खजुराहो

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
खजुराहो
विश्वपरम्परास्थानानि

खुजुराहोमन्दिरम्
राष्ट्रम् भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः २४०
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः i, iii
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८६  (दशमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

खजुराहो (हिन्दी: खजुराहो, आङ्ग्ल: Khajuraho) भारतस्य मध्यप्रदेशस्य छतरपुरमण्डले स्थितं नगरम् अस्ति यत् स्वस्य प्राचीनानां मध्यकालीनानां मन्दिरणां विषये विश्वविख्यातम् । एतत् स्थानं मध्ययुगे क्रिस्ताब्दे ९५० तः १६५० पर्यन्तं बुन्देलखण्डे प्रशासनं कृतवतां चन्देलराजपुत्राणां राजधानी आसीत् । देवालयानां केन्द्रम् अपि आसीत् । अत्र आहत्य ८५ देवालयाः आसन् इति चीनीप्रवासी ह्यू येन् त्स्याङ्ग् स्वपुस्तके लिखितवान् अस्ति । इदानीं विंशतिदेवालयाः सन्ति ।

सर्वधर्मसमन्वयकेन्द्रमेतत् । शैव-वैष्णव-जैन-बौद्धानां मन्दिराणि अत्र सन्ति । सर्वाणि मन्दिराणि अपूर्वाणि कलात्मकानि दर्शनीयानि च सन्ति । स्वयमपूर्णाः उत्तमवास्तुकलायुक्ताः देवालयाः इदानीमपि मनमोहकाः सन्ति ।

देवालयात् बहिः भित्तौ अलङ्करणं देवालयस्य सौन्दर्यवर्धकमस्ति । अत्र देवाः, प्राणिनः, सैनिकाः, सङ्गीतवादकाः, गायकाः, मिथुनशिल्पानि इण्डो-आर्यन्- शैल्या रचितानि सन्ति । देवालयेषु लक्ष्मणदेवालयः, लक्ष्मीः-वराहः- महादेवः- जगदम्बादेवालयाः पश्चिमभागे सन्ति । चित्रगुप्तदेवालयः सूर्याय अर्पितः अस्ति । अत्र नर्तक्यः, मृगयादृश्यम् इत्यादीनि अपूर्वाणि शिल्पानि सन्ति । गर्भगृहे सप्ताश्वरथम् चलयतः सूर्यस्य शिल्पम् आकर्षकम् अस्ति ।

एकादशशिरस्कः श्रीहरिविग्रहः अत्र विशिष्टः अस्ति । मध्ये विद्यमानं शिरः विष्णोः अस्ति । इतराणि दशावतारस्य शीर्षाणि सन्ति । महादेवमन्दिरे त्रिपट्टिकास्तरेषु देवतामूर्तयः, सुन्दरस्रियः, सङ्गीतज्ञाः मिथुनशिल्पानि च चित्रितानि सन्ति । बृहन्नन्दी अपि आकर्षकः अस्ति । दशमे शतके अस्य निर्माणम् अभवत् । लक्ष्मणदेवालयस्य पार्श्वे मतङ्गेश्वरदेवालये अष्टपादोन्नतं शिवलिङ्गं द्रष्टुं शक्नुमः । देवालयसङ्कीर्णात् बहिः एषः देवालयः अस्ति ।

देवालयावरणे एव वस्तुसङ्ग्रहालयः अस्ति । तत्र नर्तनगणेश- हरिहर-भूवराह- शेषशायिविष्णुः-बुद्धः-अप्सर-सदाशिव-मौनीहरीत्यादयः विग्रहाः सन्ति । कन्दर्यमहादेवदेवालयः भारतीयशिल्पकलाद्योतकः अतीवसुन्दरःच अस्ति । गोपुर ११ मीटर मितोन्नत’ अत्र ८७२ विग्रहाः सन्ति । शिखरम् अतीव सुन्दरम् अस्ति । पूर्वभागे पार्श्वनाथ-आदिनाथ-शान्तिनाथानां मन्दिराणि सन्ति । पार्श्वनाथमन्दिरे स्थितानि शिल्पानि बेलूरुशिलाबालिकासदृशानि सन्ति । दक्षिणभागे चतुर्भुजदेवालयः अस्ति ।

