पाण्डीचेरीनगरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पाण्डीचेरी
पुदुचेरी
—  राजधानी  —
भारती पार्क् इत्यत्र विद्यमानम् आयीमण्डपम्
[[file:फलकम्:Location map India Pondicherry|250px|पाण्डीचेरी is located in फलकम्:Location map India Pondicherry]]<div style="position: absolute; z-index: 2; top: एक्स्प्रेशन गलती: अनपेक्षित उद्गार चिन्ह "["%; left: एक्स्प्रेशन गलती: अनपेक्षित उद्गार चिन्ह "["%; height: 0; width: 0; margin: 0; padding: 0;">
[[File:फलकम्:Location map India Pondicherry|6x6px|पाण्डीचेरी|link=|alt=]]
पाण्डीचेरी
Coordinates: 11°55′51″N 79°47′07″E / 11.930965°N 79.785182°E / 11.930965; 79.785182Coordinates: 11°55′51″N 79°47′07″E / 11.930965°N 79.785182°E / 11.930965; 79.785182
देशः  भारतम्
केन्द्रशासितप्रदेशः पाण्डीचेरी
मण्डलम् पाण्डीचेरीमण्डलम्
स्थापना १६७३
औन्नत्यम्
पाण्डीचेरीनगरम्
जनसङ्ख्या (2011)
 • Total ६५४
Languagesतमिळ्, तेलुगु, मलयाळम्
IST (UTC+5:30)
पिन् 605001-605014
Telephone code 91 (0)413
वाहनपञ्जीकरणम् PY-01

पाण्डीचेर्याः इतिहासः[सम्पादयतु]

पुदिचेर्याः इतिहासः दितीयशतकात् लभ्यते । द्वितीयशतकस्य आदिमभागे रचिते पेरिप्लस् आफ् दि एरिथ्रीन् सी (प्राचीनः ग्रीकग्रन्थः)ग्रन्थे पोदुकु नामिका विपणिः उल्लिख्यते (६० अध्यायाः) । इदम् आधुनिकपुदुचेरीतः २ मैल्दूरे विद्यमानम् अरिकमेडु (अधुना अरियङ्कुप्पमस्य भागः) स्यात् इति ऊह्यते हण्टिङ्ग्फोर्डेन । अस्मिन् अरिकमेडुप्रदेशे १९३७ तमे वर्षे रोमन्-कुम्भनिर्माणकार्यं (पाटरि) दृष्टम् । १९४४ तः १९४९ पर्यन्तं जातैः पुरातत्त्वशोधनैः ज्ञातं यत् 'इदं वाणिज्यक्षेत्रम् आसीत् यत्र रोमन्देशस्य वस्तूनां वाणिज्यं प्रथमशतकस्य उत्तरार्धे प्रचलति स्म इति ।

फ्रेञ्चप्रभावः[सम्पादयतु]

अद्यत्वे अपि पुदुचेर्यां फ्रेञ्चप्रभावः दृष्टिगोचरः भवति । पुदुचेर्याः विन्यासः फ्रेञ्चविन्यासवत् विद्यते । नगरं द्विधा विभक्तं - फ्रेञ्च्-भागः (श्वेतनगरम्) भारतभागः (कृष्णनगरम्) च । बहूनां मार्गाणां नामानि फ्रेञ्च्-नामानि एव सन्ति । गृहाणि अपि फ्रेञ्चविन्यासयुक्तानि एव । फ्रेञ्चभागे भवनानि दीर्घप्राङ्गणयुक्तानि शोभायुताभिः भित्तिभिः युक्तानि च । भारतभागे गृहाणि वितर्दिभिः युक्तानि महाद्वारैः युक्तानि भवन्ति । 'इन्टाख्' (INTACH) संस्थया फ्रेञ्च्-शैलीयानि भारतशैलीयानि भवनानि अभिज्ञाय तेषां रक्षणं क्रियते । फ्रेञ्चभाषायाः उपयोगः अद्यत्वे अपि पुदुचेर्यां दृश्यते ।

१९५४ तमे वर्षे पाण्डीचेरीप्रदेशः यदा भारतं प्रति हस्तान्तरितः तदा तत्रत्याः जनाः भारतीयपौराः भवितुं वा फ्रेञ्चपौरत्वं रक्षितुं वा स्वतन्त्राः आसन् । अतः अद्यत्वे अपि अत्र केचन दृश्यन्ते ये फ्रेञ्च्पौराः । फ्रेञ्चसांस्कृतिकसंस्थाः बहवः सन्ति । फ्रेञ्चयुद्धेषु भागम् ऊढवतां सैनिकानां कृते स्मारकमन्दिरं निर्मितम् अस्ति । फ्रेञ्चमाध्यमविद्यालयः अपि अत्र विद्यते ।

प्रेक्षणीयानि स्थानानि[सम्पादयतु]

