देवरायनदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(देवरायनदुर्गः इत्यस्मात् पुनर्निर्दिष्टम्)
देवरायनदुर्गम्
ग्रामः
देवरायनदुर्गम्
देवरायनदुर्गम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् तुमकूरु
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
572 146
दूरवाणीकूटसंख्या 0816
Vehicle registration KA-06
योगनरसिंहस्वामीदेवालयः, देवरायनदुर्गम्

देवरायनदुर्गम् (Devarayanadurga) कर्णाटकस्य तुमकूरुमण्डले स्थितं गिरिदुर्गं पवित्रस्थानं च । अस्य अष्टसु दिक्षु गिरिपंक्तयः सन्ति । अस्य पौराणिकं नाम करिगिरिक्षेत्रम् । प्रथमपर्वतस्य समतलप्रदेशे दुर्वासमुनिना प्रतिष्ठितः श्रीभोगनरसिंहः अथवा लक्ष्मीनरसिंहदेवालयः, अन्यस्मिन् पर्वते योगनरसिंहमन्दिरं च स्तः । योगनरसिंहस्य कुम्भिनरसिंहः इति नाम अस्ति । अत्र एकस्यां गुहायां पारतीर्थम् इति जलस्थानमस्ति । रामतीर्थं धनुषतीर्थं च जलस्य स्रोतसी स्तः । इतोऽपि अग्रे चिक्कगरुडनगुडि, दिविगेगुण्डु, शिंषामूलं, जयमङ्गलीमूलं च सन्ति अन्यस्मिन् पर्वताग्रे नमस्कारभङ्गौ स्थितस्य सञ्जीवरायस्वामिनः मन्दिरम् अस्ति । सानुप्रदेशे ’नामदचिलुमे’ इति पवित्रतीर्थम् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=देवरायनदुर्गम्&oldid=360975" इत्यस्माद् प्रतिप्राप्तम्