धानसिरि-नदी, झाँझी-नदी, दीसाई-नदी, लैनिपर-नदी, दोयाङ्ग-नदी, दीखो-नदी इत्यादयः नागालैण्ड-राज्यस्य प्रमुखाः नद्यः सन्ति । नागालैण्ड-राज्यस्य प्रमुखाः नद्यः शिवसागर-पर्यन्तं गच्छन्ति । मिलक-नदी, जुङ्गकी-नदी च अस्य राज्यस्य अन्ये नद्यौ स्तः । “लेचाम” इत्ययम् नागालैण्ड-राज्यस्य प्रमुखः तडागः अस्ति । राज्येऽस्मिन् बहवः जलप्रपाताः, तडागाः अपि सन्ति । राज्यमिदं पर्वतीयक्षेत्रम् अस्ति अतः जलप्रपाताः अधिकमात्रायां सन्ति । [१]

इतिहासः[सम्पादयतु]

नागावनवासिनां सम्प्रदायाः आर्थिककार्याणि एव अस्य पूर्वतनः इतिहासः । मूलतः बर्मीस्-भाषया एते जनाः आदौ नाकाः इति निर्दिश्यन्ते स्म । अस्य अर्थः विद्धकर्णाः जनाः इति । 'नाग'इति शब्दः ब्रिटिश्जनैः दत्तमिति श्रूयते अर्थः अस्ति 'नग्नः' इति । ब्रिटिश्जनाः मणिपुरस्य वनवासिनः स्थूलतया द्विधा विभक्तवन्तः 'नागाः' 'कुकीजनाः' इति । नागावनवासिनः असमप्रदेशस्य बर्माप्रदेशस्य वनवासिभिः सह सामाजिक-आर्थिक-राजनैतिकसम्पर्कं रक्षितवन्तः आसन् । अद्यत्वे अपि अधिकांशाः नागाः असमप्रदेशे निवसन्ति । १८१६ तमस्य उपप्लवस्य अनन्तरं असमप्रदेशेन सह इदं स्थलं बर्मायाः आधीन्ये अन्तर्भूतम् । १८२६ तमे वर्षे ब्रिटिश्-ईस्ट्-इण्डिया-संस्थया असमप्रदेशः आक्रान्तः । तदा ब्रिटनेन आधुनिक-नागापर्वताः आक्रान्ताः । १८९२ समये यून्सेङ्ग्प्रदेशं विहाय अवशिष्टाः नागापर्वतप्रदेशाः ब्रिटिशसर्वकारस्य अधीनाः आसन् । ते असमप्रदेशेन योजिताः आसन् । क्रिश्चियन्-मतप्रचारकाणां व्यापकप्रयत्नेन नागालेण्डस्य नागावनवासिनः क्रिश्चियन्मतस्थाः जाताः । ततः पूर्वतनः इतिहासः न ज्ञायते ।

राज्यत्वप्राप्तेः मार्गः[सम्पादयतु]

प्रथमजागतिकयुद्धावसरे ब्रिटीश्जनाः नागाजनान् रहस्यकार्याय नियोजितवन्तः फ्रान्स्देशे । ततः तैः चिन्तितं यत् स्वस्य अस्तित्वस्य रक्षणाय अस्माभिः एकता रक्षणीया इति । १९१८ तमे वर्षे मातृभूमिं प्रति प्रत्यागमनानन्तरं ते सङ्घटिताः जाताः । आन्दोलनम् आरब्धवन्तः च। वर्षे स्वातन्त्र्यप्राप्तेः अनन्तरं सः प्रदेशः असमराज्ये अन्तर्भूतः जातः। नागाजनेषु केचन क्रान्तिकारिणः उत्पन्नाः। फिझोनायकत्वयुक्तः नागाराष्ट्रियायोगः मूलजनाः पूर्वजाः च राजनैतिकदृष्ट्या युक्ताः स्युः इति आग्रहम् अकरोत् । सर्वकारः विध्वस्तः, विप्लवः उत्पन्नः । १९५५ तमे वर्षे भारतीयसैन्यम् अत्र प्रेषितं शान्तिस्थापनाय। १९५७ तमे वर्षे सर्वकारेण सन्धानकार्यम् आरब्धम् । असमराज्ये स्थिताः नागापर्वतप्रदेशाः त्यून्सङ्ग्प्रदेशश्च संयोजितः । इदं केन्द्रसर्वकारेण एव शास्यते स्म । इदं नागाजनैः न इष्टम् इत्यतः शीघ्रमेव विरोधः अहिंसा च आरब्धा । १९६० तमे वर्षे भारतस्य प्रधानमन्त्रिणा नागागणस्य नायकैः च गभीरचर्चा कृता। ततः १६ बिन्दु-अङ्गीकारेण सह नागाग्याण्डराज्यस्य उगमः जातः। १९६१ तमे वर्षे विविधसम्प्रदाययुक्तैः वनवासिगणैः ४५ नागाः चिताः ये च अन्तर्गणे योजिताः जाताः । ततः तस्य राज्यत्वं प्राप्तम् । १९६३ तमस्य वर्षस्य नवेम्बर् ३० तमे दिनाङ्के अन्तर्गणस्य विलयनं जातं, विध्युक्तरीत्या राज्यत्वस्य घोषणं जातम् । १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के कोहिमा राजधानीत्वेन परिगणिता । १९६४ तमे वर्षे जातस्य निर्वाचनस्य अनन्तरं फेब्रवरी ११ दिनाङ्के प्रथमा विधानसभा संरचिता जाता ।

जनसङ्ख्या[सम्पादयतु]

नागाल्याण्ड्राज्यस्य जनसङ्ख्या २० लक्षात्मिका । तेषु अधिकांशाः कृषकाः । ७५% जनाः ग्रामेषु निवसन्ति । एतेषु ग्रामनिवासेषु ३५% जनाः दारिद्र्यरेखातः अधः निर्दिष्टाः । नगरनिवासिषु पञ्चमांशाः परमदरिद्राः ।

मण्डलानि -मण्डलकार्यालयाश्च[सम्पादयतु]

नागाल्याण्ड्राज्यस्य मण्डलानि

महानगराणि[सम्पादयतु]

कोहिमा[सम्पादयतु]

कोहिमा-नगरं नागालैण्ड-राज्यस्य कोहिमा-मण्डलस्य केन्द्रम् अस्ति । इदं नगरं पूर्वोत्तर-भारतस्य सुन्दरस्थलेषु अन्यतमम् अस्ति । अतः जनाः आकृष्टाः भवन्ति । अस्मिन् मण्डले “केवही” नामकं पुष्पम् उत्पद्यते । अतः पुरा अस्य नाम केवहीमा, केवहीरा वा आसीत् । किन्तु आङ्ग्लजनाः इमं शब्दं वक्तुं न शक्नुवन्ति । अतः काठिन्ये सति ते “कोहिमा” इति उच्चारणं कुर्वन्ति स्म । तावदेव अस्य नाम कोहिमा इति अभवत् । “केवही-पुष्पं” समीपस्थेषु पर्वतप्रदेशेषु प्राप्यन्ते । पुरा अस्मिन् मण्डले अङ्गामी-जनजातिः निवसति स्म । किन्तु साम्प्रतं तु विभिन्नजनजातयः निवसन्ति । ई. स. १८४० तमे वर्षे ब्रिटिश्-जनाः तत्र गतवन्तः । नागा-जनैः ब्रिटिश्-जनानां विरोधः कृतः आसीत् । चत्वारिंशद्वर्षाणि यावत् नागा-जनैः तेषां विरोधः कृतः । अनन्तरं ब्रिटिश्-जनैः अस्मिन् मण्डले स्वस्याधिपत्यं स्थापितम् आसीत् । ततः परं कोहिमा-क्षेत्रं मुख्यालयत्वेन उद्घोषितम् । ई. स. १९६३ तमस्य वर्षस्य दिसम्बर-मासस्य १ दिनाङ्के (१ दिसम्बर १९६३) कोहिमा-नगरं नागालैण्ड-राज्यस्य राजधानीत्वेन उद्घोषितम् ।

अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भुतम् अस्ति । अस्य नगरस्य प्राकृतिकदृश्यानि मनोहराणि भवन्ति । उच्चशिखराणि, पर्वताः, मेघाः, वनानि, नद्यः च अस्य नगरस्य प्राकृतिकदृश्यानि सन्ति । कोहिमा-मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । कोहिमा-प्राणीसङ्ग्रहालयः, राज्य-सङ्ग्रहालयः, चुफु-शिखरं च इत्यादीनि अस्य मण्डलस्य पर्यटनस्थलानि सन्ति । दझुलेकि-जलप्रपातः अपि कोहिमा-नगरस्य समीपस्थं स्थलम् अस्ति । कोहिमा-नगरे एकम् ईसाई-उपासनागृहम् (चर्च्) अस्ति । इदं भारतस्य ईसाई-उपासनागृहेषु बृहत्तमं, सुन्दरं च अस्ति । अस्य नगरस्य जनाः पर्यटकानां हृदयपूर्वकं स्वागतं कुर्वन्ति । अस्य नगरस्य नागा-जनेभ्यः भोजने मांसं, मत्स्यः च रोचते । नागालैण्ड-राज्यं सम्पूर्णे भारते संस्कृतयै प्रसिद्धम् अस्ति । अस्य नगरस्य नागा-जनानां संस्कृतिः अपि भिन्ना भवति । मृतजानां केशैः, विहगानां पक्षैः, गजदन्तैः च तेषां वस्त्राणि निर्मितानि भवन्ति । अस्य स्थलस्य पर्यटनाय सर्वकारस्य अनुमतिः आवश्यकी भवति । कोलकाता-नगरे, गुवाहाटी-नगरे, शिलाङ्ग-नगरे च अस्य कार्यालयाः सन्ति । तेभ्यः कार्यालयेभ्यः अनुमतिं प्राप्य जनाः अस्य मण्डलस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति ।

कोहिमा-नगरं ३९ क्रमाङ्कस्य, ३७ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । एताभ्यां राजमार्गाभ्याम् इदं नगरं नागालैण्ड-राज्यस्य, असम-राज्यस्य च विभिन्ननगरैः सह सरलतया सम्बद्धम् अस्ति । कोहिमा-नगरात् गुवाहाटी-नगरं ३४५ किलोमीटरमिते दूरे स्थितम् अस्ति । कोहिमा-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं कोहिमा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोहिमा-नगरात् दीमापुर-नगरं ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । कोहिमा-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं कोहिमा-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । कोहिमा-नगरात् दीमापुर-विमानस्थानकं ६८ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा कोहिमा-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया कोहिमा-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

दीमापुरम्[सम्पादयतु]

दीमापुर-नगरं नागालैण्ड-राज्यस्य दीमापुर-मण्डलस्य केन्द्रं विद्यते । नगरमिदम् उत्तर-पूर्वदिशः विकासशीलनगरेषु अन्यतमम् अस्ति । पुरा इदं नगरं दीमासास-साम्राज्यस्य राजधानी आसीत् । इदं नगरं नागालैण्ड-राज्यस्य प्रवेशद्वारम् अस्ति । साम्प्रतम् इदं नागालैण्ड-राज्यस्य राजधानी नास्ति । तथापि अत्र सर्वसौकर्याणि प्राप्यन्ते । दिमासा-शब्दात् दीमापुर-शब्दस्य उत्पत्तिर्जाता । दी अर्थात् जलं, मा अर्थात् विशालं च इत्यर्थः बोध्यते । बृहद्नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुरा धनसिरि-नदी अत्र प्रवहति स्म । दीमापुर-नगरस्य इतिहासः अपि पुरातनम् अस्ति । दीमापुरस्य समीपे पुरावशेषाः प्राप्ताः । तैः अवशेषैः ज्ञायते यत् – “दिमासाम्राज्यं समीपस्थेषु क्षेत्रेषु स्थितम् आसीत् । नगरेऽस्मिन् मन्दिराणि, तटानि, तटबन्धाः इत्यादयः प्राप्यन्ते । दिमामास-जनाः अनार्याः आसन् । पुरा प्राचीनादिवासिनः शासनं कुर्वन्ति स्म । आधुनिकेतिहासे अपि दीमापुर-नगरस्य महद्योगदानम् अस्ति । द्वितीयविश्वयुद्धस्य समये इदं नगरं प्रशासनिकं केन्द्रम् आसीत् ।

दीमापुर-मण्डलं नागालैण्ड-राज्यस्य पश्चिमभागे स्थितम् अस्ति । अस्य मण्डलस्य दक्षिण-पूर्वदिशि कोहिमा-मण्डलं, पश्चिमदिशि असम-राज्यस्य कार्बी-आङ्गलोङ्ग-मण्डलम्, उत्तरदिशि असम-राज्यस्य गोलाघाट-मण्डलं च स्थितम् अस्ति । नागालैण्ड-राज्ये केवलं दीमापुर-नगरे एव रेलपरिवहनं, वायुपरिवहनं च अस्ति । “नागा” नामकानि हस्तनिर्मितानि वस्तूनि अस्मिन् राज्ये प्रसिद्धानि सन्ति । विश्वस्य बहवः जनाः इदं वस्तु धरन्ति । साम्प्रतम् अपि दीमापुर-नगरं हस्तनिर्मितेभ्यः वस्तुभ्यः भारते प्रसिद्धम् अस्ति । नगरेऽस्मिन् एकः सङ्ग्रहालयः अपि अस्ति । अस्मिन् सङ्ग्रहालये नागालैण्ड-राज्यस्य कलाकृतीनां सङ्ग्रहः अस्ति । नगरमिदम् ऐतिहासिकम् अस्ति । अतः अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । “दीज्फे-हस्तशिल्पग्रामः” हस्तनिर्मितवस्तूभ्यः नागालैण्ड-राज्ये प्रसिद्धम् अस्ति । “नागालैण्ड हैण्डलूम एण्ड् हैण्डीक्राफ्ट् डेवलपमेण्ट् कॉर्पोरेशन्” इत्यनया संस्थया अयं ग्रामः सञ्चालितः अस्ति । “राज्यस्य हस्तकलानां विकासः भवेत्” इति अस्य ग्रामस्य लक्ष्यम् अस्ति । हस्तकलायाः विविधाः प्रकाराः अस्मिन् ग्रामे दृश्यन्ते । “रङ्गापहाड रिजर्व् फॉरेस्ट्”, “चुमुकेदिमा”, “रुजाफेमा”, “ट्रिपल फॉल्स्” च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । जनाः भ्रमणार्थं तत्र गच्छन्ति ।