प्राचीनकाले अस्य नगरस्य खर्जूरपुरम् अथवा खर्जूरवाहिका इति नाम आसीत् । अत्र अधिकसङ्ख्यया हैन्दवानां जैनानां च मन्दिराणि सन्ति । समग्रे विश्वे शिलानिर्मितमन्दिराणां विषये खुजुराहो नगरं प्रसिद्धम् । अत्रस्थम् अप्रतिमं प्रेमकलावैभवम् अनुभवितुं न केवलं भारतीयाः वैदेशिकाः पर्यटकाः अपि निरन्तरम् आगच्छन्तः भवन्ति । कुशलाः शिल्पिनः स्थपतयः मध्यकाले च सनातनसंस्कृतिं शिल्पकलामाध्यमेन अत्र शिलासु उदकारीन् । रतिक्रीडायाः विविधानि आसनानि अत्र शिल्पेषु चित्रितानि ।

इतिहासः[सम्पादयतु]

खुजुराहो शिल्पवैभवस्य इतिहासः सहस्राधिकवर्षेभ्यः पूर्वतनः । एतन्नगरं चन्देलसाम्राज्यस्य प्रथमा राजधानी आसीत् । चन्देलवंशस्य खुजुराहोनगरस्य च संस्थापकः चन्द्रवर्मा राजा यः बुन्देलखण्डस्य प्रशासिता राजपुत्रवंशस्य (रजपुत्) राजा आसीत् । सः आत्मानं चन्द्रवंशीयराजः इति मन्यते स्म । एते राजानः दशमशतकात् एकादशशतकपर्यन्तं मध्यभारते प्रशासनम् अकुर्वन् । खुजुराहोमन्दिराणां निर्माणं क्रि.श. ९५०तः क्रि.श. १०५०तमवर्षमध्ये चन्देलराजैः कृतम् । मन्दिरनिर्माणस्य पश्चात् चन्देलराजाः राजधानीं महोबानगरान्तरम् अकुर्वन् । तथापि खुजुराहो महत्त्वं रक्षितम् एव अभवत् । मध्यकालीनः आस्थानकविः चन्द्रवरदायी इत्याख्यः पृथ्वीराज रासो इति काव्ये चन्देलवंशस्य उत्पत्तेः कथावर्णनं कृतवान् । एषः तत्र लिखितवान् यत् वाराणस्याः राजपण्डितस्य पुत्री हेमवती अपूर्वसौन्दर्यस्य स्वामिनी आसीत् । कदाचित् ग्रीष्मकालस्य रात्रौ सा कमलपुष्पैः पूर्णे सरसि स्नानं कुर्वती आसीत् ।

