सामग्री पर जाएँ

पश्चिमघट्टाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पश्चिमघट्टाः
विश्वपरम्परास्थानानि

माथेरन् पश्चिमाद्रिश्रेणिः
राष्ट्रम् भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः
क्षेत्रम् एषियापेसिफिक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.२०१२  (Unknown सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

पश्चिमघट्टाः भारतस्य पश्चिमभागे स्थिता पर्वतश्रेणी । अस्याः सह्यपर्वतम् इति अपरं नाम अस्ति । दक्षिणप्रस्थभूमौ पश्चिमदिग्भागे व्याप्तः पश्चिमघट्टप्रदेशः पीठभूमिम् अरब्बिसमुद्रस्य सूक्ष्मम् कोङ्कण प्रदेशात् पृथक करोति । महाराष्ट्र – गुजरातराज्ययोः सीमाप्रदेशे तपतीनद्याः दक्षिणे आरब्धा एषा श्रेणी दक्षिणाभिमुखं कन्याकुमारी पर्यन्तम् दृश्यते । आहत्य १६०० कि.मी यावत् व्याप्तः पश्चिमघट्टप्रदेशः महाराष्ट्रम्, गोवा, कर्णाटकम्, केरळम्, तमिळ्नाडु राज्येषु अन्तर्भवति । अर्धादधिकभागः कर्णाटकराज्ये अस्ति । पश्चिमघट्टप्रदेशः आहत्य ६०,००० च.कि.मी. प्रदेशे व्याप्तः, सङ्कीर्णनदीव्यवस्थायाः मूलं च अस्ति । अत्र सञ्जाताः नद्यः भारतस्य जलानयनप्रदेशस्य ४०% भागं प्रति जलव्यवस्थां कुर्वत्यः सन्ति । घट्टप्रदेशस्यास्य (माकिम्) सर्वसामान्यम् औनत्यम् १२०० मीटर् यावत् भवति । एषः प्रदेशः विश्वस्य अत्यन्तं सक्रियेषु जीववैविध्याश्रयेषु अन्यतमः।

भारतमानचित्रे पश्चिमपर्वतश्रेणी ॥

जीविसङ्कुलानि

[सम्पादयतु]

अत्र सहस्राधिकविधाः तरुलताः, १३९ विधाः सस्तनिनः, ५०८विधाः प्रादेशिकपक्षिणः, २५९विधाः प्रादेशिकाः द्विचरिणः च सन्ति ।एतेषां सर्वेषाम् आश्रयस्थानम् अस्ति पश्चिमघट्टप्रदेशः । जगति नाशं अनुभवत्सु जीववैविध्येषु ३२५ वंशीयाः जीविनः पश्चिमघट्टे सन्ति । पश्चिमघट्टः नैजार्थे पर्वतश्रेणी न । दक्षिणपीठभूमेः पश्चिमपरिधौ एते सन्ति । सामान्यतः १५० दशलक्षवर्षेभ्यः पूर्वम् गोण्डानामहाभूखण्डः छिद्रः अभूत् । तदा पश्चिमघट्टानाम् रचनाऽपि अभूत इति शङ्कते । घट्टप्रदेशेस्मिन् सामान्यतः दृश्यमानाः शिलास्तावत् बसाल्ट् । अस्य स्तरः भूमौ ३ कि. मी. पर्यन्तं व्याप्य तिष्ठति । एवम् अन्यः शिलाप्रकारास्तावत् ग्रानैट्, स्वोंडालैट्, लेप्टिनैट्, चार्नोकैट् इत्यादयः । उत्तरे सात्पुरश्रेणीतः आरभ्य दक्षिणे स्थितपश्चिमघट्टानां मुख्यश्रेण्यः, सह्याद्रिः, बिळिगिरिः सर्वरायन् श्रेणी , एवं नीलगिरिः । बिलिगिरिपर्वतश्रेण्यः पश्चिमपूर्वघट्टयोः सन्धिस्थाने अस्ति । पश्चिमघट्टस्य मुख्यशिखराणि साल्हेर, कळसूबाई, महाबळेश्वरः सोनसागरः, मुळ्ळय्यनगिरिः, (१९५० मी.) केम्मण्णुगुण्डि, कुटजाद्रिः, कुदुरेमुखः (अश्वमुखः) चेम्ब्र (११०० मी.), वेल्लरिमरः (१२०० मी.) बाणासुरः (२०५३ मी.) दोड्डाबेट्टा, (बृहत् गिरिः) (२६२३ मी.) आनैमुडिः (२६९५ मी.) एवं महेन्द्रगिरिः च। हिमालयस्य दक्षिणे भागे दक्षिणभारते तमिळुनाडुप्रदेशस्य आनैमुडिः अत्यन्तम् उन्नतः पर्वतः । पश्चिमघट्ट-अरब्बिसमद्रयोः मध्ये स्थितः दक्षिणतीरभूमेः उत्तरभागः कोङ्कणप्रदेशः इति प्रसिद्धः । मध्यभागः केनरा इति दक्षिणभागः मलबारप्रान्तः इति च आहूयेते । पश्चिमघट्टाः पश्चिममारुतं मध्ये अवरोधयन्ति। अतः प्रदेशः एषः अधिकर्षाधारयुक्तः भवति । घट्टप्रदेशे तथा पश्चिमसीमाप्रदेशे अत्यधिका वृष्टिः भवति । अस्याः प्राक्रियायाः प्रमुखं कारणम् अत्रत्य नित्यहरिद्वर्णकाननानि । घट्टप्रदेशेस्मिन् ऊटी(उदकमण्डलम्), कौडैक्यानल् बेरिजम् इत्यादीनि बृहत् सरोवराणि सन्ति ।

