बिस्मिल्ला खान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उस्ताद् बिस्मिल्ला खानः
व्यैक्तिकतथ्यानि
जन्मनाम खमरुद्दीन खानः
मूलतः भारतम्,बिहारराज्यम्
सङ्गीतविद्या हिन्दुस्तानीशास्त्रीयसङ्गीतम्
वृत्तिः शहनायीवादकः


बिस्मिल्ला खान भारतस्य सर्वश्रेष्ठः मौरीवादकः आसीत् । ई. स. १९४७ तमे वर्षे भारतस्य स्वातन्त्र्यावसरे रक्तदुर्गे यदा ध्वजः उच्छ्रितः, तदा “बिस्मिल्ला खान” अपि तत्र मौरीं वादयन् आसीत् । तावदेव प्रतिवर्षं स्वातन्त्र्यदिवसोत्सवे प्रधानमन्त्रिणः भाषणानन्तरं “बिस्मिल्ला खान” इत्याख्यस्य मौरीवादनं श्रूयते [१]

जन्म, परिवारश्च[सम्पादयतु]

ई. स. १९१६ तमस्य वर्षस्य मार्च-मासस्य २१ तमे (२१ मार्च १९१६) दिनाङ्के बिहार-राज्यस्य डुमराव-नामके ग्रामे “बिस्मिल्ला खान” इत्याख्यस्य जन्म अभवत् । जन्मसमये “बिस्मिल्ला खान” इत्याख्यस्य पितामहः “रसूल बख्श खान” इत्याख्यः तं द्रष्टुं गतवान् । तदा तं द्रष्ट्वा सः “बिस्मिल्ला” इति उक्तवान् । तावदेव सः जगति “बिस्मिल्ला खान” इति नाम्ना प्रसिद्धः जातः । तस्य अपरं नाम “अमरुद्दीन” इति अपि आसीत् । तस्य पितुः नाम “पैगम्बर खान” इति आसीत् । सः डुमराव-स्थलस्य साम्राज्यस्य राज्ञः केशवप्रसादसिंहस्य सभायां मौरीं वादयति स्म । यतः तस्य पूर्वजाः अपि बिहार-प्रान्तस्य राजसभासु सङ्गीतकाराः आसन् । तस्य माता “मिठ्ठन” इत्याख्या आसीत् । परिवारस्य बहवः सदस्याः सङ्गीतकाराः आसन् । तस्य पितामहः “उस्ताद सालार हुसैन” इत्याख्यः अपि मौरीवादकः आसीत् । “अली बक्श विलायतु” इत्याख्यः “बिस्मिल्ला खान” इत्याख्यस्य पितृव्यः आसीत् । सः वाराणस्यां विश्वनाथमन्दिरे अधिकृतः मौरीवादकत्वेन आसीत् । षड्वर्षदेशीये सति पित्रा सह “बिस्मिल्ला खान” इत्याख्यः वाराणसीं गतवान् । तत्र तस्य पितृव्यः “अली बख्श” इत्याख्यः मौरीवादनकलायाः शिक्षणं प्रदत्तवान् ।

साधनामर्गः[सम्पादयतु]

(शेहनायी) मौरीवादनम्

(शहनायी) मौरिवाद्यम् अनेन बिस्मिल्ला खानेन सुप्रसिद्धशास्त्रीयसङ्गीतवाद्यत्वेन प्रकीर्तितम्। १९३२ तमे संवत्सरे कोलकतानगरे अखिलभारतीय सङ्गीत सम्मेलनम् आसीत्। तस्मिन् सन्दर्भे अस्य वाद्यगोष्ठिः असीत्। सभासदाः सङ्गीतप्रपञ्चे लीनाः आसन्। अस्य वाद्यस्यच प्रख्यातिः तस्मात् दिनारभ्य अभूत्। १९४७ तमे संवत्सरे भारतस्य स्वातन्त्र्यदिनोत्सवं लक्ष्यीकृत्य रक्तदुर्गे वाद्यगोष्ठिः आसीत्। अनेनैव अस्य सङ्गीतसाधकस्य शहनायीवादकस्य गौरवं प्रसिद्धिश्च कथम् आसीत् इति सुस्पष्टं ज्ञायते। १९५० तमे संवत्सरे जनेवरिमासे २६ दिनाङ्के गणराज्योत्सवं लक्ष्यीकृत्य आयोजितायां वाद्यगोष्ठ्यां रक्तदुर्गे ’काफीरागे’ अस्य (शहनायी) "मौरिवादनम्" अविस्मरणीयम् असीत्। "बिस्मिल्ला खानः" विदेशेषु अपि प्रसिद्धः आसीत्। अफ्घानिस्तान, यूरोप,इरान, इराक, पश्चिम आफ्रिका, अमेरिका, केनडा, हाङ्ग् काङ्ग्, जापान इत्यदि देशेषु अस्य वाद्यगोष्ठिः आसीत्।

