भारतस्य केन्द्रशासितप्रदेशाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


भारतस्य केन्द्रशासितप्रदेशाः ( ( शृणु) /ˈbhɑːrətəsjə kɛndrəʃɑːsɪtəprədɛʃɑːhɑː/) (हिन्दी: भारत के केन्द्रशासित प्रदेश, आङ्ग्ल: Union territory of India) स्वतन्त्राः भवन्ति । भारते सप्त केन्द्रशासितप्रदेशाः सन्ति । केन्द्रसर्वकारः एव केन्द्रशासितप्रदेशानां तन्त्रं प्रचालयति । एतेषु प्रदेशेषु निर्वाचनम् अपि स्वतन्त्रतया एव भवति ।

अण्डमाननिकोबारद्वीपसमूहः[सम्पादयतु]

अण्डमान् निकोबार् च द्वीपौ भारतस्‍य केन्द्रशासितप्रदेशौ स्तः। अण्डमाननिकोबारद्वीपानां समूहे सहस्रशः लघुलघुद्वीपाः सन्ति । गङ्गासागरे (बङ्गालोपसागरे) एतानिमुक्ताहारः इव प्रकाशन्ते । अत्र ५७० तः अधिकाः द्वीपाः स्पष्टतया दृढीकृताः सन्ति । एतेषां विस्तीर्णता ८२४८ चतुरस्र कि.मीमिता। अतीव बृहत् द्वीपः नाम अण्डमानद्वीपः । अस्य राजधानी पोर्ट ब्लेयर । अस्य दैर्घ्यं ४६७ कि.मी । विस्तारः ५२ कि.मी । पर्वतप्रदेशे अनेकानि सुन्दराणि शिखरापि सन्ति । अत्र जनाः मलेशिया म्यान्मार्म्यान्मारवंशीयाः सन्ति । सा.श.१७-१८ शतके युरोप्रदेशीयाः अत्रागत्य स्थितवन्तः । भारतस्य लुण्ठकान् चोरान् अत्र कारागृहे स्थापयितुं विशालं कारागृहं निर्मितम् । तेषां कालापानी इति दण्डनं कुर्वन्ति स्म । आङ्गलाः स्वविरोधिनः अत्रैव प्रेषयन्ति स्म । इष्टिकाभिः निर्मिते लाघुकोष्ठे स्थापयन्ति स्म ।

चण्डीगढ[सम्पादयतु]

मुख्यलेखः : चण्डीगढ

चण्डीगढ़ केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति । एतद् नगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति। चण्डीगडनगरं (Unique City) सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । भारतपाकिस्तानयोः विभाजनसमये लाहोरनगरं पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् । प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । नगरनिर्माता अभियन्ता वास्तुशिल्पी कार्बुसियर् नगरयोजनां कृतवान् । तदा तदा उत्तमाः सूचनाः दत्तवान् । एतेन अद्यापि नगरयोजना निर्मातारः, नगराभ्यासिजनाः नूतनवास्तुशिल्पकालां ज्ञातुम् इच्छुकाः अत्र आगत्य अध्ययनं कुर्वन्ति । मरुभूमौ पुष्पं कथं विकासितम् इति ज्ञातुं कुतूहलेन वास्तुतन्त्रज्ञाः अत्र आगच्छन्ति ।

दीव दमण च[सम्पादयतु]

मुख्यलेखः : दीव दमण च

दीव दमण च भारतस्य केन्द्रशासितः प्रदेशः अस्ति। एषः अरबसागरे स्थितः कश्चन द्वीपः। गुजरातसमीपे भवति।

दादरा नगरहवेली च[सम्पादयतु]

मुख्यलेखः : दादरा नगरहवेली च

दादर नागर हवेली च भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति। एषः पश्चिमतटे गुजरातराज्यस्य समीपे भवति। क्रिस्ताब्दस्य १९५४ पर्यन्तम् एषः प्रदेशः पोर्तुगालदेशीयानां प्रशासने आसीत् । इदानीं भारतसर्वकाराधीनः अस्ति । अस्य विस्तारः ४९१ चतुरस्र कि.मी । सम्पूर्णप्रदेशः एव सुन्दरम् उद्यानमिवास्ति । उत्तमवाहनमार्गः अस्ति । मार्गपाश्वेः सुन्दरवृक्षाणां पङ्क्तिः अस्ति । मृगाः वने स्वतन्त्रतया विहरन्ति । हिरवावन् वाटिकाः अतीवाकर्षकाः सन्ति । लघु निर्झराः जलपाताः जलप्रवहणस्य मधुरध्वनिः एतेषां मध्ये मनोविहारः सुकरः अत्र । अत्र जनानां कालयापनम् अतीव आनन्ददायकम् इष्टं च भवति । वनगङ्गासरोरवस्य पार्श्वे सूर्यास्तोदयानां सुन्दरं दृश्यं प्रेक्षणीयं भवति । नौकाविहाराय अत्र उत्तमः अवसरः अस्ति । अत्र हरिद्वनानि उद्यानानि विहारस्थानानि अपूर्वाणि कल्मशरहितानि सन्ति । वनधारावाटिकायां हरित्तृणभूमौः गमनम् अतीव हर्षाय भवति । धामनगङ्गानदी, वनविहारस्य सानुप्रदेशः, विविधाः वाटिकाः मनोविनोदाय उत्तमानि सन्ति । वासाय उत्तमवसतिगृहाणि सन्त्ति । सिलवासा अस्य प्रदेशस्य राजधानी अस्ति ।

