चिदम्बरम् सुब्रह्मण्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Bharat Ratna Chidambaram Subramaniam
Minister of Defence
कार्यालये
28 July 1979 – 14 January 1980
प्रधानमन्त्री Charan Singh
पूर्वगमः Jagjivan Ram
पादानुध्यातः Indira Gandhi
Minister of Finance
कार्यालये
1975–1977
प्रधानमन्त्री Indira Gandhi
पूर्वगमः Yashwantrao Chavan
पादानुध्यातः Haribhai M. Patel
व्यक्तिगत विचाराः
जननम् जनवरी 30, 1910(1910-01-30)
मरणम् नवबम्बर 7, 2000(2000 -  11 - 07) (वयः 90) 

चिदम्बरम् सुब्रह्मण्यम् हरितक्रान्तेः जनकः कथ्यते । यदा भारतेन स्वातन्त्र्यं प्राप्तम् आसीत्, तदा खाद्योत्पादनस्य स्थितिः अत्यन्तं चिन्तनीयम् आसीत् । बहुत्र अनावृष्टिः अभवत् । तेन वङ्गबिहारोडिशाक्षेत्रेषु जनाः क्षुधार्ततायां मृतङ्गताः । यदा “सी. सुब्रह्मण्यम्” इत्याख्यः कृषिमन्त्रिपदं प्राप्तवान्, तदा तेन खाद्यान्नसमस्याः निवारयितुं बह्व्यः योजनाः प्रचालिताः । कृषिक्षेत्रे तस्य नीतिः उत्कृष्टा वर्तते स्म । “सी. सुब्रह्मणयम्” इत्यस्य प्रयासैः भारतदेशस्य खाद्यान्नोप्तादने विकासः अभवत् । साम्प्रतं भारतदेशः कृषिक्षेत्रे आत्मनिर्भरः अस्ति ।

जन्म, परिवारश्च[सम्पादयतु]

“चिदम्बरम् सुब्रह्मणयम्” इत्याख्यस्य जन्म ई. स. १९१० तमवर्षस्य जनवरी-मासस्य ३० तमे (३० जनवरी १९१०) दिनाङ्के तमिळनाडू-राज्यस्य कोयम्बतूर-मण्डलस्य पोलाची-ग्रामे अभवत् [१]

शिक्षणम्[सम्पादयतु]

“सी. सुब्रह्मण्यम्” इत्याख्यस्य प्रारम्भिकशिक्षणं स्वस्य ग्रामे एव अभवत् । प्रारम्भिकशिक्षणानन्तरं चेन्नै-नगरे तस्य उच्चशिक्षणम् अभवत् । चेन्नै-नगरस्य प्रेसीडेन्सी-महाविद्यालये सः विज्ञानविषये स्नातकपदवीं प्रापत् । अनन्तरम् ई. स. १९३२ तमे वर्षे मद्रास-विश्वविद्यालयात् विधिशास्त्रे स्नातकपदवीं प्राप्तवान् । किन्तु ई. स. १९३६ तमवर्षपर्यन्तम् अपि सः अधिवक्तुः वृत्तिं न आरब्धवान् । ई. स. १९३६ तमवर्षानन्तरं तेन वृत्तिः आरब्धा । किन्तु तस्मिन् समये सः स्वातन्त्र्यान्दोलने संलग्नः जातः आसीत् ।

राजनैतिकजीवनम्[सम्पादयतु]