धार्मिकविश्वासः[सम्पादयतु]

“बिस्मिल्ला खान” इत्याख्यः इस्लाम-धर्मान्तर्गतस्य शिया-सम्प्रदायस्य आसीत् । तथापि सः हिन्दुधर्मस्य सङ्गीतकाराः इव धार्मिकोत्सवप्रेमी आसीत् । सः हिन्दुदेवतासु भेदभावं न करोति स्म । सः सरस्वतीदेव्याः आराधकः आसीत् । सः प्रतिदिनं वाराणस्याः विश्वनाथमन्दिरं गत्वा मौरीं वादयति स्म । इतः परं गङ्गायाः तटे उपविश्य वादनाभ्यासं करोति स्म । सः कथयति स्म यत् – “तेन गङ्गामाता प्रसन्ना भवति स्म ।

शास्त्रीयसङ्गीते योगदानम्[सम्पादयतु]

“बिस्मिल्ला खान” इत्याख्येन बजरी चौती, झूला इत्यादयः लोकध्वनयः वादिताः । पुरा एतेषां वाद्यानां शास्त्रीयसङ्गीते स्थानं नासीत् । किन्तु तस्य महत्प्रयासेन मौरीवाद्यं शास्त्रीयसङ्गीते स्थानं प्राप्तम् । यदा सः बालकः आसीत् । तावदेव तस्मै मौरीवाद्यस्य शिक्षणं दीयते स्म । किन्तु तस्य माता “बिस्मिल्ला खान” इत्याख्यं मौरीवादकत्वेन दृष्टुं नेच्छति स्म । सा कथयति स्म - “अस्मिन् कार्ये सम्मानः नास्ति । केषुचित् विवाहप्रसङ्गे, कार्यक्रमेषु च एव जनाः मौरीवादकान् आह्वयन्ति स्म । किन्तु “बिस्मिल्ला खान” इत्याख्यस्य पिता, मातुलश्च अचलः आसीत् । तयोः निर्णितम् आसीत् यत् “बिस्मिल्ला खान” इत्याख्यः मौरीवादकः भविष्यति एव । अनन्तरं सः मौरीवाद्यस्य शिक्षणं प्राप्य सम्पूर्णे जगति सर्वश्रेष्ठमौरीवादकत्वेन ख्यातिं प्राप्तवान् । तेन मौरीवाद्यं स्वस्य “बेगम” इति मन्यते स्म [२]। तेन सङ्गीताय स्वस्य सम्पूर्णं जीवनं समर्पितम् आसीत् । पत्न्याः मृत्योः अनन्तरं मौरीवाद्यम् एव तस्य पत्नी आसीत् । “बिस्मिल्ला खा” इत्याख्यस्य व्यक्तित्वे “यतीन्द्र मिश्र” इत्याख्येन “सुर की बारादरी” नामकं पुस्तकं रचितम् आसीत् । तस्मिन् पुस्तके यतीन्द्रमिश्रेण लिखितम् अस्ति यत् – “बिस्मिल्ला खान” इत्याख्यः कथयति स्म यत् – “सङ्गीतस्य न काऽपि जातिः । सङ्गीतं कदापि कस्यापि धर्मस्य अवहेलनां न करोति । तस्य मौरीवाद्यं वाराणस्याः अङ्गम् अस्ति” इति ।