दीमापुर-नगरं ३९ क्रमाङ्कस्य, ३६ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गः कोहिमा-नगरं, इम्फाल-नगरं, दीमापुर-नगरं च भारतस्य अन्यैः राज्यैः सह सञ्योजयति । नगरेऽस्मिन् नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । भूमार्गेण दीमापुर-नगरं सरलतया प्राप्यते । दीमापुर-नगरे नागालैण्ड-राज्यस्य एकाकि रेलस्थानकम् अस्ति । दीमापुर-रेलस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय इत्यादिभिः भारतस्य विभिन्ननगरैः रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । दीमापुर-नगरे एकं विमानस्थानकम् अपि अस्ति । नागालैण्ड-राज्यस्य एकाकी एव विमानस्थानकम् अस्ति । दीमापुर-विमानस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । भारतस्य प्रमुखनगरैः सह इदं विमानस्थानकं सम्बद्धम् अस्ति । अनेन प्रकारेन दीमापुर-नगरं भूमार्गेण, धूमशकटामार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः जनाः सरलतया दीमापुर-नगरं प्राप्नुवन्ति ।

त्वेनसाङ्ग[सम्पादयतु]

त्वेनसाङ्ग-नगरं नागालैण्ड-राज्यस्य त्वेनसाङ्ग-मण्डलस्य केन्द्रत्वेन स्थितम् अस्ति । ई. स. १९४७ तमे वर्षे “नॉर्थ् ईस्ट् फ्रण्टियर् एजेन्सी (NEFA)” इत्यनया संस्थया त्वेनसाङ्ग-नगरं स्थापितम् आसीत् । त्वेनसाङ्ग-मण्डलस्य पूर्वसीमा म्यान्मार-देशेन सह सम्बद्धा अस्ति । नगरमिदं नेफा (NEFA) इत्यस्याः संस्थायाः प्रशासनिकः मुख्यालयः आसीत् । ई. स. १९५७ तमे वर्षे त्वेनसाङ्ग-नगरं म्यान्मार-देशस्य, भारतस्य च भागः नासीत् । किन्तु यदा असम-राज्यम् अविभाजितम् आसीत्, तदा कोहिमा-मण्डले, मोकोकचुङ्ग-मण्डले त्वेनसाङ्ग-मण्डलस्य विलयः जातः । तस्मिन् समये इदं मण्डलम् औपचारिकत्वेन भारतीयक्षेत्रस्य भागः अभवत् । तस्मिन् काले त्वेनसाङ्ग-नगरं “नागाहिल्स्”-क्षेत्रस्य प्रशासनिकः मुख्यालयः आसीत् । अनन्तरम् ई. स. १९६३ तमे वर्षे त्वेनसाङ्ग-मण्डलं, कोहिमा-मण्डलं, मोकोकचुङ्ग-मण्डलम् एतैः त्रिभिः मण्डलैः नागालैण्ड-राज्यं सङ्घटितम् आसीत् ।

त्वेनसाङ्ग-नगरं समुद्रतलात् १३७१ मीटरमितम् उन्नतम् अस्ति । त्वेनसाङ्ग-नगरं “मिनी नागालैण्ड” अपि कथ्यते । यतः अस्मिन् नगरे बह्व्यः जनजातयः निवसन्ति । अतः सांस्कृतिकदृष्ट्या इदं नगरं समृद्धम् अस्ति । “चङ्ग्स”, “सङ्गताम”, “यिम्चुङ्गर”, “खिअम्निउन्गन” इत्यादयः अस्य नगरस्य प्रमुखाः जनजातयः सन्ति । इदं नगरं हस्तनिर्मितवस्तुभ्यः प्रसिद्धम् अस्ति । लोङ्ग्त्रोक, किफिर, पुन्ग्रो च इत्यादयः अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति ।

त्वेनसाङ्ग-नगरं १५५ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः त्वेनसाङ्ग-नगरं दीमापुर-नगरेण सह सञ्योजयति । नगरेऽस्मिन् सर्वकारप्रचालितानि बसयानानि प्राप्यन्ते । अतः जनाः त्वेनसाङ्ग-नगरस्य समीपस्थानि वीक्षणीयस्थलानि बसयानैः भ्रमन्ति । अमगुरी-रेलस्थानकं त्वेनसाङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । त्वेनसाङ्ग-नगरात् अमगुरी-नगरं ६५ किलोमीटरमिते दूरे स्थितम् अस्ति । अमगुरी-रेलस्थानकात् बसयानैः, भाटकयानैः वा त्वेनसाङ्ग-नगरं प्राप्यते । मरियानी-रेलस्थानकम् अपि समीपे एव वर्तते । दीमापुर-नगरस्य विमानस्थानकं त्वेनसाङ्ग-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जोरहाट-नगरस्य विमानस्थानकम् अपि समीपे एव स्थितम् अस्ति । जोरहाट-विमानस्थानकं त्वेनसाङ्ग-नगरात् ११३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोलकाता-नगराय, गुवाहाटी-नगराय, देहली-नगराय च अस्मात् विमानस्थाकात् वायुयानानि प्राप्यन्ते । अतः जनाः सरलतया त्वेनसाङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।

शिक्षणम्[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं नागालैण्ड-राज्यस्य साक्षरतामानं ७९.९९ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८३.२९ प्रतिशतं, स्त्रीणां च ७६.६९ प्रतिशतम् अस्ति । ई. स. १९७८ तमे वर्षे नागालैण्ड-राज्यस्य कोहिमा-नगरे एकस्य विश्वविद्यालयस्य स्थापना कृता । ई. स. १९९४ तमे वर्षे नागालैण्ड-विश्वविद्यालयः अपि स्थापितः [२]

भाषाः[सम्पादयतु]

नागान्याण्ड्राज्यस्य एकैकस्य वनवासिगणस्य अपि विशिष्टा भाषा विद्यते । सिनो-टिबेटन्कुटुम्बे अन्तर्भूताः ६० विविधाः भाषाः अत्र विद्यन्ते । एतासां भाषाणां लिपिः न विद्यते । रोमन्लिप्या एताः लिख्यन्ते । १९६७ तमे वर्षे राज्यसर्वकारेण आङ्ग्लभाषा अधिकृतभाषात्वेन अङ्गीकृता । अत्रत्य शिक्षणमाध्यमम् अस्ति आङ्ग्लभाषा। "नागमीस्भाषा" आधिक्येन उपयुज्यते । प्रतिवनवासिगणः परस्परं मातृभाषया अन्यगणीयैः सह नागामीस्भाषया च भाषन्ते। किन्तु इयं भाषा कस्यापि गणस्य मातृभाषा न, लिपियुक्ता अपि न।

शासनम्[सम्पादयतु]

राज्यपालः राष्ट्रपतेः प्रतिनिधिः सन् राज्यस्य नायकः । शासनसम्बद्धैः दायित्वैः सह तस्य अनुष्ठानिकदायित्वानि भवन्ति । विधानसभायां ६० जनाः विद्यन्ते । ते एव कार्यनिर्वाहकाः चिताः सदस्याः । एतेषां प्रमुखः मुख्यमन्त्री । नागाल्याण्ड्राज्याय विशिष्टं स्वातन्त्र्यम् अधिकाराः दत्ताः सन्ति । अत्रत्याः नागावनवासिनः स्वीया न्यायनिर्णयादिव्यवस्थां रक्षितवन्तः । तत्र विभिन्नेषु स्तरेषु स्थानीयाः विवादाः परिह्रीयन्ते ।

राजनीतिः[सम्पादयतु]