नद्यः तथा जलपाताः

[सम्पादयतु]

भारतस्य अत्यन्तं प्रसिद्धेषु सुन्दरजलपातेषु अन्यतमः अस्ति जोगजलपातः ।भारतस्य अनेकासां सार्वकालिकीनां नदीनाम् पश्चिमघट्टः एव मूलस्त्रोतः । अत्र ताम्रपर्णी, गोदावरी, कृष्णा एवं कावेरी एताः प्रमुखनद्यः । एताः प्राङ्मुखा: प्रवहन्ति । पश्चिमाभिमुखगामिन्यः नद्यः वेगेन प्रवहन्ति तासां व्याप्तिरपि अल्पा । माण्डवी, जुवारी , शरावती नेत्रावती एतासु प्रमुखाः । वेगेन प्रवहन्ति इत्यतः एताः अनेकजलविद्युत्योजनानाम् आधारभूताः । विद्युत् योजनार्थं अनेके जलबन्धाः निर्मिताः सन्ति। । तेषु खोपोलि कोयना, लिङ्गनमक्की तथा परम्बिकुलं योजनाः प्रमुखाः । भारतस्य अत्यन्तं प्रसिद्धेषु सुन्दरजलपातेषु अन्यतमः अस्ति जोगजलपातः ।अत्रत्यजलपातेषु उञ्चळ्ळीजलपातः (लुषिंगूटन्) कुञ्चिकल्, मेन्मुट्टी, एवं शिवनसमुद्रजलपातः प्रमुखाः प्रसिध्दाश्च ।

वायुगुणः, वर्षाप्रमाणं च

[सम्पादयतु]

पश्चिमघट्टे उष्णवलयस्य वायुगुणः भवति । अत्युन्नतप्रदेशेषु समशीतोष्णवायुगुणः दृश्यते । घट्टप्रदेशे सर्वसाधारण-उष्णमानः तावत् उत्तरे २४० सेलिसियस्, दक्षिणे २८० से. केषुचित् भागेषु शैत्यकाले रात्रेःतापमानः ०० सेल्सियस् भवति । जूनमासतः सप्टेम्बर्मासपर्यन्तम् अत्र सर्वसामान्या वर्षा तावत् ३००० तः ४००० मी. मी. कर्णाटकस्य केषुचित् भागेषु ९००० मी. मी. यावत् वर्षा भवति । कर्णाटकस्य आगुम्बेप्रदेशः भारतस्य अत्यधिकवर्षाधारायाः प्रदेशेषु अन्यतमः ।

अरण्यवलयाः जीववैविध्यानि च

[सम्पादयतु]

जीववैविध्यस्य स्त्रोतः इति ख्यातं पश्चिमघट्टस्य अरण्यं चतुर्विधवलयान् भजते। • उत्तरपश्चिमघट्टस्य पत्रमोचन-अरण्यानि • उत्तरपश्चिम घट्टानां वर्षारण्यानि • दक्षिणपश्चिमघट्टस्य पत्रमोचन-अरण्यानि • दक्षिणपश्चिमघट्टस्य वर्षारण्यानि