देहली[सम्पादयतु]

मुख्यलेखः : देहली

दिल्ली अथवा देहली (Delhi) भारतस्य राजधानी अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी प्राचीनकाले हस्तिनापुरम् इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति । भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोघल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् ।

पुदुच्चेरी[सम्पादयतु]

मुख्यलेखः : पुदुच्चेरी

पाण्डीचेरी (तमिलुभाषायां புதுச்சேரி अथवा பாண்டிச்சேரி) भारतस्य कश्चन केन्द्रशासित: प्रदेशः अस्ति । २००६ तमस्य वर्षस्य सप्टम्बर०००मासे अस्य नाम पुदुचेरी इति परिवर्तितम् । तमिळुभाषायां पुदुचेरी इत्यस्य अर्थः नूतनः ग्रामः इति । पाण्डिचेरी सागरतीरे स्थितं किञ्चन सुन्दरनगरम् अस्ति । पर्वतप्रदेशाः अत्र न सन्ति । विस्तारः २९० चतुरस्र कि.मी.मितः । इतिहासानुसारं द्वितीये शतके रोमदेशीयाः अत्र वाणिज्यव्यवहारेषु मग्नाः आसन् । अनन्तरं युरोपियन् जनाः आगताः क्रिस्ताब्दे १६७३ तमे वर्षे फ्रान्सदेशीयाः अत्रत्यम् अधिकारं प्राप्तवन्तः । नगरनिर्माणम् उत्तमरीत्या कृतमस्ति । उत्तरदक्षिणतः पूर्वपरिचयतां च सरल मार्गाः सन्ति । फ्रान्सदेशीयाः श्वेतनगरं कृष्णनगरमिति भागद्वयं कृतवन्तः ।यत्र फ्रेञ्चजनाः आसन् सः भागः श्वेतनगरम् इति प्रसिद्धः आसीत् । मार्गाणां नामानि अपि रोमन् शैल्या रोमेन्-रोलामार्गः , रूसप्रान् , रोविक्टर् , सीमो- नेल् इत्यादीनि सन्ति । अत्रत्याः आरक्षकाः फ्रान्सदेशीयसैनिकाः इव समवस्त्रं धरन्ति। गृहाणां नामनि अपि फ्रेञ्चशैल्या सन्ति । प्रमुखवाणिज्यकेन्द्रणि गान्धिमार्गः , नेहरूमार्गः इत्यादयः। नगरे फ्रान्सस्मारकाः सन्ति । जोन् आफ् आर्क् प्रतिमा अस्ति । डूप्लेविग्रहः अस्ति । विल्लेनोय्रे प्रदेशे (कृष्णनगरम्) तिरुवळ्ळुवर ,अण्णादोरै , एम्.जी. आर् , कामराजप्रतिमाः सन्ति । अत्र ५५विविधभाषाजनाः निवसन्ति । आङ्ग्लभाषा , फ्रेञ्चभाषा , तमिळ् ,मलयाळं , तेलुगु राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि त्रिशतवर्षं प्राचीनानि सन्ति । पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति । पुदुचेर्यां चत्वारि असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, कारैकल्, यानम्, माहे च । पाण्डीचेरी कारैकल् च तमिळनाडुराज्यस्य भूभागौ विद्येते । यानम् आन्ध्रप्रदेशे माहे केरलभूभागे च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितं, कारैकल् १६० च कि मी मितं, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । पाण्डीचेरीमण्डले १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।

लक्षद्वीपाः[सम्पादयतु]

मुख्यलेखः : लक्षद्वीपाः

लक्षद्वीप: भारतस्‍य कश्चित् केन्द्रशासितः प्रदेशः अस्‍ति। एतत् भारतीयप्रशासनाधीनद्वीपानां समूहस्थानम् । अत्र ३६ द्वीपाः सन्ति । एतेषां द्वीपानां पाङ्क्तिः एव जले अतीव सुन्दरतया प्रकाशते । लक्षद्वीपस्य ल्याक्डीव् इति अपि नाम अस्ति । अस्य विस्तारः ५० चतुरस्रकि.मीमितः । शतशः द्वीपाः अत्र सन्ति । तेषु ५० द्वीपेषु केवलं जनाः निवसन्ति । एते द्वीपाः अग्निपर्वतैः निर्मिताः इति कथयन्ति । उत्तरभागे स्थितानां द्वीपानाम् अमिण्डिवि इति नाम अस्ति । मिनिकायद्वीपः एतेषु द्वीपेषु बृहत् अस्ति । एषः तिरुवनन्तपुरम् दिशि अस्ति । भारतीयाः अत्र मुक्ततया गत्वा आगच्छन्ति । अत्र बहुजनाः महम्मदीयाः सन्ति । विदेशीयानां अत्र गमनाय अनुमति पत्रम् आवश्यकम् अस्ति । अत्र विशेषाकर्षणम् सागरजले निमज्यखेलनं लक्ष्यद्वीपस्य राजधानी कवरट्टी अस्ति । अत्र नारिकेलवृक्षाणां वाटिकाः सन्ति । बङ्गारम् द्वीपे प्रवासिनाम् उपाहारगृहाणि सन्ति । अत्र स्कुबा डैविङ्ग् (जलस्य अन्तः प्रविश्य तरणम्), स्नोरकेलिङ्ग(नलिकायाः साहाय्येन जले तरणम्)च विशेषाः सन्ति ।