नागालैण्ड-राज्ये एकसदनात्मकं विधानमण्डलं विद्यते । राज्येऽस्मिन् विधानसभायाः ६० स्थानानि सन्ति । नागालैण्ड-राज्ये लोकसभायाः २ स्थाने, राज्यसभायाः च १ स्थानकम् एव अस्ति । ई. स. १९६९ तमे वर्षे इदम् राज्यं विशेषराज्यत्वेन उद्घोषितम् आसीत् । “नागालैण्ड पीपुल्स् फ्रण्ट्”, “नेशनलिस्ट् डेमोक्रेटिक् मूवमेण्ट्”, “जनता दल”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी” इत्यादयः नागालैण्ड-राज्यस्य राजनैतिकसमूहाः सन्ति । “पी. शीलु. आओ” इत्याख्यः नागालैण्ड-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् [३]

अर्थव्यवस्था, कृषिः, उद्योगश्च[सम्पादयतु]

नागालैण्ड-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ७० प्रतिशतं जनाः कृषिकार्यं कुर्वन्ति । अस्मिन् प्रदेशे “झूम-कृषिः” अधिकमात्रायां क्रियते । तण्डुलाः अस्य राज्यस्य प्रमुखं सस्यम् अस्ति । अस्य राज्यस्य जलवायुः उष्णः आर्द्रश्च भवति । गोधूमः, लवेटिका च इत्यादयः अपि प्रमुखाणि सस्यानि सन्ति । कदलीफलं, नारङ्गफलं च इत्यादीनि फलानि उत्पाद्यन्ते । अस्य राज्यस्य प्रायः सर्वेषु ग्रामेषु विद्युत्सौकर्यं सम्प्राप्तम् अस्ति । औद्योगिकदृष्ट्या इदं राज्यम् अविकसितम् अस्ति । यद्यपि अस्मिन् प्रदेशे कर्गजोद्योगः विकसितः अस्ति । अस्मिन् राज्ये कौशेयोद्योगः अपि प्रचलति । अस्मिन् राज्ये लघूद्योगेषु हस्तनिर्मितानि वस्तूनि प्रसिद्धानि सन्ति [४]

सस्यसम्पत्तिः, प्राणिसम्पत्तिश्च[सम्पादयतु]

नागाल्याण्डस्य राज्यपक्षी - ब्लित्स् ट्रगोपन्

नागाल्याण्ड्राज्यं सस्यसम्पत्या युक्तं वर्तते । राज्यस्य षष्ठांशः घानारण्येन युक्तः वर्तते यत्र तालवृक्षः, वंशवृक्षः, वेतसवृक्षः, दारुवृक्षः च विद्यन्ते । गजाः, चित्रकाः, विविधजातीयाः वानराः, वृषभाः, महिष्यः च अत्र विद्यन्ते । भारतीयः चातकपक्षी अत्र दृश्यमानेषु प्रसिद्धपक्षिषु अन्यतमः। 'ब्रित्स् ट्रगोपन्' इत्येषः पक्षी राज्यपक्षी वर्तते। अयं पक्षी कोहिमामण्डलस्य जप्तु-झुकु-पर्वतयोः उपत्यकासु, जुन्हेबोटोमण्डलस्य् सटोप्रदेशे, फेक्मण्डले फुसेरोप्रदेशे च दृश्यते ।

संस्कृतिः[सम्पादयतु]

Sumitraditional.jpg

नागल्याण्ड्राज्यस्य १६ वनवासिगणाः - अङ्गमि, ओ, छखेसङ्ग्, चाङ्ग्, खियम्नियुङ्गन्, कोन्याक्, लोथा, फोम्, पोचुरि, रेङ्ग्मा, सङ्ग्तम्, सुमि, यिम्चुङ्गर्, कुकि झिलियाङ्ग् च । "वयनम्" अत्रत्यानां साम्प्रदायिकी कला । एकैकस्य वनवासिगणस्य च विशिष्टः विन्यासः वर्णाश्च भवन्ति । तैः राङ्कवः, स्कन्दस्यूतः, उत्पीठिका-आवरणिका, काष्ठकृतिः , वंशिकला , आलङ्कारिकाणि वस्तूनि च निर्मीयन्ते । बहुषु वनवासिगणेषु तैः ध्रियमाणस्य राङ्कवस्य विन्यासः तेषां सामाजिकं स्तरं द्योतयति । जनपदगानं नृत्यञ्च नागासंस्कृतेः प्रमुखः भागः। जनपदकथानां गीतानां च द्वारा मौखिकीपद्धतिः रक्षिता अस्ति । नागाजनपदगीतानि शृङ्गारात्मकानि ऐतिहासिकानि च भवन्ति यत्र पूर्वजानां कथाः जीवनघटनाश्च भवन्ति । युद्धनृत्यानि अन्यानि च नागल्याण्ड्राज्यस्य प्रमुखः कलाप्रकारः । नागाल्याण्ड्वनवासिनः महता आनन्देन उत्साहेन च उत्सवान् आचरन्ति। ६०% जनाः कृषकाः इत्यतः उत्सवाः अपि कृषिसम्बन्धिनः । उत्सवाः पवित्राः अतः अनिवार्यतया एतेषु भागः वोढव्यः इति ते चिन्तयन्ति । एकैकोपि गणः स्वीयान् उत्सवान् श्रद्धया निष्ठया च आचरति इत्यनेन इदम् उत्सवराज्यं मन्यते। अत्र आचर्यमाणाः प्रमुखाः उत्सवाः सन्ति - जनवरिमासे चाकेसाङ्ग्स्जनैः आचर्यमाणः सुखेन्यी, कुकिभिः आचर्यमाणः मिङ्कुत्, कचरिभिः आचर्यमाणः बुषु, अङ्गमिभिः आचर्यमाणः सेकेन्यी, ओलिङ्ग्, मोत्सु, तुलुनि, न्यक्न्य्लुम्, माङ्ग्माङ्ग्, तोखु एमाङ्ग्, येम्शे इत्यादयः।

नागाल्याण्डस्य हार्न् बिल् उत्सवः[सम्पादयतु]

अयम् उत्सवः नागाल्याण्ड्सर्वकारेण डिसेम्बर् २००० तमे वर्षे आरब्धः। वनवासिगणानां परस्परस्नेहसम्बन्धः वर्धनीयः, राज्यस्य सांस्कृतिकी परम्परा रक्षणीया च इति धिया । अयम् उत्सवः डिसेम्बर्मासस्य १ तः ७ दिनाङ्केषु भवति । प्रवासोद्यम-कला-संस्कृतिविभागाः च अस्य आयोजनं कुर्वन्ति । तदा सांस्कृतिकप्रदर्शनानि एकस्मिन् छदि उपस्थाप्यन्ते । सप्ताहात्मकः अयम् उत्सवः कोहिमातः १२ कि मी दूरे स्थिते नागासाम्प्रदायिकग्रामे किसमायां प्रचलति । सर्वे वनवासिगणाः अस्मिन् भागं वहन्ति । उत्सवस्य लक्ष्यमस्ति यत् नागाल्याण्ड्राज्यस्य वैभवयुतसंस्कृतेः प्रदर्शनं रक्षणञ्च । हार्न्बिल्नाम्ना उत्सवः नामाङ्कितः यस्मिन् विषये सर्वेषु वनवासिगणेषु जनपदकथाः श्रूयन्ते । साप्ताहिके अस्मिन् उत्सवे सर्वे एकत्र मिलिताः भवन्ति । कला, क्रीडा, आहारः, मेला, गृहवैद्यम्, पुष्पप्रदर्शनम्, गीतम्, नृत्यम् इत्यादिषु सर्वे विनोदम् अनुभवन्ति । साम्प्रदायिकाः कलाः चित्रकला, काष्ठकृतिः इत्यादयः प्रदर्श्यन्ते । विविधाः साहसस्पर्धाः, साहित्यकूटम्, वाहनस्पर्धाश्च आयोज्यन्ते।

