अटल बिहारी वाजपेयी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
अटलबिहारीवाजपेयी
एकादशतमः प्रधानमन्त्री
कार्यालये
19 मार्च्मासः 1998 – 19 मेमासः 2004
राष्ट्रपतिः के आर् नारयणान्
Deputy लालकृष्ण अडवाणी
पूर्वगमः ऐ के गुज्राल्
पादानुध्यातः मनमोहनसिंहः
कार्यालये
16 May 1996 – 1 June 1996
राष्ट्रपतिः शङ्कर दयाल शर्मा
पूर्वगमः पी वी नरसिंहरावः
पादानुध्यातः देवेगौडः
Minister of External Affairs
कार्यालये
19 March 1998 – 5 December 1998
पूर्वगमः ऐ के गुज्राल्
पादानुध्यातः जस्वन्तसिंहः
कार्यालये
16 May 1996 – 21 May 1996
पूर्वगमः प्रणवमुखर्जी
पादानुध्यातः Sikander Bakht
कार्यालये
26 March 1977 – 28 July 1979
प्रधानमन्त्री मोरारजी देसायी
पूर्वगमः Yashwantrao Chavan
पादानुध्यातः Shyam Nandan Prasad Mishra
व्यक्तिगत विचाराः
जननम् (१९२४-२-२) २५ १९२४ (आयुः ९२)
Gwalior, British India
राजनैतिकपक्षः भाररतीयजनता-पक्षः (1980–present)
अन्यराजनैतिक-
सम्बन्धः
भारतीयजनसङ्घः (Before 1980)
मुख्यशिक्षणम् विक्टोरिया कलाशाला
वृत्तिः कविः, राजनेता
धर्मः हिन्दूधर्मः
जालस्थानम् अटल बिहारी वाजपेयी

२५ डिसेम्बर १९२४ मध्ये जातः अटलबिहारी वाजपेयी महोदयः भारतीयः राजनीतिज्ञः । सः भारतस्य दशमः प्रधानमन्त्री । कवि-राजनेता अटलबिहारी वाजपेयी (Atal Bihari Vajpayee) (२५ दिसम्बर,१९२४) शराश्विनग्रहभास्करमिते ग्वालियरनगरे श्रीमती कृष्णादेवी-कृष्णबिहारी वाजपेयी महाभागयोः पुत्रत्वेन जन्म अलभत । जनता पार्टी सञ्चालिते राज्यशासने सः परराष्ट्र मन्त्री आसीत् । भारतस्य संसदि लोकसभायां सः उत्तमः संसत्पटुः इति सम्मानितः। १९९६ तमे वर्षे १३ दिनानि, १९९८ तमे वर्षे १३ मासान् यावत्, पुनः १९९८ तः - २००४ तमवर्षपर्यन्तं पञ्च वर्षाणि यावच्च सः भरतवर्षस्य प्रधानमन्त्रिपदम् अलङ्कृतवान् [१]। श्रीवाजपेयीमहोदयः ९ वारं लोकसभायां निर्वाचितः दिवारं च राज्यसभायाम् । अयं स्वयमेव एकः विक्रमः । २००९ पर्यन्तं सः लोकसभासदस्यरूपेण कार्यरतः आसीत् । तदनन्तरं कदाचित् अस्वास्थ्यकारणात् सक्रियराजकारणात् निवृत्तः ।

बाल्यं शिक्षणञ्च[सम्पादयतु]

