पट्टदकल्लुस्मारकसमूहः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पट्टदकल्लुस्मारकसमूहः
विश्वपरम्परास्थानानि

विरूपक्षमन्दिरम्
राष्ट्रम् भारतम्भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः iii, iv
अनुबन्धाः २३९
क्षेत्रम् एषियापेसिफिक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८७  (एकादशं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

पट्टदकल्लुस्मारकसमूहः (Pattadakal) भारतदेशस्य कर्णाटकराज्यस्य प्रेक्षणीयस्थलेषु अन्यतमः । हैन्दवदेवालयस्य शिल्पकलायाः सर्वप्रथमादर्शभूतः देवालयः पट्टदकल्लु । दक्षिणोत्तरभारतयोः शैली अत्र सम्मिश्रा अस्ति । पट्टदकल्लु कञ्चित्कालं चालुक्यवंशस्य दक्षिणभारतराजधानी आसीत् । अस्य वंशस्य राजानः सप्तम-अष्टमशतकयोः अत्र मन्दिराणि निर्मितवन्तः । अत्र नव मुख्यदेवालयाः कश्चित् जैनदेवालयः च अस्ति । सर्वप्रसिद्धः विरूपक्षदेवालयः क्रि.श. ७४०तमे वर्षे लोकमाहादेव्या निर्मितः । अयं देवालयः चालुक्यराजस्य जैत्रयात्रायाः स्मरणाय निर्मितः । अस्मिन् मन्दिरसमूहे मल्लिकार्जुनमन्दिरं, पापनाथमन्दिरञ्च विद्यते । अयं मन्दिरसमूहः क्रि.श. १९८७तमे वर्षे विश्वपरम्परास्थानस्य आवल्याम् अन्तर्गतः ।

शिल्पवैभवम्[सम्पादयतु]

अत्रस्थाः शिल्पविशेषाः प्लेन्स्सङ्ग्रहालये शिल्पवीथिकायां च सुरक्षिताः सन्ति । एतेषां सङ्ग्रहालयानाम् अनुरक्षणं भारतीयपुरातत्त्वसर्वेक्षणविभागः करोति यश्च कार्यालयः भूतनाथमन्दिरस्य मार्गे अस्ति । एतदतिरिच्य नागनाथमन्दिरम्, चन्द्रशेखरमन्दिरम्, महाकूटेश्वरदेवालयः इत्यादिषु अन्यमहत्त्वपूर्णस्मारकेषु अपि शिलालेखाः सन्ति । वर्षारम्भस्य दिनत्रये अत्र वार्षिकः नृत्योत्सवः भवति यः चालुक्योत्सवः इत्येव प्रसिद्धः । अस्य कार्यक्रमस्य आयोजनं न केवलं पट्टदकल्लुपत्तने अपि च बादामी ऐहोळे इत्यादिषु अपि भवति । उत्सवस्य एतेषु त्रिदिनेषु सङ्गीतनृत्यासक्तानां सागरः एव अत्र भवति । उत्सवमञ्चस्य मन्दिराणां वैभवपूर्णा पृष्टभूमिका परिणतैः कलाकारैः क्रियते । ते गतेतिहासस्य पुनरुज्जीवनम् एव कुर्वन्ति ।

बाह्यानुबन्धः[सम्पादयतु]