मोरारजी देसाई

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मोरारजी देसायी इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
मोरारजी देसाई
भारतस्य चतुर्थः प्रधानमन्त्री
कार्यालये
२४ मार्च् १९७७ – २८ जुलै १९७९
राष्ट्रपतिः बसप्प दानप्प जत्ति (मध्यकालिनः)
नीलं सञ्जीव रेड्डि
पूर्वगमः इन्दिरा गान्धी
पादानुध्यातः चरण सिंह
गृहमन्त्रालयः
कार्यालये
१ जुलै १९७८ – २८ जुलै १९७९
पूर्वगमः चरण सिंह
पादानुध्यातः यशवन्तराव चव्हाण
उपप्रधानमन्त्री
कार्यालये
१३ मार्च् १९६७ – १६ जुलै १९६९
प्रधानमन्त्री इन्दिरा गान्धी
पूर्वगमः सरदार वल्लभभाई पटेल
पादानुध्यातः चरण सिंह
जगजीवन राम
वित्तमन्त्रालयः
कार्यालये
१३ मार्च् १९६७ – १६ जुलै १९६९
प्रधानमन्त्री इन्दिरा गान्धी
पूर्वगमः सचीन्द्र चौधुरी
पादानुध्यातः इन्दिरा गान्धी
कार्यालये
१३ मार्च् १९५८ – २९ अगष्ट् १९६३
प्रधानमन्त्री जवाहरलाल नेहरू
पूर्वगमः जवाहरलाल नेहरू
पादानुध्यातः टि टि कृष्णमाचारी
व्यक्तिगत विचाराः
जननम् 29 फरवरी 1896(1896-02-29)
भाडेलि, बोम्बे प्रेसिडेन्सि, भारतम्
मरणम् 10 अप्रैल 1995(1995 -  04 - 10) (वयः 99) 
नवदेहली, देहली, भारतम्
राजनैतिकपक्षः जनतादलम् (१९८८–१९९५)
अन्यराजनैतिक-
सम्बन्धः
भारतीयराष्ट्रियकाङ्ग्रेस् (१९६९तः - पूर्वम्)
मुख्यशिक्षणम् विल्सन्-महाविद्यालयः
वृत्तिः जनसेवकः
समाजसेवी
जालस्थानम् मोरारजी देसाई

मोरारजी देसाई (१८९६तः१९९५पर्यन्तम्),गुजरातराज्ये भडेली इत्यत्र जात: । स: १९७७तमवर्षात् १९७९तमवर्षपर्यन्तं भारतस्य प्रधानमन्त्री आसीत् । जातीयता अस्माकं राष्ट्रेण प्राप्तः शापः । [१]

बाल्यं शिक्षणं च[सम्पादयतु]

प्रकृतिचिकित्सायाम् अधिकम् आसक्तिमान्, अप्रतिमः स्वातन्त्र्ययोद्धा 'मोरारजी देसायी’ । एषः १८९६तमवर्षस्य फ़ेब्रुवरीमासे २९ दिनाङ्के गुजरातराज्यस्य भडेली ग्रामे जन्म प्राप्तवान् । चतुर्षु वर्षेषु आगच्छति आङ्ग्ल -लीप् इयर् वर्षे एतस्य जन्मदिनम् भवति । मोरार्जेः पिता रामचोडजी देसायी गुजराती अनाविल् ब्राह्मणः । एतस्य पूर्वजाः पेश्वे आस्थाने देसायीरूपेण कार्यं कृतवन्तः इति एतेषां वंशस्य नाम देसायी इति अभवत् । मोरारजी देसायीवर्यस्य लघु वयसि एव देशभक्तिः बहु आसीत् । यदा सः 'बुल्सारिया भाय् अनाय भाय्’ माध्यमिक शालायां पठन् आसीत्, तदा एव अस्माकं देशः परकीयानां शासने अस्ति इति ज्ञातवान् आसीत् । दशम कक्षां समाप्य भावनगरमहारजस्य साहाय्येन महाविद्यालये पठितुं मुम्बयीनगरं गतवान् । क्रीडाव्यायामयोः कारणतः एषः सदृढः अभवत् । टेन्निस् एतस्य प्रीतेः क्रीडा आसीत् । १९१५ तमे वर्षे कोलकतायां यत्र काङ्ग्रेस् अधिवेशनम् अभवत् तत्र एषः स्वयंसेवकः भूत्वा कार्यं कृतवान् । तत्र महात्मा गान्धिं दृष्ट्वा प्रभावितः अभवत् । 'स्वराज्यं मम जन्मसिद्धः अधिकारः’ इति उक्तवान् बालगङ्गाधरतिलकः अपि मोरार्जीवर्यस्य देशभक्तिवर्धने कारणीभूतः अभवत् ।

