महाबोधिमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
महाबोधिमन्दिरम्
विश्वपरम्परास्थानानि

Mahabodhi Temple
राष्ट्रम् भारतम्भारतम्, भारतीयराष्ट्रियकाङ्गेस्
प्रकारः सांस्कृतिकम्
मानदण्डः i, ii, iii, iv, vi
अनुबन्धाः १०५६
क्षेत्रम् एषियापेसिफिक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.२००२  (२६तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

महाबोधिः इति ख्यातं बुद्धगयामन्दिरम् इष्टिकया निर्मितं प्राचीनं बौद्धमन्दिरं वर्तते । अत्रत्यं पूर्वतनं मन्दिरं क्रि.पू.तृतीये शतके निर्मितम् । अत्रत्यानि अन्यानि मन्दिराणि पञ्चमे षष्ठे वा शतके निर्मितानि स्युः । बुद्धेन अत्रैव आत्मज्ञानं प्राप्तम् इत्यतः स्थलम् एतत् बौद्धानां प्रसिद्धं पवित्रयात्रास्थलं वर्तते । मन्दिरस्य भूतलप्रदेशः ४५ चतरस्रमीटर्-मितः अस्ति । सूच्यग्रस्तूपाकारयुक्तस्य मन्दिरस्य उपरि लघु चतरस्राङ्गणं द्दश्यते । मन्दिरस्य बहिर्भागेषु बुद्धस्य जीवनगाथा इष्टिकाभिः सुन्दरतया चित्रिता अस्ति । मन्दिरस्य अन्तः उपविष्टवतः बुद्धस्य महती प्रतिमा वर्तते, यत्र च बुद्धः दक्षिणहस्तेन भूमिं स्पृशन् अस्ति । अस्याम् एव स्थितौ बुद्धः आत्मज्ञानं प्राप्तवान् इति भावयन्ति जनाः । एषा प्रतिमा कृष्णशिलया निर्मिता अस्ति । सुवर्णकवचेन अलङ्कृता इयं प्रतिमा केसरवस्त्रेण आवृता अस्ति । मन्दिरस्य आवरणे लघुस्तूपाः बह्व्यः भुद्धमूर्तयः च द्दश्यन्ते, याः च बहुभ्यः शतकेभ्यः पूवं निर्मिताः। महाबोधिमन्दिरस्य पार्श्वे बोधिवृक्षः द्दश्यते । तस्य अधः एव बुद्धः आत्मज्ञानं प्राप्तवान् । तत्पार्श्वे आत्मज्ञानस्य प्राप्तेः अनन्तरं सप्त दिनानि यावत् बुद्धेन अचलध्यानं यत्र कृतं तच्च स्थलं वर्तते । २००२ तमे वर्षे युनेस्कोसंस्थया महाबोधिमन्दिरं जागतिकपारम्परिकस्थलत्वेन निर्दिष्टम् अस्ति ।

मन्दिरसौन्दर्यम्[सम्पादयतु]