धर्मः[सम्पादयतु]

नागाल्याण्ड्राज्ये क्रिश्चियन्मतम् आधिक्येन विद्यते । जनसङ्ख्यायां ९०.०२% जनाः क्रैस्ताः एव । क्रिस्तमन्दिरगन्तॄणां सङ्ख्या अपि अत्यधिका विद्यते ग्रामेषु नगरेषु च । कोहिमा, दीमापुर, मोकोचङ्ग्प्रदेशेषु महाक्रिस्तमन्दिराणि विद्यन्ते । भारतस्य त्रिषु क्रैस्तजनसङ्ख्याधिकएषु राज्येषु अन्यतमम् वर्तते इदम्।

वीक्षणीयस्थलानि[सम्पादयतु]

नागालैण्ड-राज्यं भारतस्य पूर्वदिशि स्थितम् अस्ति । राज्यमिदम् अत्यन्तं सुन्दरं दृश्यते । अस्य राज्यस्य वातावरणं शान्तं, सुखदं, स्वच्छं, प्राकृतिकं च वर्तते । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । कोहिमा-नगरस्य सङ्ग्रहालयः, जपकू, पीक, माता सीमिवयाङ्ग, वॉर सीमेट्री, मध्यकालीनस्य कचारी-राज्यस्य अवशेषाः, दीमापुरं, चुमुकेडीमा इत्यादीनि अस्य राज्यस्य पर्यटनस्थलानि सन्ति । कोहिमा-मण्डलस्य इनटानकी-राष्ट्रियोद्यानम् अपि आकर्षणस्य केन्द्रं विद्यते ।

मोकोकचुङ्ग[सम्पादयतु]

मोकोकचुङ्ग-नगरं नागालैण्ड-राज्यस्य मोकोकचुङ्ग-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे एओ-प्रजातिः निवसन्ति । इदं नगरं सांस्कृतिकदृष्ट्या, बौद्धिकदृष्ट्या च राज्ये प्रसिद्धम् अस्ति । इदं नगरं समुद्रतलात् १३२५ मीटरमितम् उन्नतम् अस्ति । नगरस्य समीपे बहवः जलप्रपाताः, पर्वताश्च सन्ति । मोकोकचुङ्ग-नगरस्य जनाः “क्रिसमस्”, नूतनवर्षं, “मोत्सू” इत्यादयः उत्सवाः आचरन्ति । तेषु मोत्सू-उत्सवः एओ-जातेः प्रमुखोत्सवः मन्यते । अस्य उत्सवस्य प्रमुखं केन्द्रं चुचुयिमलाङ्ग-ग्रामः अस्ति । अयं ग्रामः मोकोकचुङ्ग-नगरस्य समीपे एव अस्ति । अयम् उत्सवः मई-मासस्य प्रथमे सप्ताहे आचर्यते । उत्सवेऽस्मिन् एओ-जनाः सम्मिलन्ति । अस्मिन् नगरे ईसाईधर्मस्य प्रामुख्यं वर्तते । अस्मिन् नगरे ९५ प्रतिशतं जनाः ईसाई-धर्मम् आचरन्ति ।

मोकोकचुङ्ग-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः मोकोकचुङ्ग-नगरं कोहिमा-नगरेण, वोखा-नगरेण, चाङ्गटोङ्ग्या-नगरेण, तुली-नगरेण च सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अस्मिन् नगरे रेलस्थानकं नास्ति । असम-राज्यस्य मरियानी-रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं समीपस्थराज्यानां प्रमुखनगरैः सह सम्बद्धम् अस्ति । मरियानी-नगरात् मोकोकचुङ्ग-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । दीमापुर-नगरस्य विमानस्थानकं, असम-राज्यस्य जोरहट-नगरस्य विमानस्थानकं च मोकोकचुङ्ग-नगरस्य समीपस्थे विमानस्थानके स्तः । मोकोकचुङ्ग-नगरात् दीमापुर-नगरं २१२ किलोमीटरमिते, जोरहट-नगरं १०५ किलोमीटरमिते च दूरे स्थितम् अस्ति । एते विमानस्थानके गुवाहाटी-नगरेण, कोलकाता-नगरेण च सह सम्बद्धम् अस्ति । भारतस्य प्रमुख-नगरेभ्यः अपि वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मोकोकचुङ्ग-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । जनाः सरलतया मोकोकचुङ्ग-नगरस्य भ्रमणं कर्तुं शक्नुवन्ति ।

पेरेन[सम्पादयतु]

पेरेन-नगरं नागालेण्ड-राज्यस्य पेरेन-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं वनेभ्यः प्रसिद्धम् अस्ति । यतः अस्य मण्डलस्य वनानि जनरहितानि सन्ति । आदिवासिनः एतेषां वनानां संरक्षणं कुर्वन्ति । अस्य मण्डलस्य पश्चिमदिशि असम-राज्यं, पूर्वदिशि कोहिमा-मण्डलं, दक्षिणदिशि मणिपुर-राज्यं च स्थितम् अस्ति । स्थलमिदं प्राकृतिकं वर्तते । पेरेन-नगरं पर्वते स्थितम् अस्ति । अतः पेरेन-नगरात् असम-राज्यस्य, मणिपुर-राज्यस्य च दृश्यं दृश्यते । इदं मण्डलं बरेल-पर्वतशृङ्खलायाः कस्मिँश्चिद्भागे स्थितम् अस्ति । अस्मिन् मण्डले विविधाः वनस्पतयः, नद्यः, पर्वताः सन्ति । विहगाः, पशवः च अपि बहवः सन्ति । वनेषु ईक्षुवृक्षाः अधिकमात्रायां प्राप्यन्ते । एतेषु वनेषु विविधाः वृक्षाः दृश्यन्ते । मण्डलेऽस्मिन् खानिजाः अपि प्राप्यन्ते । किन्तु अधिकमात्रायां तेषां खानिजानाम् उत्पादनं न क्रियते । अस्मिन् मण्डले बहूनि पर्यटनस्थलानि सन्ति । “नताङ्गकी-राष्ट्रियोद्यानं”, “माउण्ट् पाओना”, “माउण्ट् कीसा”, “बेनरुइ”, “पुइलवा-ग्रामस्य गुहाः” च इत्यादीनि पेरेन-मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।