वृत्तिजीवनम्[सम्पादयतु]

मोरारजी बि. ए. परीक्षायां प्रथमश्रेण्याम् उत्तीर्णः अभवत् । मुम्बयीप्रान्तस्य सिविल् सर्वीस् करविभागं प्रति आवेदनापत्रं दत्त्वा १९१८ तमे वर्षे अहमदाबादस्य तात्कालिक डेप्युटी कलेक्टर् इति नियुक्तः अभवत् । यदा १९१९ तः १९३० पर्यन्तम् अस्मिन् कार्ये आसीत् तदा एकसहस्र क्रिमिनल्-व्यवहाराणां विचारणं कृत्वा निर्णयं दत्तवान् ।

सर्वकारीय-उद्योगे स्थित्वा अपि मोरारजीवर्यस्य देशभक्तिः सदा जागरिता एव आसीत् । गान्धिमहोदयस्य विचाराः एतस्मै बहु रोचन्ते स्म । १९३१ तमे वर्षे उद्योगस्य कृते त्यागपत्रं दत्तवान् । हिन्दु - मुस्लिम् जनानां कोलाहलः, गान्धिमहाभागस्य लवणसत्याग्रहः, च सर्वकारस्य विरुद्धं लेखनं लेखितुं मोरार्जीमहोदयस्य मनसि प्रेरणां दत्तवन्तौ । एतदेव तस्य त्यागपत्रदाने कारणीभूतम् अभवत् ।

स्वातन्त्र्यसङ्ग्रामे भागः[सम्पादयतु]

यदा सर्वकारस्य उद्योगस्य त्यागं कृतवान्, तदा तस्य पूर्णसमयं देशसेवानिमित्तमेव अभवत् । स्वातन्त्र्यसङ्ग्रामे भागं गृहीत्वा देशाय स्वातन्त्रसम्पादनमेव मोरारजीवर्यस्य लक्ष्यमासीत् । षड्वारम् एतस्य बन्धनम् अभवत् । सामान्यतया सप्तवर्षं कारागृहे आसीत् । एतस्य पत्नी गजराबेन् अपि एकवारं कारागृहवासम् अनुभूतवती । १९३५तमवर्षस्य इन्डिया एक्ट् अनुगुणं काङ्ग्रेस् पक्षः निर्वाचने षट्सु प्रान्तेषु जयं प्राप्य सर्वकारम् अरचयत् । १९३७ तमे वर्षे बाळासाहेबखेरः काङ्ग्रेस्पक्षस्य मन्त्री अभवत् । मोरार्जिमहोदयः रवेरसम्पुटे करविभागस्य मन्त्रिरूपेण राजकीयं प्रविष्टवान् । १९४२ तमे वर्षे क्विट् इन्डिया आन्दोलने भागं गृहितवान् इत्यतः एतं बन्धयित्वा येरवडाकारागृहे स्थापितम् ।

मुख्यमन्त्रिरूपेण मोरारजी[सम्पादयतु]

