सामग्री पर जाएँ

अजन्तागुहाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अजन्तागुहाः
विश्वपरम्परास्थानानि

The Ajanta Caves
राष्ट्रम् भारतम्भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः i, ii, iii, vi
अनुबन्धाः २४२
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः २०°३३′०९″उत्तरदिक् ७५°४२′०२″पूर्वदिक् / 20.552377°उत्तरदिक् 75.700436°पूर्वदिक् / २०.५५२३७७; ७५.७००४३६
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः सा.श.१९८३  (सप्तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

इतिहासः

[सम्पादयतु]

जगत्प्रसिद्धाः अजन्तागुहाः महाराष्ट्रस्य औरङ्गाबाद्नगरतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षुणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः बुद्धस्य पूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म । सर्वासु अपि कलाकृतिषु धार्मिकच्छाया परिद्दश्यते स्म् । भिक्षुभिः उपयुक्तानां वर्णादीनाम् उत्कृष्टताया: कारणतः शताधिकानां वर्षाणाम् अनन्तरम् अपि तत्रत्याः कलाकृतयः नावीन्ययुक्ताः इत्येव भान्ति । वर्णाः नशयमानाः सन्ति इति यदा लक्षितं तदा प्राचीनकलाकृतयः रक्षणीयाः एव इति महान् प्रयासः आचरितः । ब्रिटीश-आखेटकैः एताः गुहाः १८१९ तमे वर्षे अभिज्ञाताः । ईस्ट्-इण्डियाकम्पनीजनैः एतासां कलाकृतीनां प्रतिकृतिप्राप्तये प्रयासः कृते । अत्र ३० गुहाः सन्ति । तासु ५ गुहाः ‘चैत्यगृहणि’ इति निर्दिश्यन्ते । अवशिष्टाः ‘विहाराः’ ‘आश्रमाः’ इति वा निर्दिश्यन्ते । घनशिलाभ्यः एताः गुहाः उत्खाताः स्युः इति भाव्यते । प्रवेशद्वाराणि तु उत्कृष्टाभिः कलाकृतिभः विशेषतः अलङ्कृतानि द्दश्यन्ते । ‘एताः अजन्तागुहाः बौद्धमतीयायाः कलायाः अत्युत्कृष्टाश्रयभूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विवरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।

गुहादेवालयाः

[सम्पादयतु]

एल्लोरा, अजन्ता इत्यादिषु गुहादेवालयेषु स्थितानि भितिचित्राणि भवतां मनः आकृष्टवन्ति स्युः एव । कठिनासु अपि शीलासु एताः गुहाः कथं निर्मिताः स्युः इति आश्चर्यं स्यात् खलु भवताम् । भवन्तः कदाचित् वा विहाराय समुद्रतीरं गतवन्तः स्युः एव खलु ? जलक्रीडायाः अनन्तरं सिकताभिः नीडादिकं रचितवन्तः स्युः अपि । तदवसरे भवद्भिः आदौ सिकताराशिः निर्मितः स्यात् । ततः प्रकोष्ठादयः निर्मिताः स्युः सिकतानाम् अपनयनेन । एवमेव निर्मियन्ते शिलागुहाः अपि । शीलागुहासु मन्दिरस्य निर्माणम् अपि एतेनैव क्रमेण भवत् । इष्टिकायाः उपरि इष्टिकानां स्थापनं तत्र न भवति । भारते शिलाकर्तनपुरस्सरं गुहादीनां निर्माणस्य आरम्भः अभवत् २००० वर्षेभ्यः पूर्वम् । आदौ पर्वतस्थायाः शिलायाः उपरि निर्मीयमाणायाः रचनायाः बाह्यं रुपं रेखया चित्र्यते । ततः अनपेक्षितान् भागान् अपनीय रचनानिर्माणं क्रियते । आदौ ऊर्ध्वभागस्य (छ्देः) निर्माणं भवति, ततः अवशिष्टाः भागाः निर्मीयन्ते । केरलमुम्बयीप्रभृतिषु स्थलेषु द्दश्यमानाः गुहाः १९०० वर्षेभ्यः पूर्वं रचिताः । परस्पराभिमुखतया रचिताः अत्रत्याः स्तम्भाः चित्ताकर्षकाः सन्ति । अनपेक्षितान् शिलाभागान् ये अपनयन्ति ते प्रायः भवन्ति वृत्तिनिपुणाः । एवं हि विश्वस्यते यत् एल्लोरास्थं कैलासमन्दिरं निर्मितवान् शिल्पी प्रायः स्वयमपि न जानति स्म यत् मया निर्मितं मन्दिरम् एवम् अपूर्वं भवेत् इति ।

अजन्ता– उन्नतकलास्थानम्

[सम्पादयतु]