महाबोधिमन्दिरं मुख्यमन्दिरम् इत्यपि नाम्ना प्रसिद्धम् अस्ति । मन्दिरमेतत् नृपतिना अशोकेन निर्मितः स्तूपेन समनः अस्ति । अस्मिन् मन्दिरे भगवतः बुद्धस्य उन्नता पद्मासनोपविष्टा मूर्तिः प्रतिष्टापिता । इयं मूर्तिः तत्रैव स्थापिता अस्ति यत्र सिद्धार्थः निर्वाणं प्राप्य बुद्धः अभवत् । मन्दिरस्य चतृषु दिशासु चित्रोत्कीर्णशिलाफलकानि सन्ति । एतानि एव बोधगयायां प्राप्ताः प्राचीनावशेषाः । अस्य मन्दिरस्य नैरुत्यदिशायां प्राकृतिकद्यश्यवैभयुक्तम् उद्यानम् अस्ति । अत्र नैके बौद्धभिक्षवः आगत्य ध्यानमग्नाः भवन्ति । मन्दिरप्रशासनस्मितेः अनुमतिं प्राप्य सामान्यजनाः अत्र प्रवेशं प्राप्नुवन्ति । अस्मिन् मन्दिरे सप्तस्थानानि पवित्ररूपेण अङ्किताः यत्र भगवान् बुद्धः सिद्धिं प्राप्य सप्तदिनानि व्यतीतवान् । जतककथासु उल्लिखितः बोधिवृक्षः अत्रैव मन्दिरस्य पुरतः अस्ति यस्याधः सिद्धार्थः सिद्धिमवाप्नोत् । अयं कश्चित् पिप्पलवृक्षः यः मुख्यमन्दिरस्य पुरतः अस्ति । वर्तमानः वृक्षः मूलवृक्षस्य पञ्जमी वंशश्रेणी अस्ति । मन्दिरसमूहानां घण्टानादः विशिष्टं शान्तिं जनयति । मुख्यमन्दिरस्य पृष्टभागे रक्तशिलानिर्मिता ७पादपरिमिता बुद्धमूर्तिः अस्ति । अस्याः मूर्तेः चतृसु दिशासु विभिन्नवर्णानां पताकाः लग्नाः । अनेन मूर्तिः विशिष्टरीत्या आकर्षति । एवं वदन्ति स्थलीयाः यत् क्रिस्तपूर्वतृतीयशतके एव साम्राट् अशोकः वज्रखचितसिंहासनम् अत्रैव स्थापितवान् । एतत् केन्द्रं पृथिव्याः नाभिः इति वदन्ति । अस्य पुरतः एव विशाले प्रस्तरे बुद्धस्य विशालं पदचिह्नम् अङ्कितम् अस्ति । एतत् पदचिह्नमेव धर्मचक्रस्य प्रतीकम् इति मन्यन्ते भक्तगणः । बुद्धः ज्ञानप्राप्तेः पश्चात् अस्य वृक्षस्य पुरतः एव स्थित्वा दर्शनं दत्तवान् । बुद्धावस्थायाः अपि अस्य मूर्तिः अत्र निर्मितास्ति । अस्य मूर्तेः अनिमेशलोचनः इति कथ्यते । मुख्यमन्दिरस्य ईशान्यदिशायाम् अनिमेशचित्यं निर्मितम् अस्ति । मुख्यमन्दिरस्य उत्तरभागः चङ्कामाना इति नाम्ना प्रसिद्धः । अस्मिन् एव स्थाने बुद्ध ज्ञानप्राप्तेः पश्चात् तृतियसपाहं व्यतीतवान् । अत्र कृष्णशिलया कमलपुष्पं निर्मितं यत् बुद्धस्य प्रतीकः इति विश्वस्यते । महाबोधीमन्दिरस्य वायव्यभागे चालविहीनः कश्चित् भग्नावशेषः अस्ति यस्य रत्नाघाता इति नाम भवति । अस्मिन् एव स्थले बुद्धः ज्ञानप्राप्तेः पश्चात् चतुर्थसप्ताहं व्यतीतवान् । गहनध्यने मग्नस्य बुद्धस्य शारीरात् प्रकाशकिरणानि निसृतानि । तैः विभिन्नदिशाप्रविष्टकिरणैः पताकानां विभिन्नवर्णाः उत्पन्नाः इति काचित् किंवदन्ती अस्ति । मुख्यमन्दिरस्य उत्तरद्वारात् अनतिदूरे विद्यमानस्य अजपालन्यग्रोधवृक्षस्य अधः ज्ञानप्राप्तेः पश्चात् बुद्धः पञ्चमसप्ताहं व्यतीतान् इति जानाः वदन्ति । षष्टसम्पाहं बुद्धः महाबोधिमन्दिरस्य दक्षिणदिशिस्थितस्य मूचालिण्डा इति सरसः निकटे व्यतीतवान् । एतत् सरः परितः उन्नतवृक्षाः सन्ति । अस्य सरसः मध्ये उरगस्य फणाछायायां स्थितस्य भगवतः बुद्धस्य विग्रहः प्रतिष्ठापितः। कदाचित्बुद्धस्य ध्यानमग्नस्य चण्डवातागमनस्य लक्ष्यम् अपि नासीत् । यदा बुद्धः मुसलधारावृष्ट्या उत्सितः तदा सर्पराजः मूचलिण्डः स्वस्य निवासाद्बहिरागत्य फणां प्रसार्य बुद्धस्य रक्षाणम् अकरोत् इति स्थलीयजनाः कथां वदन्ति । मन्दिरस्य आग्नेयदिशि राजयतना इति वृक्षः अस्ति । अस्य वृक्षस्य अधः एव बुद्धः ज्ञानप्राप्तेः पश्चात् सप्तमसप्ताहं व्यतीतवान् इति जनविश्वासः । अत्र एव बुद्धः ब्रह्मदेशीयै वणिजौ सन्दृष्टवान् । एतौ वणिजै बुद्धे आश्रयं प्रार्थितवन्तौ । एतावेव बुद्धं शरणं गच्छामि इति प्रथमम् उक्तवन्तौ । पश्चात् इयं प्रार्थनां बौद्धलोके विश्रुता अभवत् ।