अटलबिहारिवाजपेयिमहोदयः १९२४ तमे वर्षे डिसम्बर्मासस्य २५ तमे दिनाङ्के जन्म अलभत । पितुः नाम कृष्णबिहारिवाजपेयी, माता कृष्णादेवी च । पिता विद्यालयशिक्षकः कविश्च आसीत् । अटलबिहारी वाजपेयिमहोदयस्य पितामहः पण्डितश्यामलालवाजपेयी । अटल्महोदयः पदवीशिक्षणं विक्टोरियाकलाशालायां प्राप्तवान् । हिन्दी-आङ्ग्ल-संस्कृतभाषासु अपि पाण्डित्यं प्राप्तवान् । स्नातकोत्तरपदवीं कान्पुरस्य डि ए वि कलाशालातः प्राप्तवान् । तदुत्तरं राष्ट्रियस्वयंसेवकसङ्घं प्रचारकरूपेण प्रविष्टवान् । वीर-अर्जुन पाञ्चजन्य इति पत्रिकाद्वये पत्रकर्तृरूपेण अपि कविरूपेण च कार्यम् अकरोत् । सङ्घस्य अन्ये प्रचारकाः इव ब्रह्मचारिरूपेण तिष्ठन् स्वस्य सम्पूर्णं जीवनं राष्ट्राय समार्पयत् ।

कान्पुरस्य लक्ष्मीबाईमहाविद्यालयतः स्नातकोत्तरपदवीं प्राप्तवान् । भारतराजनीतिक्षेत्रे बहुकालं यावत् सक्रियः आसीत् । स्नातकोत्तरपदव्याः प्राप्तेः अनन्तरम् १९४२ तमे वर्षे "निर्गच्छ्त भारतात्“(Quit India movement )आन्दोलनसमये भारतीयजनसङ्घस्य संस्थापकः श्यामप्रसादमुखर्जिवर्यस्य निकटवर्ती सन् भारतस्य राजनीतिक्षेत्रे सक्रियः अभवत् ।

राजनैतिकजीवनम्[सम्पादयतु]

श्री वाजपेयी महोदयस्य राजनीतेः प्रथमः संपर्कः १९४२ मध्ये जातः । "निर्गच्छ्त भारतात्“ इति आन्दोलनसमये सः गृहीतः (बन्दीकृतः) शीघ्रमेव सः भारतीयजनसंघस्य तदानींतननेतुः श्यामाप्रसाढ् मुखर्जी महोदयस्य निकटवर्ती अनुगामी एवं साहाय्यकः अभवत् । काश्मीरमध्ये काश्मीरेतर भारतीयाभ्यागतान् प्रति हीनः व्यवहारः कृतः इति मत्वा निषेध दर्शनार्थं यदा श्री मुखर्जीमहोदयः १९५३ मध्ये आमरणम् उपोषणं अकरोत् तदा श्री वाजपेयी महोदयः तस्य पार्श्वे (तेन सहैव) विद्यमानः आसीत् । मुखर्जी महोदयस्य उपोषणेन निषेधेन च शतियुद्ध जगति राष्ट्रिय सुरक्षायाः यः केंद्रबिंदुः आसीत् सः समाप्तः विशेषेण च तदा यदा प्रतिवेशी देशः चीनः परमाणुशक्तिधारकः आसीत् । (१९७४ मध्ये यदा भारतः पोखरण इत्यत्र भूतलान्तर्गतं परमाणु परीक्षणं कृतवान् तदैव भारतः षष्ठः परमाणुशक्तिधारकः देशः अभवत् । यद्यपि राष्ट्रिय स्वयंसेवक संधस्योपरि सर्वकारः राजनैतिकप्रहारं क्रुतवनिति १९७९ मध्ये सः (वाजपेयी महोदयः) त्यागपत्रं दत्तवान् तावत्पर्यन्तं एकः अनुभवी नयविशारदः आदरणीयः राजनैतिकः नेता इति सः लब्धप्रतिष्ठः आसीत् । तस्य कार्यकाले १९७७ मध्ये संयुक्तराष्ट्रसंधसय सर्वसाधारण्सभायां हिन्दी भाषायां भाषमाणः सः प्रथमः वक्ता अभवत् । तस्यैव मते सः क्षणः तस्य जीवनस्य अतीव अविस्मरणीयः क्षणः आसीत् ।

भारतीय जनता पक्षस्य अभ्युदयः[सम्पादयतु]