प्रोमेनेड्-समुद्रतीरम्
आरोविल्ले
अरविन्दाश्रमः
चुन्नम्बार् नौकागृहम्
भारती-उद्यानम्
सङ्ग्रहालयः
रोमन् रोलाण्ड् ग्रन्थालयः
बोटानिकल् गार्डन्
आङ्ग्लो-फ्रेञ्च् वस्त्रनिर्माणागारः
पाण्डीचेरीसङ्ग्रहालयः
पारडैस्-समुद्रतीरम्
श्री तेङ्कलै श्रीनिवास पेरुमाल् देवालयः
मनकुल विनयगर् देवालयः
सितानन्धार् देवालयः
वन्निय पेरुमाल् देवालयः
ओसुडुकासारः
आरोविल्ले-समुद्रतीरम्
फ्रेञ्च्-सांस्कृतिकभवनानि, अरविन्दाश्रममार्गाः
लैट्-हौस्-समुद्रतीरम्
नेहरुमार्गः-सदा विक्रयणम्
सण्डे-विपणिः, मार्गापणाः- भानुवासरमात्रम्

पूजास्थानानि[सम्पादयतु]

तिरुनल्लार् धर्बारन्यीश्वरदेवालयः
मनकुल विनयगार् देवालयः
श्री तेङ्कलै श्रीनिवास पेरुमाल् देवालयः
कामाक्षी अम्मन् देवालयः
नवग्रहदेवालयः (१५ पादोन्नताः नवग्रहाः)
पञ्चवटी
श्री प्रीत्यिङ्गर देवी मन्दिरम्
शनीश्वरदेवालयः, तिरुनल्लार्
वरदराज पेरुमाल् देवालयः
वेदपुरीश्वरदेवालयः
इम्याक्युलाट् कन्सेप्शन् केथेड्रल्
सेक्रेड् हार्ट् चर्च्
जुम्मा मस्जिद्
इरुम्बै माहलेश्वरदेवालयः
सेङ्गझुनीर् अम्मन् देवालयः
अवर् लेडी आफ् लोर्ड्स् चर्च्, विल्लिनूर्
सिङ्गगिरिदेवालयः, अभिषेगपक्कम्

अरविन्दाश्रमः[सम्पादयतु]

अगस्त्यमुनेः आश्रमः यत्रासीत् तत्रैव अरविन्दयोगिनः आश्रमः अपि अस्ति इति शिल्पशास्त्रज्ञाः वदन्ति । सेण्ट् गैलस् मार्गे अरविन्दयोगिनः स्मारकम् अस्ति । महर्षिः अरविन्दः कविः संन्यासी च आसीत् । देशविदेशे च नैके भक्ताः अरविन्दमहर्षेः उपदेशेन प्रभाविताः सन्ति । सा.श.१९८० तमे वर्षे अरविन्दमहर्षिः समाधिस्यः अभवत् । पश्चात् मातापि प्रभावशालिनी आसीत् | सा एव आश्रमस्य व्यवस्थां निरवहत् । साऽपि सा.श.१९७३ तमे वर्षे दिवङ्गता ।

अरोविले[सम्पादयतु]

एतत् नगरं विश्वस्य १२४ देशानां प्रतिनिधीनां सन्दर्शनस्थानम् अस्ति । अत्र म्यूसियबोटानि कल्गार्डन् अरेकमड् प्राचीननौकास्थानम् इत्यादीनि सन्ति । मैत्रीमन्दिरम् इति आध्यात्मिकं केन्द्रम् अस्ति । विश्वस्य ५५० जनाः विनाभेदभावम् अत्र निवासन्ति । जलक्रीडास्थानं, चुन्नम्बार् , आनन्दरङ्गपिल्ले मन्दिरं (सा.श.१७७३) ,मनुकुल विनायगर् देवालयः, क्रैस्तप्रार्थनमन्दिराणि , इत्यादीनि आकर्षणीयानि सन्ति । वस्तुसङ्ग्रहालये टूप्ले प्रतिमा, ग्राण्ड् पियानो, शिलोत्कीर्णानि, प्राचीनवृक्षमूलं डूप्ले शय्या इत्यादयः अत्र सन्ति । वसति गृहणि अनेकानि सन्ति ।

मार्गः[सम्पादयतु]

चेन्नैतः १६२ कि.मी. । तिरुच्चीतः १९८ कि.मी. तञ्जावूरुतः १७० कि.मी. दूरे भवति ।

धूमशकटमार्गः[सम्पादयतु]

पाण्डिचेरी-विल्लुपुरमार्गः ३९ कि.मी. दूरम् ।

चित्रशाला[सम्पादयतु]

चित्रशाला[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=पाण्डीचेरीनगरम्&oldid=233508" इत्यस्माद् पुनः प्राप्तिः