तस्या अनुपमं सौन्दर्यं दृष्ट्वा भगवान् चन्द्रः तस्याम् अनुरक्तः अभवत् । सः मानवरूपेण अवतीर्य हिमवत्याः अपहरणम् अकरोत् । एकपुत्रवती सा हेमवती दौर्भाग्येन विधवा आसीत् । सा चन्द्रदेवस्य उपरि जीवनं मानं च नाशितवान् इति आक्षेपं कृतवती । स्वापराधात् पश्चात्तपम् अनुभवन् चन्द्रदेवः वीरपुत्रजननी भव इति हेमवत्यै वरमेकम् दत्त्वा एवम् अवदत् "तं पुत्रं खर्जूरपुरं नयतु । तत्र सः महान् राजा भविष्यति, राजा भूत्वा उद्यानैः सरोभिः परिवृतानानां मन्दिराणां निर्माणं करिष्यति । पश्चात् कस्यचित् महायज्ञस्य आयोजनं करिष्यति येन भवत्याः सर्वपापनि क्षयं गमिष्यन्ति" इति । चन्द्रस्य निदेशनम् अनुसरन्ती हेमवती गृहं त्यक्त्वा कुग्राममेकं गत्वा पुत्रं प्रसूतवती । हेमवत्याः पुत्रः चन्द्रवर्मा स्वपित्रा समं तेजस्वी शूरः शक्तिशाली अभवत् । सप्तदशे वयसि शस्त्रैः विना सिंहं व्याघ्रं च हन्तुं शक्नोति स्म । पुत्रस्य अप्रतिमं शौर्यं दृष्ट्वा हेमवती चन्द्रदेवस्य आराधनम् आरभत । भक्त्या प्रसन्नः चन्द्रदेवः चन्द्रवर्मणे [[स्पर्शमणिः|स्पर्शमणिम्] (अनेन मणिना स्पर्शमात्रेणैव अन्यलोहाः स्वर्णायन्ते ।) उपहाररूपेण दत्त्वा खुजरहोनगरस्य राजानम् अकरोत् । चन्द्रवर्मा अनेकेषु युद्देषु निरन्तरं जयम् अवप्नोत् । एषः कालिन्दरप्रदेशे दीर्घं कोटं निर्मितवान् । मातुः आशयानुसारं खुजुराहोप्रदेशे सरोभिः उद्यानैः च परिवृतानि ८५मन्द्रिराणि निर्मितवान् । कञ्चित् यज्ञम् अनुष्ठितवान् येन माता पापमुक्ता अभवत् । तस्य उत्तराधिकारिणः राजनः अपि तत्र मन्दिराणां निर्माणम् अकुर्वन् ।

दर्शनीयस्थानानि[सम्पादयतु]

पश्चिममन्दिरसमूहः[सम्पादयतु]

यदा आङ्ग्लेयः अभियन्ता टि.एस्.बर्ट् इत्येषः खुजुराहोस्थाने मन्दिराणां विशालं समूहमेकम् अन्विष्टवान् तदारभ्य अस्य पश्चिममन्दिरसमूहः इति ख्यातिः प्राप्ता । एतत् खुजराहोप्रदेशस्य अत्याकर्षकस्थानेषु अन्यतमम् अस्ति । एतत् स्थानं युनेस्को संस्थया क्रि.श. १९८६तमे वर्षे विश्वपरम्परास्थानम् इति उद्घुष्टम् । अस्य ताप्तर्यं यत् अस्य उद्धारस्य संरक्षणस्य दायित्वं समग्रविश्वस्य इति । शिवसागरनद्याः समीपे स्थितस्य अस्य स्थानस्य दर्शनेन एव पर्यटकानां यात्रा आरभ्यते । अत्र प्रवेशार्थं निश्चितशुल्कधनम् अर्पणीयं भवति । सैकल्यानेन सञ्चरन् खुजुराहोस्थानि मन्दिराणि दृष्टुं सौकर्यं भवति । अत्र प्रतिहोरा २०रूप्यकस्य भाटकेन सैकल्यानं लभ्यते । अस्मिन् परिसरे विशालमन्दिराणाम् अलङ्कारः अधिकः एव कृतः । इयं सज्जात अत्रत्यानां प्रशासकराजानां सामर्थ्यं प्रकटयति । एवम् अत्र तैः राजभिः सनातनदेवतानां विषये प्रकटितः भक्तिभावः इति इतिहासकाराणाम् अभिप्रायः । देवकुलस्य चित्रेषु विष्णुः अथवा शिवः प्रदर्शितः । अस्मिन् परिसरे स्थितं लक्ष्मणमन्दिरम् उन्नतस्तरस्य मन्दिरम् अस्ति । अत्र भगवान् विष्णुः वैकुण्ठे इव उपविष्टः अस्ति । षट्पादपरिमितोन्नतस्य विष्णुविग्रहस्य मुखत्रयम् अस्ति । तत्र एकं मनुष्यशिरः एकं सिंहशिरः, अपरं वराहशिरः । एषः विग्रहः काश्मीरस्य चम्बाकन्दरतः आनीतः इति लोकविश्वासः । अस्य विग्रहस्य दक्षिणपार्श्वे सामान्यजनजीवनस्य प्रतिदिनव्यवहारस्य गृहस्थजीवनस्य नर्तकानां च चित्राणि उत्कीर्णानि । मन्दिरस्य प्रधानवेदिकायाः चत्वाराः सहायकमञ्चाः सन्ति । एते क्रि.श. ९५४तमे वर्षस्य तान्त्रिकतायुत्तः देवलयाः । अस्य अग्रभागः द्विविधमूर्तिकलाभ्याम् अलङ्कृतः । मध्यभागः आलङ्गितमिथुनस्य शिल्पेन अलङ्कृतः । मन्दिरस्य पुरतः द्वे लघुवेदिके स्तः । एका देव्यै अपरा वराहाय च समर्पिता । बृहद्वाराहमूर्तिः एकयैव पीतशिलया निर्मिता अस्ति ।