जनतापक्ष सर्वकारः अधिककालपर्यन्तं शासनरतः भवितुं न अशक्नोत् । श्री मोरारजीदेसाई महोदयः प्रधानमंत्री पदत्यागमकरोत् । तदनन्तरं जनता पक्षः शीघ्रमेव लयं प्राप्त्ः । संयुक्तसर्वकारस्य निर्वहणार्थं भारतीय जनसंधेन राजनैतिकसंस्थायाः उपयोगः कृतः अपि च जनतापक्षस्य अन्तर्गतैः परश्चरविनाशिभिः कलहैः सः पक्षः अतीव उच्छेषित (श्रान्तः) अभूत ।

१९८० मध्ये श्री अटलबिहारी वाजपेयीमहोदयः भारतीय जनसंधस्य एवं राष्ट्रिय स्वयं सेवक संधस्य बहुभिः सहचरैः विशेषतया तस्य् दीर्घकालीनाभ्यां निकटवर्तिभ्यां लाल कृष्ण आडवाणी एवं श्री भैरोसिंह शेखावत महोदयाभ्यां सह भारतीय जनता पक्षं स्थापितवान् । श्री वाजपेयी तस्य पक्षस्य प्रथमः अध्यक्षः अभवत् । जनतापक्षस्य सर्वकारस्य अनन्तरं आगतस्य अनुगामिनः कांग्रेस पक्षस्य (कांग्रेस) सर्वकारस्य भारतीय जनता पक्षः तीव्रः निन्दकः आसीत् । सः पक्षः पंजाबराज्ये सिखानां युद्धप्रवृत्तेः विरोधमकरोत् । तथैव राष्ट्रहितं विहाय मुद्धप्रवृत्तिं पोषयते विभजनकारिणे भ्रष्ट्रे राजकारणे श्रीमती इंदिरा गांधी महोदया एव दोषार्हा इति अधोषयत् । नेतुः दारासिंहस्य मते श्री वाजपेयीमहोदयस्तु हिन्दुसिखानाम् मध्ये ऎक्यमानयत् ।

यदा १९८४ मध्ये प्रधानमंत्री इंदिरा गांधी महोदयायाः हननं तस्याः द्वाभ्यां सुरक्षाकर्मिभ्यां कृता तदा देहलीमध्ये सिखानां प्रति हिंसा आरब्धा । यद्यपि ब्लू स्टार् आपरेशनस्य सः कदापि समर्थकः नासीत् तथापि भारतीय जनतापक्षः हिंसायाः तीव्रः निषेधः अकरोत् । राजधान्यां अस्मिन् बीमत्से (जधन्ये) नरसंहारे ३००० अधिकाः सिखाः हताः । स्वनेतुः मृत्योः प्रतिशोधम् इच्छन्तः ये ईडियन् नैशनल् कांग्रेस अनुगामिनः आसन् तेभ्यः सिखानां संरक्षणं प्रतिपादितवान् इति श्री वाजपेयी महोदयः श्लाधितः । सः सिखानां संरक्षकः इति श्रुतः च । १९८४ निर्वाचने भारतीय जनता पक्षः लोकसभायां केवलं द्वौ सदस्यशेषः आसीत् (केवलं द्वौ सदस्यौ एव अवशिष्टौ ) तथापि भारतीय राजकारणस्य मुख्यप्रवाहे पक्षः सुप्रतिष्ठितः आसीत् एवं च शीघ्रमेव राष्ट्रे सर्वत्र भारतीययुवकान् आकर्षयितुं पक्षस्य संगठनस्य विस्तारं कर्तुं आरभत् । अस्मिन् कालावधौ वाजपेयी महोदयः पक्षस्य अध्यक्षरुपेण केंद्रस्थाने आसीत् संसदि विपक्षस्य नेता च आसीत् ।

राम जन्मभूमि मन्दिर आन्दोलनस्य भारतीय जनता पक्षः राजनैतिक स्वरः आसीत् । इदम् आन्दोलनं विश्वहिन्दुपरिषद तथा राष्ट्रिय स्वयंसेवकसंघस्य व्यवसायिनां अपक्रममासीत् । अयोध्यायां बाबरी मस्जिदस्थले श्रीराम् मन्दिरं निर्मातुं तेषां मनीषा आसीत् । हिन्दु व्यवसाथिनः इदं स्थलं भगवतः श्रीरामस्य जन्मभूमिः आसीत् इति अमन्यन्त अतः हिन्दुत्वस्य अतिपवित्रं स्थानं भवितुमर्हति इति तेषां मान्यता अभवत् ।