पेरेन-मण्डले जीलिङ्ग्स-जनजातिः निवसति । अस्याः जनजातेः उद्भवः मणिपुर-राज्यस्य सेनापति-मण्डले नकुइलवाङ्गदी-स्थले अभवत् । इयं जनजातिः “काचा नागा” इति नाम्ना ज्ञायते । ते कृषिं कुर्वन्ति । पेरेन-मण्डलस्य जलवायुः शान्तः, मृत्तिका उर्वरा च अस्ति । अतः इदं मण्डलं नागालैण्ड-राज्यस्य कृषिकार्ये उत्तमं मण्डलम् अस्ति । जीलिङ्ग्स-जनजातेः कलाकृतिः, नृत्यं, सङ्गीतं च भिन्नम् अस्ति । अतः इयं जनजातिः नागालैण्ड-राज्यस्य महत्त्वपूर्णा जनजातिः मन्यते । अस्मिन् राज्ये “मिशनरी-इन्स्टीट्यूट्” इतीयं संस्था स्थिता अस्ति । यदा आङ्ग्लानाम् आगमनम् अभवत् तदैव इयं संस्था अपि आरब्धा । अनया संस्थया अस्य राज्यस्य संस्कृतिः, जीवनशैली च प्रभाविता जाता । अस्मिन् मण्डले बहवः उत्सवाः आचर्यन्ते । “मिमकुट”, “चेगा गादी” “हेवा” इत्यादयः अस्य मण्डलस्य प्रमुखाः उत्सवाः सन्ति । एते सर्वे सस्योत्सवाः सन्ति । एवं च क्रिसमस्-उत्सवः पेरेन-मण्डलस्य जनानां मुख्योत्सवः अस्ति ।

अस्मिन् मण्डले भ्रमणं कर्तुम् अनुमतिः आवश्यकी भवति । देहली-नगरे, कोलकाता-नगरे, गुवाहाटी-नगरे अस्य अनुमतिं प्राप्तुं कार्यालयाः स्थिताः सन्ति । ततः सरलतया अनुमतिं प्राप्यते । ये वैदेशिकाः पर्यटकाः भवन्ति, तेभ्यः अनुमतेः आवश्यकता न भवति । तथापि तैः “फॉरेन् रजिस्ट्रार कार्यालये” पञ्जीकरणं करणीयम् भवति ।

पेरेन-मण्डले नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । अतः तैः बसयानैः पेरेन-मण्डलस्य भ्रमणं कर्तुं शक्यते । पर्यटकाः भाटकयानैः अपि पर्यटनं कुर्वन्ति । पेरेन-मण्डलस्य भूमार्गः समीपस्थैः मण्डलैः सह सम्बद्धः अस्ति । दीमापुर-नगरस्य रेलस्थानकम् पेरेन-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । दीमापुर-नगरात् पेरेन-नगरं ७७ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-रेलस्थानकात् देहली-महानगराय, कोलकाता-महानगराय, गुवाहाटी-नगराय इत्यादिभिः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । दीमापुर-रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । दीमापुर-रेलस्थानकात् पेरेन-नगरं बसयानैः, भाटकयानैः वा गन्तुं शक्यते । पेरेन-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं पेरेन-नगरस्य निकटतमम् विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् कोलकाता-नगराय, गुवाहाटी-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पेरेन-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया गन्तुं शक्यते । विदेशस्य, भारतस्य च विभिन्ननगरेभ्यः जनाः भ्रमणार्थं तत्र गच्छन्ति ।

किफिर[सम्पादयतु]

किफिर-नगरं नागालैण्ड-राज्यस्य किफिर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं नागालैण्ड-राज्यस्य आकर्षकं स्थलम् अस्ति । नगरमिदम् उच्चपर्वते स्थितम् अस्ति । अस्मात् नगरात् नागालैण्ड-राज्यस्य मनोहरं दृश्यं दृश्यते । ई. स. २००४ तमे वर्षे किफिर-मण्डलं सङ्घटितम् । इदं मण्डलं त्वेनसाङ्ग-मण्डलस्य कश्चन भागः अस्ति । इदं नागालैण्ड-राज्यस्य नवमं मण्डलम् अस्ति । अस्य मण्डलस्य उत्तरदिशि त्वेनसाङ्ग-मण्डलं, पूर्वदिशि म्यान्मार-देशः, पश्चिमदिशि फेक-मण्डलं च स्थितम् अस्ति । मण्डलेऽस्मिन् काश्चित् नागा-जनजातयः निवसन्ति । “यिमचुङ्गर्स”, “खियमनिनगन”, “फोम”, “सङमा”, “सुमि” इत्यादयः जनजातयः प्राप्यन्ते । किफिर-नगरस्य समीपे “सारामाटी-पर्वतः” स्थितः अस्ति । अयं पर्वतः समुद्रतलात् ३८४१ किलोमीटरमितः उन्नतः अस्ति । अयं पर्वतः नागालैण्ड-राज्यस्य उच्चतमं शिखरम् विद्यते । अयं पर्वतः सर्वदा हिमाच्छादितः भवति । अतः तेन अयं पर्वतः अत्यधिकः सुन्दरः दृश्यते । मन्यते यत् – “सारामाटी-पर्वतः किफिर-मण्डलस्य रक्षणं करोति” इति । किफिर-मण्डले पर्यटनाय बहूनि स्थलानि सन्ति । “फाकिम-वन्यजीवाभयारण्यं” “सलोमी-मिमी-गुहाः”, “लवर्स् पैराडाइज्” च इत्यादीनि किफिर-मण्डलस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । किफिर-नगरस्य समीपे सिमी-ग्रामः अस्ति । तस्मिन् ग्रामे ववाडॆ-जलप्रपातः अपि अस्ति । इतः परं सङ्गथम-स्थले प्राचीनजनजातिः निवसति । तत्र “निङ्ग्थसलाङ्ग” इति नामकः शिलालेखः स्थितः अस्ति । अनेन प्रकारेण जनाः भारतस्य विभिन्ननगरेभ्यः भ्रमणार्थं किफिर-मण्डलं गच्छन्ति । एवं च तत्र गत्वा आनन्दं प्राप्नुवन्ति ।

किफिर-नगरं १५५ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः किफिर-नगरं कोहिमा-नगरेण, मेलुरी-नगरेण, दीमापुर-नगरेण, मोकोचुङ्ग-नगरेण च सह सञ्योजयति । नागालैण्ड-नगरस्य सर्वकारेण नागरिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः किफिर-मण्डलं गन्तुं शक्यते । किफिर-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं किफिर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । किफिर-नगरात् दीमापुर-नगरं ३१२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः भाटकयानैः वा किफिर-नगरं प्राप्यते । दीमापुर-नगरस्य विमानस्थानकं किफिर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, देहली-नगराय च दीमापुर-विमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेन पर्यटकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण वा सरलतया किफिर-मण्डलं प्राप्तुं शक्नुवन्ति ।

मोन[सम्पादयतु]

मोन-नगरं नागालैण्ड-राज्यस्य मोन-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । मोन-नगरं गत्वा जनाः प्रकृतौ लीनाः भवन्ति । इदं मण्डलं नागालैण्ड-राज्यस्य पूर्वोत्तदिशि स्थितम् अस्ति । अस्य मण्डलस्य उत्तरदिशि असमराज्यं, दक्षिणदिशि म्यान्मारदेशः, पश्चिमदिशि मोकोकचुङ्ग-मण्डलं, त्वेनसाङ्ग-मण्डलं च स्थितम् अस्ति । मोन-नगरं “सांस्कृतिकस्वर्गः” इति नाम्ना विख्यातम् अस्ति । मोन-मण्डलं “कोन्यक्षस्य भूमिः” इति नाम्ना ज्ञायते । “कोन्यक्ष” इतीयं टैटू-योद्धाजनजातिः अस्ति । अस्य मण्डलस्य जनाः साम्प्रतमपि पारम्परिकापरिधानानि धरन्ति । तेषु परिधानेषु कुण्डलानि, वस्त्राणि इत्यादीनि भारसहितानि भवन्ति । कोन्यक्ष-जनजातिः द्वयोः भागयोः विभक्ता अस्ति । थेण्डु, थेन्थु च । पुरा अस्याः जनजातेः जनानां मुखे त्वगुत्किरणं (Tatoo) भवति स्म । किन्तु साम्प्रतं ते मुखे त्वगुत्किरणं न कारयन्ति । थेण्डु-समूहस्य जनाः मण्डलस्य अधस्थले निवसन्ति । किन्तु थेन्थु-समूहस्य जनाः मण्डलस्य उच्चस्थले निवसन्ति । तत्स्थलं “टोबू” इति कथ्यते । थेण्डु-समूहस्य शासकाः “अङ्ग्स्” इति नाम्ना ज्ञायन्ते । कोन्यक्ष-जनजातेः जनाः अप्रैल-मासे “आओलेन्योग मोनयू” इति उत्सवम् आचरन्ति । उत्सवः अयं साप्ताहिकः भवति । अतः अप्रैल-मासे मोन-मण्डलं गन्तव्यम् ।