वराहमन्दिरम्[सम्पादयतु]

लक्ष्मणमन्दिरम्[सम्पादयतु]

कन्दर्यमहादेवमन्दिरम्[सम्पादयतु]

खुजुराहोपश्चिममन्दिरसमूहे विशलतमः देवालयः कन्दर्यमहादेवालयः । एतन्मन्दिरं स्वस्य भव्यातार्थं प्रसिद्धम् । राजा महाचन्देलः महम्मदगज़नीं विरुध्य सङ्ग्रामे जयं प्राप्य तस्य स्मरणार्थं क्रि.श. १०५०तमे वर्षे अस्य देवालयस्य निर्माणं कृतवान् । तान्त्रिकसमुदायं प्रसन्नं कर्तुम् अस्य शैवमन्दिरस्य निर्माणं कृतम् । अस्य कन्दर्यमहादेवमन्दिरस्य औन्नत्यं सामान्यतः १०७पादपरिमितम् अस्ति । मकरतोरणम् अस्य वैशिष्ट्यम् । मन्दिरस्य अमृतशिलालिङ्गे अत्यधिकोर्जायुतं मिथुनम् अस्ति । अलेग्साण्डर् कनिङ्घम् इति पर्यटकस्य अवलोकनानुसारम् अत्र अत्यधिकसङ्ख्यायां मिथुनशिल्पानि सन्ति । एषः मन्दिरात् बहिः ६४६मिथुनाकृतयः, मन्दिरस्य अन्तः २४६ मिथुनाकृयः सन्तीति गणनाम् अवदत् ।

सिंहमन्दिरम्[सम्पादयतु]

एतन्मन्दिरं कन्दर्यमहादेवस्य देव्याः मन्दिरस्य च मध्ये निर्मितम् अस्ति ।

जगदम्बादेवीमन्दिरम्[सम्पादयतु]

कन्द्ररियामहादेवस्य मन्दिरवेदिकायाः उत्तरभागे देव्याः जगदम्बायाः मन्दिरम् अस्ति । अस्य मन्दिरस्य निर्माणं क्रि.श. १०००तः क्रि.श. १०२५तमवर्षाणां मध्ये अभवत् । तदा एतत् विष्णुमन्दिरम् आसीत् । शताधिकवर्षाणां पश्चात् छतरपुरस्य महाराजः अस्यां देव्याः पार्वत्याः प्रतिमां प्रतिष्ठापितवान् । तदारभ्य एतत् देव्याः जगदम्बायाः मन्दिरम् इति प्रसिद्धम् । अत्रस्थेषु मिथुनशिल्पेषु गाढसंवेदनशीलता दृश्यते इति विशेषः । एतन्मन्दिरं शार्दूलानां काल्पनिकचित्रणार्थं प्रसिद्धम् अस्ति । अत्र शार्दूलः नाम शरीरं व्याघ्रस्य मुखं हस्तिनः अथवा वराहस्य भवति ।