६ डिसेम्बर् १९९२ दिवसे विश्वहिंदुपरिषदः भारतीय जनता पक्षस्य व्यवसाथिन संघटित निषेधः भित्त्वा उन्मादमये आक्रमणे परिवर्तितः एवं च मास्जिदवास्तु निर्मलं नाशितम् । आगाभिषु सप्ताहेषु देशे विविध क्षेत्रेषु हिन्दु मुस्लिमानां मध्ये हिंसा तरङ्गाः उद्भूताः सहस्राधिकाः जनाः हताः । विश्वहिन्दु परिषद् बहिष्कृता । विध्वंसस्य प्रोत्साहनं (उत्तेजनं) कृतं इति श्री लालकृष्ण अडवाणि सहिताः भारतीय जनता पक्षस्य बहवः नेतारः कञ्धित्कालं गृहीताः । यद्यपि संवेदनशीलविजयानां राजनीतिकरणं बहुभिः भर्त्सितम् तथापि लक्षाधिकानां पारंपरिकानां हिदूनां समर्थनं पक्षेन प्राप्तम् तथैव राष्ट्रिय महत्त्वमपि ।

गुजरात तथा महाराष्ट्र राज्ययोः मार्च १९९५ विधानसभा निर्वाचनयोः विजयः , १९९४ मध्ये कर्नाटके निर्वचने उत्तमं प्रदर्शनं भा. ज. पक्षं केंद्रस्थाने प्रत्यस्थापयत् । नो म्बर, १९९५ मध्ये मुम्बय्यां भा. ज. पक्षस्य सत्रे भा.ज.प. अध्यक्षः श्री अडवाणी महोदयः अधोषयत् यत् यदि भा.ज.प. १९९६ मध्ये संसदीयनिर्वाचने विजयी अभविष्यत् तर्हि श्री वाजपेयी महोदयः प्रधानमंत्री अभविष्यत् इति ।

भारतीयजनसङ्घस्य संस्थापकेषु अन्यतमः वाजपेयिमहोदयः १९६८ तः १९७३ पर्यन्तं जनसङ्घस्य नायकः आसीत् । तदुत्तरं १९५७ तमे वर्षे लोकसाभां प्रत्यपि चितः अभवत् । मोरारजी देसायिसर्वकारे १९७७ तमस्य वर्षस्य मार्च्मासतः १९७९ तमस्य वर्षस्य जुलैमासपर्यन्तं विदेशिमन्त्रिरूपेण कार्यं निरवहत् । १९८० तमे वर्षे जनतापक्षं नूतनतया निर्मिते भारतीयजनतापक्षे लीनम् अकरोत् । भारतीयजनतापक्षस्य नेतृरूपेण १९८० तः १९८४ वर्षपर्यन्तं, १९८६ तः १९९३ वर्षपर्यन्तं, १९९६ तमे वर्षे च कार्यम् अकरोत् । १० लोकसभायाः विरोधपक्षस्य नायकत्वं निरूढवान् ।

नेहरु महोदयस्य प्रशंसोद्वारः[सम्पादयतु]

१९५७ मध्ये यदा श्री अटलबिहारी महोदयः प्रथमतः लोकसभायां निर्वाचितः तदा लोकसभायां तस्य प्रथम कार्यकाले तस्य वक्तृत्वकौशलेन जवाहरलाल नेहरूमहोदयः तावान् प्रभावितः यत् सः भविष्यवाणीमवदत् यत् ‘अयं युवकः एकस्मिन् दिने प्रधानमंत्री भवेत् ’ इति । पुनः एकदा प्रधानमंत्री श्री जवाहरलाल नेहरुमहोदयः अभ्यागताङ्ग्लप्रधानमंत्रिणा सह श्री वाजपेयीमहोदयस्य परिचयं कारयन् अवदत् - 'अयं विपक्षस्य नेता सदैव मां निन्दति । परं अहं तास्मिन् उज्ज्वलं भविष्यं पश्यामि ।’ इति ।