विश्वविख्यातं कलाकेन्द्रं बौद्धानां श्रेष्ठं स्थानम् अजन्तागुहासु अस्ति । बहुवर्षाणि यावत् अज्ञातमेव एवासीत् । क्रिस्ताब्दे १८१९ तमे वर्षे आङ्गलाधिकारिणः मृगयां कर्तुम् एतत्प्रदेशम् आगतवन्तः । तदा अज्ञातम् एतत्स्थलं कुतूहलकारि सञ्जातम् । अपूर्वम् एतत्स्थानं ते अधिकारिणः सम्यक् दृष्ट्वा सर्वेषा दर्शनाय व्यवस्थां कृतवन्तः । महाराष्ट्रराज्ये औरङ्गाबाद्नगरसमीपे जलगां प्रदेशस्य निकटे पर्वतप्रदेशे वने एतदपूर्वं स्थानम् अस्ति देवनिर्मिते प्रकृतिमन्दिरे मानवनिर्मितं कल्पस्थानं सौन्दर्यावासस्थानमस्ति । पूर्वं बौद्धसंन्यासिनः अत्र गुहासु मोक्षसाधनाय कार्याणि कुर्वन्तः अत्र एव निवासं कृतवन्तः । क्रमशः एकैका गुहा निर्मिता अभवत् । अत्र स्तम्भेषु द्वारेषु भित्तिषु च अपूर्वा शिल्पकलाकृतिः मनोहारिणी अस्ति । प्रायशः क्रिस्ताब्दे द्वितीये शतके तथा अष्टमे शतके निर्मितम् अद्भुतकलादर्शकस्थानम् एतदस्ति । बौद्धगुहाः अतिप्राचीनाः वर्णचित्रयुक्ताः सन्ति । आहत्य २९ गुहाः अत्र सन्ति । षट्सु गुहासु आकर्षकाणि चित्राणि रचितानि सन्ति । बौद्धपुराणविषयाः वर्णचित्रेषु दर्शिताः सन्ति । बुद्धस्य जीवनविशेषाः पूर्वजन्मकथाः (जातककथाः ) विविधरीत्या चित्रिताः सन्ति । प्रथमा गुहा प्राचीना विशिष्टा च अस्ति । अत्र सिद्धार्थस्य गृहत्यागसमयस्य चित्रणमस्ति । सिद्धार्थः पद्मपाणिः किरीटधारी च अस्ति । द्वारे एव यक्षदम्पती काशिराजनागराजस्य च चित्राणि सन्ति । प्रत्येका गुहापि भारतीयसंस्कृतेः प्रतीकास्ति । सर्वत्र प्रकृतिपूजां पश्यामः । सप्तमी गुहा बुद्धविहारः अस्ति ।१९ तम्यां गुहायां बुद्धस्य आकर्षकयुक्ताः बृहन्मूर्तयः सन्ति । गुहासुन्दरीणां केशालङ्कारः वस्त्राभरणानि मनमोहकानि सन्ति । गुहासु चित्रविषयाः जातककथाधारिताः सन्ति । अजन्तागुहासु बुद्धस्य पूजास्थाने प्रकृतिः, शिल्पकला, चित्रकला च दर्शनीयाः सन्ति । चित्रेषु जीवप्रपञ्चस्य दर्शनं भवति । वृक्षाः तरवः विकसत्कुसुमानि, विविधाः पक्षिणः, सुन्दरमृगाः, गम्भीराः गजाः, सुन्दराः अलङ्कृतमण्डपाः, गृहाणि, महाद्वाराणि, राजगृहाणि, एतेषु क्रीडन्तः ध्यानस्थाः जीवविशेषाः, एतेषां मध्ये ध्यानस्यः बुध्ददेवः दृश्यते । उत्तरभित्यां स्थितं बोधिसत्वपद्यपाणेः चित्रं विश्वे एव अतिसुन्दरचित्रमिति विख्यातमस्ति । अन्यचित्रे इम्मडिपुलकेशिः पार्सिराजदूताय राजसभाङ्गणे दर्शनं यच्छन् अस्ति । एषा चित्रशाला, चित्रकलोपासनाकेन्द्रं सौन्दर्योपासकानाम् अपूर्वं स्थानं पवित्रस्थलं चासीत् ।

वाहनमार्गः

[सम्पादयतु]

औरङ्गाबादतः १०६ कि.मी । जलगांतः ६० कि.मी । फर्दापुर समीपेऽस्ति । अत्र सोमवासरे राष्ट्रीयविरामदिनेषु च प्रवेशावकाशः नास्ति । मार्गर्दर्शकाः सन्ति । गुहासु प्रकाशः विपुलः नास्ति । अतः करदीपः (Torch) आवश्यकः ।


वीथिका

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=अजन्तागुहाः&oldid=479855" इत्यस्माद् प्रतिप्राप्तम्