रक्तदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रक्तदुर्गम्
विश्वपरम्परास्थानानि


रक्तदुर्गम् is a prominent fort in Delhi
राष्ट्रम् India
प्रकारः Cultural
मानदण्डः ii, iii, vi
अनुबन्धाः 231
क्षेत्रम् Asia-Pacific
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 2007  (31st सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

अस्माकं देशस्य प्रसिद्धासु भवनरचनासु देहलीस्थं रक्तदुर्गम् अस्ति प्रमुखम् । एतत् मोगलनां वैभवस्य द्योतकम् अस्ति । शाहजहानः एतस्य निर्माणं करितवान् । १६३९ तमे वर्षे एतस्य निर्माणकार्यम् आरब्धम् । नवानां वर्षणाम् अनन्तरं, तन्नाम् १६४८ तमे वर्षे, शाहजहानः महता वैभवेन एतत् दुर्गं प्रविष्टवान् वासाय ।

रक्तदुर्गं देहलीराज्ये आग्रानगरस्य समीपे अस्ति । 'प्रसिद्धताजमहल्’तः सार्ध द्वे कि.मि दूरे अस्ति । रक्तदुर्गम् (लालखिला) वास्तविकतया दुर्गैः आवृतम् प्रासादनगरम् इति आह्वातुं शक्यते ।

इतिहास[सम्पादयतु]

षोडषतमे शतमानस्य अन्ते अक्बरस्य काले मोघलवंशीयाः एतत् दुर्गम् लूदीवंशात् अलभन् । अक्बरः स्वराज्यपरिपालनसमये राजधानीं देहलीतः आग्रां प्रति परिवर्तितवान् । अनेन आग्रा नगरम् अधिकसंपन्नं संजातम् । अक्बरः सामान्यतः दुर्ग-सौधादिकं रक्तवर्णाश्मभिः निर्माययति स्म, च रक्तदुर्गेऽपि अस्य प्रभावं दृष्टुं शक्यते । रक्तदुर्गम् न केवलम् दुर्गत्वेन अपितु राज्ञाम् एवं तेषां दाराणाम् निवासत्वेनापि उपयोगः आरब्धः । रक्तदुर्गस्य इदानींतनरुपम् अक्बरस्य प्रपौत्रः षाअजानस्य काले प्राप्तम् । षाजहानस्य काले शिल्पकलायाम् श्वेतामृतशिलाम् अधिकतया उपयुज्यन्ते स्म (उदाहरणार्थम् - ताजमहल्) । षाहाजानः अत्रत्य केषाञ्चनसौधान् नाशयित्वा स्वकीयसौधाः निर्मितवान् । अनन्तरवर्षेषु षाजहानस्य पुत्रः औरङ्गजेबः षाहजहानम् अस्मिन्नेव रक्कदुर्गे बन्धितवान् अपि । षाजहानः अस्मिन्नेव रक्तदुर्गे 'मुसम्मुन् बुर्ज' नामके गोपुरे इति मृतवान् इति भावयन्ति । एषःअमृतशिलायाम् निर्मितः । (ताजमहल्) ताजसौधानस्य अद्भुतम् दृश्यम् अस्मात् सौधात् सम्यक् दृश्यते ।

नख्खर् खन्न

रक्तदुर्गस्य चित्रणम्[सम्पादयतु]

रक्तदुर्गस्य प्रवेशद्वारद्वयम् अस्ति । पश्चिमीयेन मार्गेण जनाः प्रविशन्ति । लाहोरद्वारम् इति एतस्य नाम । राजभवनस्य मुखद्वारे भेरीगृहम् अस्ति । एतत् शिलया सिकताभिः च निर्मितं भवनम् । एतस्य अभिमुखम् एकत्र 'हरिततृणाङ्गणम् (लान् )अस्ति, अपरत्र आस्थानभवनम् अस्ति ।

आस्थानभवनस्य पूर्वभागे सिंहासनं भवति स्म पूर्वम् । आस्थानभवनस्य पृष्ठभागे रङ्गमन्दिरस्य मध्ये सङ्गमरमरशिलया निर्मितः कुण्डः भवति । एत्स्य अधोभागाः पद्माकारेण रमणीयतया निर्मितः अस्ति । रङ्गमन्दिरस्य पार्श्वे ममताज्मद्निरम् अस्ति । एतत् काचकमन्दिरम् इत्यपि निर्दिश्यते । रङ्गमन्दिरस्य उत्तरस्यां दिशि 'महिलाखास्’ भवनम् स्ति । एअत्स्य भ्वनस्य पार्श्वे एव किञ्चन गोलभवनम् अस्ति । इतः उत्तरस्यां दिशि गतं चेत् आन्तरङ्गिकभवनं प्राप्यते । गजत्प्रसिद्धं मयूरसिंहसनम अत्रैव भवति स्म ।

दिवान्-ऐ-आम् अन्तश्चित्रम्

आन्तरङ्गिकभवनस्य उत्तरभागो राजपरिवारीयाणां स्नानगॄहाणि द्दश्यन्ते । स्नानगृहाणां पार्श्वे एव् 'मोतीमसजिद्’ अस्ति । औरङ्गजेबः एतत् सङ्गमामरशिलया निर्मापितवान् । एतस्य अन्यस्मिन् पार्श्वे उद्यानं, सरोवरः च द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । उद्यानस्य मध्ये एव द्वितीयेन बहादुरशाहेन गते शतके सिकताभिः शिलाभिः च निर्मापितं भवनं दृश्यते ।

रङ्ग महल्
रात्रौ रक्तदुर्गम्.

बाह्यानुबन्धाः[सम्पादयतु]

क्रीडाङ्गणे विश्रान्तिस्थानानि
"https://sa.wikipedia.org/w/index.php?title=रक्तदुर्गम्&oldid=483094" इत्यस्माद् प्रतिप्राप्तम्