मोन-मण्डलं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः मोन-मण्डलं नागालैण्ड-राज्यस्य अन्यैः मण्डलैः सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितैः बसयानैः मोन-मण्डस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्यते । असम-राज्यस्य लकवा-नगरस्य रेलस्थानकं मोन-नगरस्य निकटतमं रेलस्थानकम् अस्ति । मोन-नगरात् लकवा-रेलस्थानकं ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । लकवा-रेलस्थानकं भारतस्य प्रमुख-नगरैः सह सम्बद्धम् अस्ति । मोन-नगरात् दीमापुर-रेलस्थानकं २५१ किलोमीटरमिते दूरे स्थितम् अस्ति । अतः दीमापुर-नगरादपि मोन-नगरं बसयानैः, भाटकयानैः वा प्राप्यते । मोन-नगरात् गुवाहाटी-विमानस्थानकम् ४२३ किलोमीटरमिते, जोरहाट-विमानस्थानकं ११९ किलोमीटरमिते दूरे, दीमापुर-विमानस्थानकं २५१ किलोमीटरमिते दूरे च स्थितम् अस्ति । एतानि विमानस्थानकानि भारतस्य प्रमुख-नगरैः सह सम्बद्धानि सन्ति । तेभ्यः विमानस्थानकेभ्यः बसयानैः मोन-नगरं प्राप्यते । अनेन प्रकारेन जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण वा सरलतया मोन-नगरं प्राप्तुं शक्नुवन्ति ।

वोखा[सम्पादयतु]

वोखा-नगरं नागालैण्ड-राज्यस्य वोखा-मण्डलस्य मुख्यालयः विद्यते । वोखा-मण्डले लोथा-जनजातिः निवसति । इयं जनजातिः बृहत्तमासु जनजातीषु अन्यतमा अस्ति । इदं मण्डलं परितः पर्वताः सन्ति । तेन इदं मण्डलं रमणीयं दृश्यते । अतः एव इदं मण्डलं जनेषु लोकप्रियम् अस्ति । अस्य मण्डलस्य उत्तरदिशि मोकोकचुङ्ग-मण्डलं, पूर्वदिशि जुन्हेबोटो-मण्डलं, पश्चिमदिशि असम-राज्यं च स्थितम् अस्ति । लोथा-आदिवासिनः पर्यटकानां सोत्साहेन स्वागतं कुर्वन्ति । “तोखू”, “पिखुचक”, “ईमोङ्ग” इत्यादयः अस्य राज्यस्य प्रमुखोत्सवाः सन्ति । अस्मिन् उत्सवे स्थानीयनृत्यानि, सङ्गीतानि च भवन्ति । वोखा-मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तीयी-पर्वतः, तोत्सु-शिखरं, दोयाङ्ग-नदी इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । नागालैण्ड-राज्ये प्रवेशाय पर्यटकैः अनुमतिः आवश्यकरूपेण स्वीकर्त्तव्या भवति । कोलकाता-नगरे, गुवाहाटी-नगरे, शिलाङ्ग-नगरे च अस्य कार्यालयाः अपि सन्ति ।

वोखा-मण्डलं ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः वोखा-नगरं दीमापुर-नगरेण सह सञ्योजयति । नागालैण्ड-राज्यस्य राजधानी कोहिमा-नगरं वोखा-नगरात् ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । नागालैण्ड-राज्यस्य सर्वकारप्रचालितैः बसयानैः अपि वोखा-मण्डलं प्राप्यते । वोखा-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं वोखा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । वोखा-नगरात् दीमापुर-नगरं १५७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । वोखा-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं वोखा-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । वोखा-नगरात् दीमापुर-विमानस्थानकं १६२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगराद् बसयानैः, भाटकयानैः वा वोखा-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया वोखा-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

जून्हेबोटो[सम्पादयतु]

जुन्हेबोटो-नगरं नागालैण्ड-राज्यस्य जुन्हेबोटो-मण्डलस्य केन्द्रत्वेन विद्यते । इदं नगरं समुद्रतलात् १८०० किलोमीटरमितम् उन्नतम् अस्ति । अस्य मण्डलस्य पूर्वदिशि मोकोकचुङ्ग-मण्डलं, पश्चिमदिशि वोखा-मण्डलं च स्थितम् अस्ति । अस्मिन् मण्डले सूमी-जनजातिः निवसन्ति । अस्याः जनजातेः जनाः यौधकलासु निपुणाः भवन्ति । सूमि-जनैः उत्सवेषु विविधानि नृत्यानि, सङ्गीतानि च प्रस्तूयन्ते । सूमि-जनानां परिधानानि अपि भिन्नानि भवन्ति । “अहूना” इत्ययं सूमी-जनानां प्रमुखोत्सवः मन्यते । सूमि-जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । जनाः जुलाई-मासे जुन्हेबोटो-मण्डलं गच्छन्ति । तस्मिन् समये सूमि-आदिवासिनः जनाः उत्सवान् आचरन्ति । मण्डलेऽस्मिन् विहगाभयारण्यं, विशालवनानि च सन्ति । तिजु-नदी, दोयाङ्ग-नदी, सुथा-नदी इत्येताः जुन्हेबोटो-मण्डलस्य प्रमुखाः नद्यः सन्ति ।

जुन्हेबोटो-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । नागालैण्ड-सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । जुन्हेबोटो-नगरात् कोहिमा-नगरं १५२ किलोमीटरमिते, मोकोकचुङ्ग-नगरं ७० किलोमीटरमिते च दूरे स्थितम् अस्ति । ताभ्यां नगराभ्यां बसयानैः जुन्हेबोटो-नगरं प्राप्यते । जुन्हेबोटो-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं जुन्हेबोटो-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । जुन्हेबोटो-नगरात् दीमापुर-नगरं २०७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । जुन्हेबोटो-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं जुन्हेबोटो-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । जुन्हेबोटो-नगरात् दीमापुर-विमानस्थानकं २१० किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा जुन्हेबोटो-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया जुन्हेबोटो-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

फेक[सम्पादयतु]