टिबेट्टीयः मठः[सम्पादयतु]

महाबोधिमन्दिरस्य पश्चिमदिशि अनतिदूरे स्थितः जिकिबोधगया अनुपमः विशिष्टः क्रि.श.१९३४तमे वर्षे निर्मितः प्राचीनमठः । गयाबोधगययोः मार्गे निरञ्जनानद्याः तटे निर्मितः बर्मीविहारमठः क्रिश. १९३६तमे वर्षे निर्मितः । अस्मिन् बौद्धविहारे प्रार्थनायाः प्रकोष्टद्वयम् अस्ति । बुद्धस्य कश्चन बृहद्विग्रहः अस्ति । अस्य पार्श्वे एव थायी मन्दिरम् अस्ति । अस्य विहारस्य चालः सुवर्णलोहेन चित्राङ्कितः अस्ति । अनेन स्य विहारस्य स्वर्णविहारः इत्यपि कथयन्ति । अस्य विहारस्य निर्माणं थाय्लेण्ड् राजपरिवाजनाः बौद्धमतारम्भस्य २५००वर्षसम्पूरणस्य स्मारणार्थं कृतवन्तः । महबोधिमन्दिरस्य ११.५कि.मी.दूरे विद्यमानस्य इण्डोसन् निप्पन् जपानि मन्दिरस्य निर्माणः क्रि.स. १९७२-७३वर्षयोः अभवत् । अस्य मन्दिरस्य निर्माणस्य शैली काष्टनिर्मितजपानीयमन्दिरस्य इव अस्ति । अस्मिन् मन्दिरे बुद्धस्य जीवनघटनावल्यः चित्रशिल्पमाध्यमेन दर्शिताः । महाबोधिमन्दिरतः पञ्चकिलोमीटर् दूरे विद्यमानस्य चीनामन्दिरस्य निर्माणं क्रि.श. १९४५तमे वर्षे अभवत् । अस्मिन् मन्दिरे स्वर्णनिर्मितः बुद्धविग्रहः अस्ति । अस्य मन्दिरस् जीर्णोद्धारः क्रि.शा. १९९७तमवर्षे अभवत् । जपानीयमन्दिरस्य उत्तरदिशि भूटनी विहारः अस्ति । अस्य विहारस्य भित्तिषु उत्कीर्णकलायाः सुन्द्ररविन्यासः अस्ति । अत्र नूतनतमं नाम वियटनामीयं मन्दिरम् अस्ति । एतन्मन्दिरं महाबोधिमन्दिरस्य उत्तरे ५निमेषाणां चलनेन प्राप्यते । अस्य विहारस्य निर्माणं क्रि.श. २००२तमवर्षे अभवत् । अस्मिन् बौद्धविहारे भगवतः बुद्धस्य शान्त्यवतारः अवलोकितेश्वरस्य प्रतिमा स्थापिता । एतान् विहारन् अतिरिच्य अत्र कानिचन स्मारकानि अपि सन्ति । भारतस्य सर्वाधिकोन्नता बुद्धमूर्तिः ६पदपरिमित कमलपुष्पशिल्पे उपविष्टबुद्धस्य ८०पादपरिमितोन्नतः विग्रहः ।