प्रथमकार्यावधिः[सम्पादयतु]

हिन्दुत्वभावतरङ्गैः १९९० तमे वर्षस्य आदिमभागे भारतीयजनतापक्षेण महती शक्तिः प्राप्ता । १९९६ तमे वर्षे जाते लोकसभानिर्वाचने भारतीयजनतापक्षः बृहत्तमपक्षत्वेन चितं जातम् । तदानीन्तनः राष्ट्रपतिः शङ्करदयालशर्मा सर्वकाररचनाय वाजपेयिमहोदयाय आह्वानम् अयच्छत् । वाजपेयिवर्यः देशस्य ११ तमप्रधानमन्त्रित्वेन प्रतिज्ञां स्व्यकरोत् । किन्तु अन्येषां पक्षाणां समर्थनं न प्राप्तम् इत्यतः बहुत्वस्य प्रदर्शने भारतीयजनतापक्षः विफलः जातः । अतः १३ दिनानाम् अनन्तरं तेन प्रधानमन्त्रिस्थानाय त्यागपत्रं दत्तम् ।


द्वितीयकार्यावधिः[सम्पादयतु]

१९९८ तमे जाते लोकसभानिर्वाचने अपि भारतीयजनतापक्षः बहुत्वं प्राप्नोत् । अस्मिन् अवसरे बहवः रजकीयपक्षाः मिलित्वा 'राष्ट्रियजनतान्त्रिकमैत्रिकूटम्' आरचयन् । १९९८ तमे वर्षे अक्टोबर्मासस्य १३ दिनाङ्के द्वितीयवारं प्रधानमन्त्रिस्थानम् अलङ्कृतवान् अयम् [२]। १३ मासानाम् अनन्तरं जयललितायाः नायकत्वे ए ऐ ए डि एम् के पक्षः समर्थनं प्रतिस्व्यकरोत् इत्यतः सर्वकारः एकस्मात् अङ्कात् बहुत्वच्युतः जातः [३]

कवित्त्वम्[सम्पादयतु]

वाजपेयिमहोदयः न केवलं नेता अपि तु कविः । हिन्दीभाषाया तेन अनेकाः कविताः रचिताः । एतस्य २१ कवितानां सङ्कलनम् आङ्ग्लभाषायामपि Twenty-One Poems इति नाम्ना अनूदितम् । २००५ तमे वर्षे राजनैतिकक्षेत्रात् निवृत्तः जातः । अनेन नैके ग्रन्थाः आरचिताः । १९९२ तमे वर्षे पद्मविभूषणप्रशस्तिः, १९९४ तमे वर्षे लोकमान्यतिलकप्रशस्तिः इत्याद्याः तेन प्राप्ताः ।

अन्यानि श्रेष्ठकार्याणि[सम्पादयतु]

परमाणुस्फोटकपरीक्षणम्[सम्पादयतु]

मे १७७८ मध्ये भारतः राजस्थानास्थिते पोखरणक्षेत्रे भूतलान्तरीतं (भूगर्भन्तर्गतं) पञ्च परमाणु परीक्षणानि स्वस्य अधिकारावधौ सः कृतवान् । एतैः पञ्च परीक्षणैः सर्वं जगत् स्तब्धं आश्वर्यचकितं चाभवन् । तदानीं सर्वकारः एक मासं यावदेव प्रशासनरतः आसीत्, अयं विशेषः ।

रशीया फ्रान्स देशौ स्वसंरक्षणर्थं परमाणुशक्तेः धारणस्य भारतस्य अधिकारस्य अनुमोदनं कृतवन्तौ । परम् अमेरिका, कनडा, जपान, ब्रिटेन एवञ्च यूरोपीयदेशैः भारताय युद्धसामग्र्याः विक्रयणस्योपरि, प्रतिबन्धाः निक्षिप्ताः ।