ई. स. १९३६ तमवर्षात् तेन वृत्त्या सह स्वातन्त्र्यान्दोलनेषु भागः अपि गृहीतः आसीत् । आन्दोलनेषु अपि तस्य अभिरूचिः वर्तते स्म । सः भारतस्य स्थितिः दृष्टवान् आसीत् । अतः सः अपि योगदानं दातुमिच्छति स्म । सः कॉङ्ग्रेस-पक्षस्य नेता आसीत् । अन्यैः राजनेतृभिः सह आन्दोलनेषु “सी. सुब्रह्मणयम्” इत्याख्येन अपि बहूनि कार्याणि कृतानि आसन् । ई. स. १९४२ तमे वर्षे “भारत छोडो” इत्यस्मिन् आन्दोलने कॉङ्ग्रेस्-पक्षस्य महत्तमाः राजनेतारः कारागारं गतवन्तः आसन् । तेषु “सी. सुब्रह्मण्यम्” इत्याख्यः अपि अन्यतमः आसीत् । अतः तस्मिन्समये कोयम्बतूर-मण्डलस्य प्रमुखेषु नेतृषु तस्य स्थानम् आसीत् । समयान्तरे तेन कॉङ्ग्रेस-समितौ अपि अध्यक्षत्वेन स्थानं प्राप्तम् आसीत् । तमिलनाडू-राज्ये कॉङ्ग्रे-पक्षस्य कार्यसमितौ अपि “सी. सुब्रह्मण्यम्” इत्याख्यः महत्त्वपूर्णं स्थानं प्राप्तवान् आसीत् । ई. स. १९४६ तमे वर्षे सः संविधानसभायाः सदस्यतां प्रापत् । ई. स. १९५२ तमवर्षपर्यन्तं सः संविधानसभायाः सदस्यः आसीत् । ई. स. १९५२ तमे वर्षे सः तमिळनाडू-राज्यस्य विधानसभायाः सदस्यत्वेन चितः । सदस्यतां प्राप्ते सति सः प्रदेशस्य मन्त्रिमण्डले स्थानं प्राप्तवान् । ई. स. १९५२ तः १९६२ तमवर्षपर्यन्तं सः राज्यसर्वकारस्य विभिन्नेषु महत्त्वपूर्णपदेषु कार्यं कृतवान् आसीत् । सः राज्यस्य वित्तमन्त्री, शिक्षणमन्त्री, विधिमन्त्री इत्यादिषु पदेषु अपि कार्यम् अकरोत् । तेन दशवर्षेषु शिक्षणक्षेत्रे शिक्षणस्य विस्ताराय, विकासाय च अपि महत्त्वपूर्णानि कार्याणि कृतानि आसन् ।

ई. स. १९६२ तमे वर्षे निर्वाचने विजयं प्राप्ते सति अयं केन्द्रियमन्त्रिमण्डलस्य मन्त्रित्वेन चितः । तदा सर्वकारेण तस्मै लोहखानिजमन्त्रालयस्य (Ministry of Steel and Mins) दायित्त्वं प्रदत्तम् आसीत् । ई. स. १९६२ तः १९६४ तमवर्षं यावत् अस्य मन्त्रालयस्य एव मन्त्री आसीत् । अनन्तरम् ई. स. १९६४ तः १९६५ तमवर्षं यावत् सर्वकारेण तस्मै खाद्यकृषिमन्त्रालयस्य दायित्त्वं प्रदत्तम् आसीत् । ई. स. १९६६ तः १९६७ तमवर्षं यावत् खाद्यकृषिमन्त्रायेन सह विकासविभागस्य दायित्त्वं अपि संयोजितः । अस्मिन् पदे तेन कृषिक्षेत्रे बहूनि सफलानि कार्याणि कृतानि । तेन उत्तमानाम् अङ्कुराणाम्, उर्वरकाणां च प्रयोगाय अपि कृषकाः प्रेरिताः । तेन फलस्वरूपं १९६० तमे दशके भारतदेशः खाद्योत्पादने सक्षमः जातः । अनेन प्रकारेण तस्य कार्याणां चर्चा अन्ताराष्ट्रियस्तरे विस्तृता । ई. स. १९९० तमे वर्षे सः महाराष्ट्र-राज्यस्य राज्यपालत्वेन नियुक्तः जातः । वर्षत्रयं यावत् सः अस्मिन् पदे कार्यरतः आसीत् । अनन्तरं “सी. सुब्रह्मण्यम्” इत्याख्यः “भारतीयविद्याभवनम्” इत्यस्याः संस्थायाः अध्यक्षपदं प्रापत् । अस्मिन् पदे कार्यरते सति “सी. सुब्रह्मण्यम्” इत्याख्येन बहूनि महत्त्वपूर्णानि पुस्तकानि रचितानि ।