राजगीरः[सम्पादयतु]

बोधगयापर्यटकैः अवश्य राजगीरप्रदेशः दर्शनीयः । अत्र गृध्रकूटपर्वतमस्तके कश्चित् विश्वशन्तिस्तूपः अत्याकर्षकः अस्ति । पर्वताग्रं गन्तुं रज्जुदोलिकानां व्यवस्था अस्ति । अस्य शान्तिस्तूपस्य निकटं वेणुवनम् अस्ति यत्र कदाचित् । राजगीरप्रदेशे प्रसिद्धा सप्तपर्णी गुहा अस्ति यत्र भागवान् बुद्धः निर्वाणं प्राप्य प्रथ । गुहा राजगीरस्य दक्षिणे उष्णोदककूपतः १०००सोपानानाम् अरोहणेन प्राप्यते । उपरि आरोहणं कर्तुम् एकमात्रं वाहनम् आश्वशकटं यस्य तत्र टमटम इति नाम भवति । शताधिकरूप्यकाणां शुल्कं दत्त्वा अर्धदिनं यावत् प्रयाणं क्रियते ।

नालन्‍दा[सम्पादयतु]

नलन्दा तु रजगीरतः १३कि.मी. दूरे अस्ति । अत्र प्राचीनकाले नलन्दा इति विश्वप्रसिद्धः विश्वविद्यालयः आसीत् । अधुन अत्र तस्य विश्वविद्यालयस्य भग्नावशेषाः सन्ति । बिहारसर्वकारेण सद्यः काले एव अन्ताराष्ट्रियविश्वविद्यालयम् अत्र स्थापयितुं निश्चितः । अत्र कश्चित् वस्तुसङ्ग्रहालयः अपि अस्ति । अस्मिन् अत्र उत्खननावसरे लब्धाः प्राचीनावशेषाः संस्थापिताः । नलन्दातः ५कि.मी दूरे प्रसिद्धं जैनतीर्थस्थानं पावपुरी अस्ति । एतत् स्थानं महावीरेन सम्बद्धम् अस्ति । अतः अत्र महावीरस्य भव्यदेवालयः अस्ति । नलन्दाप्रदेशस्य निकटे एव बिहारशरीफः अस्ति । मध्यकाले अस्य नम ओदन्तपुरी आसीत् । वर्तमाने एतत्स्थानं महमदीयायां तीर्थस्थानम् इति प्रसिद्धम् । अत्र तेषां कश्चित् मस्जिदः अस्ति । बिहारशरीफप्रदेशे पर्यटनार्थम् आगच्छन्ति तै मनीरामस्य अखाडा अपि दर्शनीया अस्ति । स्थानीयानां विश्वासः यत् अत्र शुद्धहृदयेन यदि प्रार्थ्यते तर्हि तस्य मनोकामनाः सिद्ध्यन्ति ।

मार्गदर्शनम्[सम्पादयतु]

गयां, राजगीरं, नलन्दां, पावापुरीं, बिहारशरीफं गन्तुः धूमशकटयानमेव उचितम् । एतेषां स्थानानां प्रवासार्थं भारतसर्वकारः।भारतसर्वकारस्य रेल्वेविभागेन बौद्धपरिक्रमा इति नाम्ना रेल् यानस्य व्यवस्था कल्पिता । एतदतिरिच्य श्रमजीवि एक्सप्रेस्, पटानराजगीर इण्टर् सिटी एक्स्प्रेस्, पटनाराजगीर् पेसेञ्जर् इत्यादीनि रेल् यानानि अत्र सञ्चरन्ति । भूमार्गेण लोकयाने अपि तानि तीर्थस्थानानि गन्तुं शक्यते । वायुमार्गस्यापि सौकर्यम् अस्ति । नवदेहलीविमाननिस्थानकतः

उल्लेखाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=महाबोधिमन्दिरम्&oldid=296703" इत्यस्माद् पुनः प्राप्तिः