भारतपाकिस्थानयोः सम्बन्धसेतुरूपेण तेन लाहोर्-लोकयानसेवा आरब्धा । १५ सहस्रकिलोमीटर्मितः 'सुवर्णचतुष्पथ'नामकस्य राष्ट्रियमुख्यमार्गस्य निर्माणम् अल्पे समये एव यत् समापितं तत् असामान्यं वर्तते [४]। प्रधानमन्त्रिग्रामसडक्योजनायाः अनुष्ठानद्वारा प्रतिग्रामं मार्गकल्पनाय व्यवस्था कृता । 'सर्वशिक्षाभियान'द्वारा सर्वः अपि अक्षरज्ञः स्यात् इत्येषः तस्य प्रयत्नः तस्य दूरदृष्टियुतं चिन्तनं द्योतयति ।

भारतस्य राजनैतिकनायकेषु अतिश्रेष्ठः, गौरवान्वितः नायकमणिः इति राजनैतिकविरोधिभिः अपि अभिज्ञातः अस्ति अटलबिहारी वाजपेयी । १९७७ तमे वर्षे जनतासङ्घस्य सर्वकारे विदेशाङ्गसचिवरूपेण चितः सः अमेरिकासंसत्सदने हिन्दीभाषया भाषणम् अकरोत् इत्येषः विशेषः ।

पुरस्काराः[सम्पादयतु]

  • 1992,पद्मविभूषणप्रशस्तिः
  • 1993, कानपुरविश्वविद्यालयात् डि लिट्
  • 1994, लोकमान्यतिलकप्रशस्तिः
  • 1994, Best Parliamentarian Award
  • 1994, Bharat Ratna Pandit Govind Vallabh Pant Award
  • 2014, भरतरत्नकृते नामितम्

कृतयः[सम्पादयतु]

सामाजिक्यः राजनैतिक्यः[सम्पादयतु]

  • Nayi chunauti, naya avasara (Hindi Edition). (2002). ISBN 978-81-7016-501-9.
  • India's Perspectives on ASEAN and the Asia-Pacific Region. (2003). ISBN 978-981-230-172-7.
  • NEW DIMENSIONS OF INDIA'S FOREIGN POLICY. (1979).
  • Decisive days. (1999).
  • When will atrocities on Harijans stop?: A.B. Vajpayee's speech in Rajya Sabha. (1988).
  • Heal the wounds: Vajpayee's appeal on Assam tragedy to the parliament. (1983).
  • National integration. (1961).
  • Sakti se santi. (1999).
  • Rajaniti ki rapatili rahem. (1997).
  • Vicara-bindu (Hindi Edition). (2000). ISBN 978-81-7016-475-3.
  • Bindu-bindu vicara. (1997).
  • Kucha lekha, kucha bhashana. (1996).
  • Back to square one. (1998).
  • Dynamics of an open society. (1977).
  • Na dainyam na palayanam (Hindi Edition). (1998).
  • Bindu-bindu vicara (Hindi Edition). (1997).
  • Kucha lekha, kucha bhashana (Hindi Edition). (1996).
  • Sekyularavada: Bharatiya parikalpana (Da. Rajendra Prasada Smaraka vyakhyanamala). (1996).

आत्मचरितम्[सम्पादयतु]

  • Atal Bihari Vajpayee, meri samsadiya yatra (Hindi Edition). (1999). ISBN 978-81-7315-281-8.
  • Four decades in parliament. (1996).
  • Atala Bihari Vajpayee, samsada mem tina dasaka. (1992).
  • Pradhanamantri Atala Bihari Vajapeyi, chune hue bhashana. (2000).
  • Values, vision & verses of Vajpayee: India's man of destiny. (2001).
  • India's foreign policy: New dimensions. (1977).
  • Assam problem: Repression no solution. (1981).
  • Suvasita pushpa: Atala Bihari Vajapeyi ke sreshtatama bhashana. (1997).
  • A"

पद्यासाहित्यम्[सम्पादयतु]