१९३९ तमवर्षतः १९४५ तमवर्षपर्यन्तं प्रचलिते द्वितियमहायुद्धस्य समाप्तेः अनन्तरं मोरार्जीदेसायी महोदयः मुम्बय्याः मुख्यमन्त्री अभवत् । तस्य शासने सः प्रान्तः उत्तमप्रगतिं प्राप्नोत् । १९३७ तमे वर्षे एषः सुरानिरोधं कर्तुम् उत्साहं दर्शितवान् । तदा सर्वकारः अहमदाबाद्-मुम्बयीनगरयोः सुरानिरोधशासनम् आनेतुं निर्णयं कृतवान् । यदा एषः मुम्बयी- मुख्यमन्त्री आसीत् तदा मुम्बयीनगरे सर्वत्र सुरानिरोधशासनम् आनीतवान्। मोरार्जीमहोदयः द्वादशवर्षाणि यावत् गुजरातराज्यस्य मुख्यमन्त्री आसीत् । १९५६ तमे वर्षे महागुजरात् निर्माणनिमित्तं यत् आन्दोलनं प्रवृत्तं तस्य अवरोधं कर्तुम् उपवासं कृतवान् । तदा अपि गान्धिमार्गम् अनुसृतवान् । १९६७ तमे वर्षे श्रीमती इन्दिरा गान्धिः एतम् उपप्रधानमन्त्रीस्थाने नियुक्तवती । १९७५ तमे वर्षे यदा आपत्कालः घोषितः तदा (जून् २६) भद्रताशासनानुसारं देसायीमहोदयं बद्धवन्तः । लोकनायकः जयप्रकाशनारायाणम् अपि बद्धवन्तः । १९ मासान् यावत् देसायीमहोदयः कारागृहवासम् अनुभूतवान् । कारागृहे सरलजीवनम् आचरितवान् एषः मितभोजनं कृत्वा रामचरितमानसं, तुलसीरामायणं, भगवद्गीताम् अन्यधर्मग्रन्थान् च पठति स्म । १९७७ तमे वर्षे जनवरी मासस्य १९ दिनाङ्के एतस्य, तथा अन्येषां च कारागृहतः विमोचनम् अभवत् ।

प्रधानमन्त्रिरूपेण मोरारजी[सम्पादयतु]

तस्मिन्नेव वर्षे मार्चमासे लोकसभायाः निर्वचनमासीत् । कारागृहतः विमोचनं येषाम् अभवत् ते (विरोधपक्षीयजनाः) निर्वाचने काङ्ग्रेस्पक्षेण सह प्रतिस्पर्धयितुं १९७७ तमे वर्षे फ़ेब्रवरी १० दिनाङ्के 'जनतापक्ष' इति एकं नूतनं पक्षं रचितवन्तः । निर्वचने जनतापक्षः अत्यधिकबहुमतं प्राप्य काङ्ग्रेसेतर सर्वकारः आगतः । तदा मोरार्जीमहाभागः प्रधानमन्त्री अभवत् । एषः भारतस्य चतुर्थः प्रधानमन्त्री ।[२][३] तदा एतस्य वयः द्व्यशीतिवर्षाणि । तथापि एतस्य शरीरशक्तिः ज्ञापकशक्तिः च सम्यगेव आसीत् । यस्मिन् समये एषः प्रधानमन्त्री आसीत् तस्मिन् समये इन्दिरागान्ध्ईमहोदयया परिष्कृतं स्वातन्त्र्यापहरणशासननियमं स्थगयित्वा जनस्वातन्त्र्यं पत्रिकास्वातन्त्र्यं पुनः प्रचलने आनीतवान् । एतस्मिन् काले मुक्तविपणीषु आवश्यकवस्तुनां सरलतया प्राप्त्यर्थं व्यवस्थां कृतवान् । गान्धिवादम् अक्षरशः पालयन् एषः यदि कश्चित् सचिवः भ्रष्टाचारे भवति तर्हि तं निःसङ्कोचेन विचारयितुम् आदिशति स्म । अतः एतस्य विषये बहुनायकानाम् असमाधाननम् आसीत् । अतः परिस्थितिः विपरीता जाता १९७९ तमे वर्षे जुलै १५ दिनाङ्के एषः प्रधानमन्रीे स्थानं त्यक्त्वा राजकीयनिवृत्तीं स्वीकृतवान् ।