पश्चिमघट्टानाम् उत्तरभागः सामान्यतः दक्षिणभागापेक्षया न्यूनां वर्षाम् आप्नोति । अतः अधिकशुष्कतां अनुभवति । १००० मी. तः निम्नोन्नते स्थितानि पत्रविमोचन- अरण्यानि अतिपत्रवृक्षैः(Teak) पूर्णानि सन्ति । ततोप्यधिके उन्नतप्रदेशे नित्यहरिद्वर्णारण्येषु लारेसीकुटुम्बस्य वृक्षान् अधिकतया पश्यामः । पश्चिमघट्टस्य दक्षिणभागस्य प्रदेशाः अधिकतया कुल्लेनियावंशस्य वृक्षैःपूर्णाः सन्ति । तैः साकम् अतिपत्रवृक्षाः डिप्टेटोकार्प्स्, इत्यादयः वृक्षाः अपि वर्तन्ते ।

अरण्यसंरक्षणम्

[सम्पादयतु]

पश्चिमघट्टः सामान्यतः समृध्दकाननयुक्तः दुर्गमप्रदेशः आसीत् । ब्रिटिशजनानाम् आगमनानन्तरं महता प्रमाणेन अरण्यानि छित्त्वा वाणिज्यकृषिम् आरब्धवन्तः । अनेन पश्चिमघट्टस्य बहुभागः कृषिभूमिरभवत् । पश्चिमघट्टः भारतस्य भूभागस्य ५% भागं केवलं यावत् आवृत्त्य स्थिताः सन्ति तथापि देशस्य २७% भागादपि अधिकप्रमाणेन उन्नतवर्गियसस्यानि अत्रैव सन्ति । जगति अन्यत्र कुत्रापि द्रष्टुं दुर्लभानि ८४ जातेः द्विचरः अत्र सन्ति । १६ प्रकारकाः पक्षिणः, ७ विधाः सस्तनिनः, १६०० पुष्पसस्यानि अत्र सन्ति । अस्मिन् प्रदेशे १३ राष्ट्रिय-उद्यानानि , २ संरक्षितजीवारण्यकवलयौ च घोषितानि सन्ति । तेन साकम् अनेकानि रक्षितारण्यानि , वन्यजीविधामानि अपि सर्वकारेण उद्घुष्टानि सन्ति । एतानि तत्तत् राज्यस्य अरण्यविभागस्य अधीने कार्यं कुर्वन्ति । तादृशेषु नीलगिरिसंरक्षितजीववलयः अन्यतमः । अस्मिन् ५५०० च. कि. मी. विस्तीर्णवति वलये, कर्णाटकस्य नागरहोळेराष्ट्रिय-उद्यानम् बण्डिपुर- राष्ट्रिय-उद्यानम्, एवं नुगुप्रदेशस्य अरण्यं, केरळराज्यस्य वयनाड्, तथा तमिळ्नाडुराज्यस्य मुदुमलैराष्ट्रिय-उद्यानम् च अन्तर्भवति । एष जीवगोलः पश्चिमघट्टस्य अतिविस्तृतः एकैकः संरक्षितप्रदेशः । केरळस्य सैलेण्ट् व्याली राष्ट्रिय- उद्यानम् भारते मानवाक्रमणरहितम् अन्तिमम् नित्यहरिद्वर्णभरितम् उष्णवलयस्य काननम् । २००६ तमे वर्षे पश्चिमघट्टं विश्वपरम्परायाः स्मारकस्थानरूपेण घोषणार्थम् आवेदनं कृतम् अस्ति । अतः एषः प्रदेशः सप्तधा विभक्तः अस्ति ।

  • • अगस्त्यमलै उपविभागः ।
  • • पेरियार् उपविभागः ।
  • • आनमलै उपविभागः ।
  • • नीलगिरि उपविभागः।
  • • तलकावेरी उपविभागः।
  • • कुदुरेमुख उपविभागः।
  • • सह्याद्रि उपविभागः।