  • Twenty-One Poems. (2003). ISBN 978-0-670-04917-2.
  • Kya khoya kya paya: Atala Vihari Vajapeyi, vyaktitva aura kavitaem (Hindi Edition). (1999). ISBN 978-81-7028-335-5.
  • Meri ikyavana kavitaem. (1995).
  • Meri ikyavana kavitaem (Hindi Edition). (1995).
  • Sreshtha kabita. (1997).
  • Nayi Disha - an album with Jagjit Singh (1999)
  • Samvedna - an album with Jagjit Singh (2002)

भाषणानि[सम्पादयतु]

  • Prime Minister Atal Bihari Vajpayee, selected speeches. (2000). ISBN 978-81-230-0834-9.
  • President's addresses, 1980-1986. (2000).
  • Presidential address. (1986).
  • Presidential address: Bharatiya Pratinidhi Sabha session, Bhagalpur (Bihar), 5 6 & 7 May 1972. (1972).
  • Atal Bihari Vajpayee and Pokhran Test.

आधाराः[सम्पादयतु]

अग्रिमाध्ययनाय[सम्पादयतु]

  • L.K. Advani. My Country My Life. (2008). ISBN 978-81-291-1363-4.
  • M.P. Kamal. Bateshwar to Prime Minister House - An Interesting Description of Different Aspects of Atalji's . (2003). ISBN 978-81-7604-600-8.
  • G.N.S. Raghavan. New Era in the Indian Polity, A Study of Atal Bihari Vajpayee and the BJP. (1996). ISBN 978-81-212-0539-9.
  • P. R Trivedi. Atal Bihari Vajpayee: The man India needs : the most appropriate leader for the twentyfirst century. (2000). ISBN 978-81-7696-001-4.
  • Sujata K. Dass. Atal Bihari Vajpayee. (2004). ISBN 978-81-7835-277-0.
  • Chandrika Prasad Sharma. Poet politician Atal Bihari Vajpayee: A biography. (1998). ASIN: B0006FD11E.
  • Sheila Vazirani. Atal Bihari Vajpayee; profile & personal views (Know thy leaders). (1967). ASIN: B0006FFBV2.
  • Dr. C.P. Thakur. India Under Atal Behari Vajpayee: The BJP Era.(1999). ISBN 978-81-7476-250-4
  • Sita Ram Sharma. Prime Minister Atal Behari Vajpayee: Commitment to power. (1998). ISBN 978-81-85809-24-3.
  • Bhagwat S. Goyal Values, Vision & Verses of Vajpayee: India's Man of Destiny 2001 Srijan Prakashan R-6/233 Rajnagar Ghaziabad 201002 ISBN 81-87996-00-5.
  • Darshan Singh. Atal Behari Vajpayee: The arch of India. (2001). ISBN 978-81-86405-25-3.
  • Yogesh Atal. Mandate for political transition: Reemergence of Vaypayee. (2000). ASIN: B0006FEIHA.
  • Sujata K. Das. Atal Bihari Vajpayee. (2004). ISBN 978-81-7835-277-0.

टिप्पणी[सम्पादयतु]

  1. ""Prime Ministers of India"". Retrieved 20 अगस्त 2014. 
  2. ""Atal Bihari Vajpayee: India's new prime minister"". BBC News. 3 March 1998. Retrieved 20 अगस्त 2014. 
  3. ""South Asia Vajpayee's thirteen months"". BBC News. 17 April 1999. Retrieved 20 अगस्त 2014. 
  4. ""NDA regime constructed 50% of national highways laid in last 30 years: Centre"". The Times of India. Retrieved 20 अगस्त 2014. 

बाह्यशृङ्खलाः[सम्पादयतु]


भारतस्य प्रधानमन्त्रिणः
Orange animated left arrow.gif पूर्वतनः
पी वी नरसिंह राव्
अटल बिहारी वाजपेयी अग्रिमः
एच् डी देवे गौडा
Orange animated right arrow.gif

फलकम्:भारतरत्नप्रशस्तिभूषिताः

"https://sa.wikipedia.org/w/index.php?title=अटल_बिहारी_वाजपेयी&oldid=387145" इत्यस्माद् पुनः प्राप्तिः