हरितक्रान्तेः जनकः “सी. सुब्रह्मण्यम्”[सम्पादयतु]

भारतस्य स्वान्त्र्यसमये खाद्यान्नविषये देशस्य स्थितिः दयनीया आसीत् । किन्तु साम्प्रतं भारतदेशः कृषिक्षेत्रे सम्पूर्णतया आत्मनिर्भरः अस्ति । भारतदेशस्य स्वतन्त्रतायाः प्राग् बहुषु स्थानेषु जनाः अनावृष्ट्या पीडिताः आसन् । वङ्ग-बिहार-ओडिशाक्षेत्रेषु बहवः जनाः क्षुधया पीडिताः सन्तः मृतङ्गताः । किन्तु स्वातन्त्र्यानन्तरं कदापि तादृशी स्थितिः न सर्जिता । यदा “सी. सुब्रह्मण्यम्” इत्याख्यः केन्द्रसर्वकारस्य कृषिमन्त्रिपदं प्रापत्, तदा तेन खाद्यान्नोत्पादने विकासाय योजनाः प्रचालिताः । ताभिः प्रचालिताभिः योजनाभिः कृषकाः जागृताः अभवन् । तावदेव कृषकाः उत्तमानाम् अङ्कुराणाम्, उर्वरकाणां च उपयोगं कुर्वन्तः सन्ति । “सी. सुब्रह्मण्यम्” इत्याख्येन भारतदेशे अधिकमात्रायां खाद्योत्पादनं कर्तुं शक्यते । “सी. सुब्रह्मण्यम्” इत्याख्यस्य कृषिनीतिभ्यः ई. स. १९७२ तमे वर्षे खाद्यान्नोत्पादने नामाङ्कनम् अभवत् [२]। तावदेव इयं घटना “हरितक्रान्तिः” इति नाम्ना संज्ञायते । “डॉ. बोरलाग” इत्याख्यः नोबेल-पुरस्कारभाक् आसीत् । “बोरलाग” इत्याख्येन अपि “सी. सुब्रह्मण्यम्” इत्याख्यस्य अस्मै कार्याय प्रशंसा कृता आसीत् ।

भारतरत्नप्रशस्तिः. पुरस्काराः च[सम्पादयतु]

ई. स. १९९८ तमे वर्षे सर्वकारेण “सी. सुब्रह्मण्यम्” इत्याख्यः सर्वोच्चनागरिकत्वेन “भारतरत्नपुरस्कारेण” सम्मानितः [३]

ई. स. १९८८ तमे वर्षे सः अनुव्रत-पुरस्कारं प्राप्तवान् आसीत् । ई. स. १९९६ तमे वर्षे तेन “नोर्मन बोरलाग” इत्ययं पुरस्कारः प्राप्तः । तस्मिन्नैव वर्षे सः “ऊ थांट शान्ति” इत्यनेन पुरस्कारेण अपि सम्मानितः । राष्ट्रियैकतायै तस्मै “वाय्. एस्, चौहान” इतीमं पुरस्कारं प्रदत्तम् आसीत् । ई. स. २०१० तमे वर्षे “सी. चिदम्बर” इत्याख्यस्य स्मृतौ भारतसर्वकारेण भारतीयमुद्रासु (Coins) तस्य चित्रं मुद्रितम् आसीत् । तस्मिन्नैव वर्षे सन्देशालयचीटिकासु अपि “सी. सुब्रह्मण्यम्” इत्याख्यस्य चित्रं प्रकाशितम् आसीत् ।

मृत्युः[सम्पादयतु]

ई. स. २००० तमस्य वर्षस्य नवम्बर-मासस्य ७ दिनाङ्के (७ नवम्बर २०००) “सी. सुब्रह्मण्यम्” इत्याख्यः मृतङ्गतः[४]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३७
  2. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३६
  3. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३९
  4. हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३९