पश्चिमघट्टस्थाः प्रमुखाः कतिचन पर्वताः अत्र निर्दिष्टाः सन्ति ।

उच्चाङ्कःनामऔन्नत्यम्(मी)स्थाननिर्देशः
०१आनमुडी२६९५एरविकुलम् ,राष्ट्रिय-उद्यानम्, केरळम्
०२मीसपुळिमल२६४०मुन्नार्, केरळम्
०३दोड्डबेट्ट२६३७ऊटी, तमिळ्नाडु
०४कोडैक्यानल्२१३३कोडैक्यानल्, तमिळ्नाडु
०५.चेम्ब्रशिखरम्२१००वैनाड्, केरळम्
०६मुळ्ळय्यनगिरिः१९३०चिक्कमगळूरु, कर्णाटकम्
०७.चन्द्रदोणपर्वतः१८९५चिक्कमगळूरु, कर्णाटकम्
०८कुद्रेमुखम्१८९४चिक्कमगळूरु, कर्णाटकम्
०९अगस्त्यगिरिः१८६८नेय्यर् वैल्ड् लैफ़् स्याञ्चुचुरी, केरळम्
१०बिळिगिरिरङ्गनबेट्ट१८००चामराजनगरमण्डलम्,कर्णाटकम्
११तडियाण्डमोल्पर्वतः१७४८कोडगुमण्डलम्, कर्णाटकम्
१२कुमारपर्वतः१७१२दक्षिणकन्नडमण्डलम्, कर्णाटकम्
१३पुष्पगिरिः१७१२पुष्पगिरि वैल्ड् लैफ़् स्याञ्चुरी, कर्णाटकम्
१४कळ्सूबायी१६४६अहमद् नगर, महाराष्ट्रम्
१५ब्रह्मगिरिः१६०८कोडगुमण्डलम्, कर्णाटकम्
१६मडिकेरीपर्वतः१५२५कोडगुमण्डलम्, कर्णाटकम्
१७.हिमवद्गोपालस्वामिपर्वतः१४५०चामराजनगरमण्डलम्, कर्णाटकम्
१८.तोरभदुर्गः१४०५पुणे, महाराष्ट्रम्
१९पुरन्दरदुर्गः१३८७पुणे,महाराष्ट्रम्
२०.कुटजाद्रिः१३४३शिवमोग्गामण्डलम्, कर्णाटकम्

प्राणिसङ्कुलः

[सम्पादयतु]

पश्चिमघट्टः सहस्रशः प्राणिवंशानां मूलस्थानम् अस्ति । प्रपञ्चे विनाशस्य अञ्चले विद्यमानेषु ३२४ वंशीयाः प्राणिसङ्कुलाः अत्र विद्यन्ते । अत्रत्याः अनेके प्राणिसङ्कुलाः विशालव्याप्तिमन्तः सन्ति । आहत्य १३९ विधाः सस्तनिनः पश्चिमघट्टे सन्ति । तेषु अवसानस्य अञ्चले स्थितः मलबारमहानक्षत्रचिह्नवान् अरण्यमार्जालः, सिङ्गळिकनामकः कृष्णमुखी वानरः च सन्ति । सिंगळिकाः अद्य सैलेन्ट् व्यालीप्रदेशे तथा कुदुरेमुख-राष्ट्रिय-उद्याने एव सन्ति । नीलगिरिजीववलयः एषियाखण्डस्य गजानां बृहत् स्थानम्। प्राजेक्ट् एलिफण्ट् एवं प्राजेक्ट् टैगर् (व्याघ्र-संरक्षण-योजना) योजनायाः केन्द्रम् । कर्णाटकस्य घट्टाः ६००० गजानां तथा देशे विद्यमानानां १०% व्याघ्राणाम् आवासस्थानमस्ति । सुन्दरबनम् विहाय भारते अत्यधिकसंख्याकाः व्याघ्राः कर्णाटके, केरळे तमिळ्नाडुराज्ये च सन्ति । बण्डिपुरम्, एवं नागरहोळे-उद्याने अरण्यमहिषीनां बृहत् समूहं द्रष्टुं शक्नुमः । कूर्गप्रदेशस्य कानने नीलगिरिलङ्गुरजातेः कपयः गणनीयसंख्यया दृश्यन्ते। भद्रा-अभयारण्ये इण्डियन् मुण्टजाक्जातीयाः वानराः दृश्यन्ते । एतदतिरिच्य सम्बारमृगाः, भल्लूकाः, शार्दूलाः, अरण्यसूकरादयः केरळे तथा कर्णाटकस्य पश्चिमघट्टे सामान्यतया दृश्यन्ते। कर्णाटकस्य दाण्डेल्यां तथा अणशी-राष्ट्रिय-उद्याने कृष्णव्याघ्रः तथा ‘ग्रेट् इण्डियन् हार्नबिल्’ जातेः पक्षिणः निवसन्ति । भीमगडस्य वन्यजीविधाम्नि अपायस्य अञ्चले स्थितः ‘राटन्स् फ्रीटैल्ड् व्याट्’ इति वर्गस्य जतुकाः सन्ति । युरोपेल्टिडे कुटुम्बस्य उरगाः पश्चिम घट्टे एव द्रश्यन्ते ।

मुन्नारस्य चायपत्रवाटिका
"https://sa.wikipedia.org/w/index.php?title=पश्चिमघट्टाः&oldid=444120" इत्यस्माद् प्रतिप्राप्तम्