व्यक्तित्वम्[सम्पादयतु]

मोरार्जीमहभागः महात्मागान्धेः निकटः आसीत् । अतः एतस्य व्यक्तित्वम् असाधारणं जातमासीत् । 'भयम् एव हिंसायाः मूलम्’ इति विश्वसितवान् आसीत् । भगवद्गीतायाः अन्तरार्थं सम्यक् ज्ञातवान् एषः कदापि कोपं न करोति स्म । शान्तचित्तं जितेन्द्रियस्य लक्षणम् इति ज्ञातवानासीत् । एषः शास्त्रीयसङ्गीतप्रियः आसीत् ।

मोरार्जीमहोदयः कदापि श्लाघनं न इच्छति स्म । १९९१ तमे वर्षस्य भारतसर्वकारस्य भारतरत्नप्रशस्तिः एतस्मै दत्ता । प्रशस्तिः तस्य इष्टा नासीत् । एतया प्रशस्त्या सः खेदं वा आनन्दं वा न प्रदर्शितवान् । १९९४ तमे वर्षे जनवरी मासे षिक्यागो देशस्य न्याषनल् फ़ेडरेशन् आफ़् इन्डियन् असोसिएषन् संस्था एतस्मै गान्धिप्रशस्तीं दत्त्वा गौरवं प्रदर्शितवती । पाकिस्थानसर्वकारः अपि स्वस्य अत्युन्नतां 'निशान् - ए - पाकिस्थान' प्रशस्तिम् एतस्मै अददात् । एषा प्रशस्तिः मोरार्जीमहोदयस्य अधिकारावधौ पाकिस्थानेन सह उत्तमसम्बन्धस्य रक्षणार्थं दत्ता ।

लेखकः मोरारजी[सम्पादयतु]

देसायीवर्यः उत्तमः लेखकः आसीत् । प्रकृतिचिकित्सायाः विषये एषः 'नेचर् क्यूर्’ इति एकं पुस्तकं लिखितवान् । स्वस्य जीवनमेव अधिकृत्य 'दि स्टोरी आफ़् मै लाइफ़्’ इति त्रयाणां सम्पुटानां ग्रन्थः बहु जनप्रियः अभवत् ।[४] केवलं शाखाहारी एषः उपवासेन बहु रोगाः निवारयितुं शक्याः इति विश्वसितवान् आसीत् । भगवद्गीतामहाभारतयोः विषये त्रीणि पुस्तकानि रचितवान् । निसर्गचिकित्सायां विश्वासवान् स्वमूत्रपानचिकित्सया नवनवतिवर्षपूर्णं जीवनं समाप्य १९९५ तमे वर्षे दिवङ्गतः ।

टिप्पणी[सम्पादयतु]

  1. "Morarji Desai". Retrieved 23 जुलाई 2014. 
  2. Krishna, Ananth V. ((2011)). India Since Independence: Making Sense Of Indian Politics. Pearson Education India. ISBN 9788131734650.. 
  3. "Prime Ministers of India". Retrieved 23 जुलाई 2014. 
  4. "The Story of my Life". Retrieved 23 जुलाई 2014. 
भारतस्य प्रधानमन्त्रिणः
Orange animated left arrow.gif पूर्वतनः
इन्दिरा गान्धी
मोरारजी देसाई अग्रिमः
चौधरी चरणसिंह
Orange animated right arrow.gif
"https://sa.wikipedia.org/w/index.php?title=मोरारजी_देसाई&oldid=387201" इत्यस्माद् पुनः प्राप्तिः