भारतस्य स्वातन्त्र्येन सह “बिस्मिल्ला खान” इत्याख्यस्य गहनः सम्बन्धः वर्तते । ई. स. १९४७ तमे वर्षे स्वातन्त्र्यस्य अवसरे यदा रक्तदुर्गस्योपरि भारतीयध्वजः उच्छ्रितः, तदा तेन अपि तत्र मौरीवादनं कृतम् । तावदेव प्रतिवर्षं अगस्त-मासस्य पञ्चदशे (१५) दिनाङ्के प्रधानमन्त्रिणः भाषणानन्तरं “बिस्मिल्ला खान” इत्याख्यस्य मौरीवादनं श्रूयते । “बिस्मिल्ला खान” इत्याख्येन भारतस्य, विदेशस्य च सर्वेषु क्षेत्रेषु मौरीनादः प्रसारितः । स्वस्य सम्पूर्णे जीवने तेन ईरान-देशे, इराक-देशे, अफगानिस्तान-देशे, जापान्-देशे, अमेरिका-देशे, कनाडा-देशे, रूस-देशे इत्यादिषु विभिन्नदेशेषु मौरीनादस्य प्रस्तुतिः कृता आसीत् [३]। “बिस्मिल्ला खान” इत्याख्यस्य मातुलः “उस्ताद मरहूम अली बख्श” इत्याख्यः अपि शास्त्रीयसङ्गीतज्ञः आसीत् । मन्दिरेषु, राजसभानां मुख्यद्वारेषु, विवाहप्रसङ्गेषु च वादितव्यं मौरीवाद्यं शास्त्रीयसङ्गीतस्य वाद्यं भावयितुं स्वस्य मातुलस्य निर्देशानुसारं “बिस्मिला खान” इत्याख्येन महत्प्रयासाः कृताः । “बिस्मिल्ला खान” इत्याख्येन “उस्ताद विलायत खान” इत्याख्यस्य सितारवाद्येन, “पण्डित वी जी. जोग” इत्याख्यस्य बाहुलीनया (Violin) च सह यमलवादनं (Duet play) कृतम् आसीत् । “बिस्मिला खान” इत्याख्यः वारम्वारं कथयति स्म यत् – “केवलं सङ्गीतम् एव सर्वस्वम् अस्ति” इति । बहुवर्षेभ्यः प्राक् कैश्चित् विरोधिभिः “बिस्मिल्ला खान” इत्याख्यस्य मौरीवादनस्य विरोधः कृतः आसीत् । किन्तु “बिस्मिल्ला खान” इत्याख्येन उक्तं यत् – “अहं भगवन्तं आवाहयामि, शोधयामि च” । ते विरोधिनः किमपि वक्तुं न अशक्नुवन् ।

चलच्चित्रेषु “बिस्मिल्ला खान”[सम्पादयतु]

“बिस्मिल्ला खान” इत्याख्येन बहुषु चलच्चित्रेषु सङ्गीतं निर्मितम् आसीत् । क्षेत्रीयचलच्चित्रेषु अपि तस्य योगदानम् अस्ति । “सन्नादी अपन्ना” इत्यस्मिन् कन्नड-भाषीयचलच्चित्रे, “गूञ्ज उठी शहनाई” इत्यस्मिन् हिन्दी-भाषीयचलच्चित्रे, “सत्यजित राय” इत्याख्येन निर्मिते “जलसाघर” इति नामके चलच्चित्रे, “आशुतोष गोवारिकर” इत्याख्येन निर्मिते हिन्दीभाषीये “स्वदेश” इति नामके चलच्चित्रे च “बिस्मिल्ला खान” इत्याख्येन मधुरं मौरीवाद्यं वादितम् आसीत् । चलच्चित्रस्य सङ्गीतकाराः अपि कथयन्ति यत् – “बिस्मिल्ला खान” इत्याख्यस्य कृपया एव मौरीवाद्यं जगति प्रसिद्धं जातम् । साम्प्रतं मौरीवाद्यस्य सम्पूर्णे विश्वस्मिन् रसिकाः सन्ति । सङ्गीतकाराः “बिस्मिल्ला खान” इत्याख्यस्य प्रशंसां कर्तुम् असमर्थाः आसन् । सर्वे सङ्गीतकाराः तं सन्तसङ्गीतकारः कथ्यन्ति स्म । पण्डितः जसराजः अपि उक्तवान् यत् – “तादृशः महान् सङ्गीतकारः न भूतो न भविष्यति” इति [४]

प्रशस्तिः, पुरस्काराः च[सम्पादयतु]