फेक-नगरं नागालैण्ड-राज्यस्य फेक-मण्डलस्य मुख्यालयः अस्ति । स्थलमिदं नागालैण्ड-राज्यस्य अज्ञातस्थलेषु अन्यतमम् अस्ति । ये समीपस्थाः जनाः भवन्ति, ते एव अस्य स्थलस्य विषये जानन्ति । अस्मिन् मण्डले पर्वताः, नद्यः, क्षेत्राणि च सन्ति । फेक-नगरे अत्यधिकं प्राकृतिकं सौन्दर्यं वर्तते । फेक-मण्डलं नागालैण्ड-राज्यस्य दक्षिणपूर्वभागे स्थितम् अस्ति । अस्य मण्डलस्य पूर्वदिशि म्यामार-देशः, दक्षिणदिशि मणिपुर-राज्यं, पश्चिमदिशि कोहिमामण्डलं, उत्तरदिशि जून्हेबोटो-मण्डलं, त्वेनसाङ्ग-मण्डलं च स्थितम् अस्ति । पुरा फेक-मण्डलं कोहिमा-मण्डलस्य कश्चनभागः आसीत् । इदं नगरं कोहिमा-नगरात् १४५ किलोमीटरमिते दूरे स्थितम् अस्ति । “चाकेसङ्ग”, “पोचुरी” इत्येते फेक-मण्डलस्य जाती स्तः । चाकेसङ्ग-जातेः विभागत्रयम् अस्ति । “चोकरी”, “खेज्हा”, “साङ्ग” च । अस्मिन् मण्डले तेंयिदी-भाषा, नागामीस-भाषा च व्यवह्रियते । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । तिजू-नदी, लान्ये-नदी, सेद्जु-नदी च । मण्डलेऽस्मिन् बहूनि वीक्षणीयस्थलानि सन्ति । “शिल्लोई”, “चिडा”, “जुदु-तडागः” इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । “खुथोन्ये”, “थुरिन्ये”, “तुर्हिन्ये”, “गुन्ये”, “तुखन्ये”, “सुखरुन्ये” इत्यादयः अस्य मण्डलस्य प्रमुखाः उत्सवाः सन्ति । जनाः उत्साहपूर्वकम् एतान् उत्सवान् आचरन्ति ।

फेक-नगरं भूमार्गेण कोहिमा-नगरेण, दीमापुर-नगरेण, जून्हेबोटो-नगरेण इत्यादिभिः नागालैण्ड-राज्यस्य नगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । तैः बसयानैः सरलतया फेक-नगरस्य समीपस्थानि वीक्षणीयस्थलानि गन्तुं शक्यन्ते । अस्मिन् मण्डले भाटकयानानि अपि प्रचलन्ति । फेक-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं फेक-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । फेक-नगरात् दीमापुर-नगरं ३७७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । फेक-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं फेक-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । फेक-नगरात् दीमापुर-विमानस्थानकं ३७२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा फेक-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया फेक-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

लॉङ्गलेङ्ग[सम्पादयतु]

लॉङ्गलेङ्ग-नगरं नागालैण्ड-राज्यस्य लॉङ्गलेङ्ग-मण्डलस्य मुख्यालयः अस्ति । ई. स. २००४ तमस्य वर्षस्य जनवरी-मासस्य २४ तमे दिनाङ्के (२४ जनवरी २००४) “लॉङ्गलेङ्ग” क्षेत्रं मण्डलत्वेन उद्घोषितम् । इदं मण्डलं समुद्रतलात् १०६६ मीटरमितम् उन्नम् अस्ति । अस्मिन् नगरे भ्रमणाय सर्वकारस्य अनुमतिः आवश्यकी भवति । लॉङ्गलेङ्ग-मण्डलं पर्वतीयक्षेत्रम् अस्ति । इदं क्षेत्रं नागालैण्ड-राज्यस्य उत्तरदिशि स्थितम् अस्ति । अस्मिन् मण्डले पर्यटकाः पर्वतारोहणाय अपि गच्छन्ति । स्थलमिदम् अत्यन्तं शान्तम् अस्ति । “फोम नागस” लॉङ्गलेङ्ग-मण्डलस्य जनजातिः अस्ति । एते जनाः मृत्पात्राणि निर्मान्ति । एते आदिवासिनः पाषाणकालीनाः सन्ति । एतेषु जनेषु बहुभिः जनैः ईसाई-धर्मः आचरितः । अस्य जनजातेः जनाः ग्रीष्मर्तोः स्वागतार्थं मोन्यु-उत्सवम् आचरन्ति । अयम् उत्सवः अप्रैल-मासे षड्दिनात्मकः आचर्यते । जनाः इमम् उत्सवं दृष्टुं लॉङ्गलेङ्ग-मण्डलं गच्छन्ति ।

लॉङ्गलेङ्ग-नगरं ६१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः लॉङ्गलेङ्ग-नगरं नागालैण्ड-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । नागालैण्ड-राज्यस्य सर्वकारेण प्रचालितैः बसयानैः लॉङ्गलेङ्ग-नगरं गन्तुं शक्यते । लॉङ्गलेङ्ग-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकं लॉङ्गलेङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । लॉङ्गलेङ्ग-नगरात् दीमापुर-नगरं ६४२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय, देहली-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । लॉङ्गलेङ्ग-नगरे विमानस्थानकं नास्ति । दीमापुर-नगरस्य विमानस्थानकं लॉङ्गलेङ्ग-मण्डलस्य निकटतमं विमानस्थानकम् अस्ति । लॉङ्गलेङ्ग-नगरात् दीमापुर-विमानस्थानकं ६४२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् बसयानैः, भाटकयानैः वा लॉङ्गलेङ्ग-नगरं प्राप्यते । अनेन प्रकारेण जनाः सरलतया लॉङ्गलेङ्ग-नगरस्य वीक्षणीयस्थानां भ्रमणं कर्तुं शक्नुवन्ति ।

परिवहनम्[सम्पादयतु]

भूमार्गः[सम्पादयतु]

नागालैण्ड-राज्यस्य परिवहनं मुख्यत्वे भूमार्गेषु आधारितम् अस्ति । नागालैण्ड-राज्यस्य आहत्य मार्गाः ९,८६० किलोमीटरमिताः दीर्घाः सन्ति । एतेषु राष्ट्रियराजमार्गाः, प्रान्तीयराजमार्गाः, ग्राम्यमार्गाः च सम्मिलिताः सन्ति । अस्य राज्यस्य राष्ट्रियराजमार्गाः नागालैण्ड-राज्यं मणिपुर-राज्येन, असम-राज्येन च सह सञ्योजयति । नागालैण्ड-राज्यं गन्तुं भूमार्गः सर्वोत्तमः अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

नागालैण्ड-राज्यं पर्वतीयक्षेत्रम् अस्ति । अतः अस्य राज्यस्य एकमेव रेलस्थानकं दीमापुर-नगरे अस्ति । दीमापुर-नगरम् असम-राज्येन सह श्रेष्ठतया सम्बद्धम् अस्ति । दीमापुर-नगरस्य रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । जनाः दीमापुर-नगरात् बसयानैः भाटकयानैः वा नागालैण्ड-राज्यस्य अन्यानि नगराणि गन्तुं शक्नुवन्ति ।

वायुमार्गः[सम्पादयतु]

नागालैण्ड-राज्यस्य एकमात्रं विमानस्थानकम् अपि दीमापुर-नगरे एव अस्ति । अस्माद् विमानस्थानकात् गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । जनाः सरलतया दीमापुर-नगरं प्राप्नुवन्ति ।

अनेन प्रकारेण नागालैण्ड-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्नराज्यैः सह सम्बद्धम् अस्ति ।

वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२७
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२८
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२५
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२८
"https://sa.wikipedia.org/w/index.php?title=नागालैण्डराज्यम्&oldid=387349" इत्यस्माद् पुनः प्राप्तिः