ई. स. २००१ तमे वर्षे “बिस्मिल्ला खान” इत्याख्यः भारतस्य सर्वोच्चनागरिकत्वेन भारतरत्नप्रशस्त्या सम्मानितः । ई. स. १९८० तमे वर्षे सर्वकारेण तस्मै पद्मविभूषण-प्रशस्तिः प्रदत्ता । ई. स. १९६८ तमे वर्षे “बिस्मिल्ला खान” इत्याख्येन पद्मभूषण-प्रशस्तिः प्राप्ता । ई. स. १९६१ तमे वर्षे “बिस्मिल्ला खान” इत्याख्याय सर्वकारेण “पद्मश्री-प्रशस्तिः” प्रदत्ता । ई. स. १९५६ तमे वर्षे सः “सङ्गीतनाटक-अकादमी-पुरस्कारः प्राप्तवान् । ई. स. १९८६ तमे वर्षे मराठवाड-विश्वविद्यालयेन, ई. स. १९८९ तमे वर्षे बनारसहिन्दुविश्वविद्यालयेन, ई. स. १९९५ तमे वर्षे महात्मागान्धिकाशीविद्यापीठेन च “बिस्मिल्ला खान” इत्याख्यः “विद्यावाचस्पतिः (D.Lit.)” इत्यनया उपाधिना सम्मानितः । मध्यप्रदेशराज्यस्य सर्वकारेण सः तानसेन-पुरस्कारेण सम्मानितः ।

मृत्युः[सम्पादयतु]

ई. स. २००६ तमस्य वर्षस्य अगस्त-मासस्य २१ तमे (२१ अगस्त २००६) दिनाङ्के “बिस्मिल्ला खान” इत्याख्यस्य मृत्युः अभवत् [५]। ई. स. २००६ तमस्य वर्षस्य अगस्त-मासस्य १७ दिनाङ्के (१७ अगस्त २००६) सः अस्वस्थः आसीत् । अतः उपचारार्थं सः वाराणस्याः हेरिटेज-चिकित्सालये आनीतः । चतुर्दिवसानन्तरं “बिस्मिल्ला खान” इत्याख्यः हृदयाघातेन मृतः । भारतसर्वकारेण तस्य मृत्युदिवसः राष्ट्रियशोकदिवसत्वेन उत्घोषितः । मृत्योः अनन्तरं वाराणस्याः एकस्मिन् निम्बकवृक्षस्याधः “बिस्मिल्ला खान” इत्याख्यस्य पार्थिवशरीरेण सह मौरीवाद्यम् अपि समाधौ स्थापितम् । भारतीयसेनया तस्य एकविंशतिः गोलिकाभिः सम्माननं कृतम् । “बिस्मिल्ला खान” इत्याख्येन स्वस्य जीवने बहुधनम् अर्जितम् । किन्तु अधिकाधिकं धनं निर्धनजनेभ्यः, कृपणेभ्यः च प्रदत्तम् आसीत् । स्वस्य परिवारस्य पालनाय अपि तेन आर्थिकं साहाय्यं कृतम् आसीत् । अनन्तरम् एकस्मिन् समये सः स्वयं आर्थिकरूपेण पीडितः अभवत् । तदा सर्वकारेण तस्य साहाय्यं कृतम् आसीत् । तस्य इच्छा आसीत् यत् – “अहम् अन्तिमदिवसेषु देहली-नगरस्य भारतद्वारे (India-Gate) मौरीवादनं कुर्यासम्” इति । किन्तु तस्य इच्छा अनिर्वृता ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

(शेहनायी) मौरीवादनम्
  • सा श. २००१ तमे संवत्सरे भारतरत्न पुरस्कारः।
  • पद्मविभूषणः पुरस्कारः १९८०
  • पद्मभूषणः पुरस्कारः १९६८
  • पद्मश्री पुरस्कारः १९६१
  • सङ्गीतनाटक अकाडमि पुरस्कारः १९५६
  • मध्यप्रदेशस्य सार्वकारस्य तानसेन प्रशस्तिः १९६५
  • नेहरू अन्ताराष्ट्रिय ऐक्यता प्रशस्तिः १९७३
  • स्वरलय प्रशस्तिः(मद्रास्) १९९४
  • राजीवः गान्धिः सद्भावना प्रशस्तिः(काङ्ग्रेस पक्षः) १९९४

सम्माननानि[सम्पादयतु]

  • मराठवाड विश्वविद्यालयः - डि.लिट् - १९८६
  • बनारस हिन्दू विश्वविद्यालयः - डि.लिट्- १९८९
  • महात्मागान्धी काशीविद्यापीठः - डि. लिट् - १९९५
  • सङ्गीत नाटक अकाडमि - फेलो - १९९४
  • राष्ट्रिय संशोधना फ्रोफेसर् शिप् - १९९५

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३७१
  2. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३६९
  3. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३६९
  4. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३७१
  5. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - २७३


"https://sa.wikipedia.org/w/index.php?title=बिस्मिल्ला_खान&oldid=390671" इत्यस्माद् प्रतिप्राप्तम्