सूर्यमन्दिरम्[सम्पादयतु]

खुजुराहोसूर्यमन्दिरस्य नाम चन्द्रगुप्तमन्दिरम् इति । अयं मन्दिरसमूहमञ्चे विद्यमानः चतुर्थः देवालयः । अस्य निर्माणं राज्ञः विद्याधरस्य काले अभवत् । अस्मिन् देवालये षट्पादपरिमितः सकवचः सूर्यविग्रहः अस्ति । अत्र सूर्यप्रतिमा सप्ताश्वरथे स्थापिता अस्ति । अत्र मन्दिरस्य शिल्पेषु मूर्तिकारः कश्चित् आसन्दे उपविष्टः इव चित्रितः अस्ति इति विशेषः । मन्दिरस्य दक्षिणपार्श्वस्य भित्तौ महाविष्णोः एकादशीर्षयुक्तः विग्रहः अस्ति । उद्यानस्य मार्गे पूर्वस्यां दिशि पार्वत्याः मन्दिरं तिष्ठति । अयं लघुदेवालयः पूर्वं विष्णोस्स्थानम् आसीत् । छतरपुरस्य महाराजः प्रतापसिंहः क्रि.श. १८४३तः क्रि.श. १८४७तमवर्षाणां मध्ये निर्मितवान् । अत्र गोधावाहनवत्याः पार्वत्याः प्रतिमा अस्ति । अस्य पार्वतीमन्दिरस्य दक्षिणदिशायां विश्वनाथमन्दिरम् अस्ति । एतत् खुजुराहोस्थानस्य अतिविशालं मन्दिरम् । अस्य मन्दिरस्य देवः भगवान् शङ्करः । क्रि.श. ९९९तमे वर्षे राजा धङ्गः निर्मितवान् । अस्मिन् मन्दिरे किञ्चित् शिवलिङ्गम्, पत्रं लिखन्तीनां सङ्गीतं कुर्वतीनाम् अप्सरसां चित्राणि सन्ति ।

विश्वनाथमन्दिरम्[सम्पादयतु]

शैवमन्दिरेषु अत्यन्तं महत्वपूर्णं विश्वनाथमन्दिरम् । अस्य निर्माणः क्रि.श. १००२-१००३वर्षयोः अभवत् । पश्चिमदेवालयसमूहेषु विद्यमानस्य अस्य मन्दिरस्य सौन्दर्यम् अनुपमम् अस्ति । मन्दिरस्य दैर्घ्यं ८९पादपरिमितं, विस्तीर्णः ४५वर्गपादपरिमितं चास्ति । पञ्चायतनशैल्या निर्मितः प्रासादः शिवभगवते समर्पितः अस्ति । गर्भगृहे शिवलिङ्गेन सह मध्यभागे नन्दीवाहनस्य शिवस्यापि मूर्तिः प्रतिष्ठापिता ।

नन्दीमन्दिरम्[सम्पादयतु]

विश्वनाथमन्दिरस्य पार्श्वे स्थितः नन्दिदेवालयः ।

पार्वतीमन्दिरम्[सम्पादयतु]

ध्वनिप्रकाशकार्यक्रमः[सम्पादयतु]

अस्मिन् मन्दिरपरिसरे सायम् अमिताभ बच्चन् द्वारा निर्मितः ध्वनिप्रकाशकार्यक्रमः प्रचलति । एतत् चित्रप्रदर्शनं खुजुराहोपूर्वेतिहासं जीवितं करोति । प्रवेशशुल्कं दत्त्वा पर्यटकः एतस्य कार्यक्रमस्य आनन्दम् अनुभवितुं शक्नोति । सेप्टम्बर् तः फेब्रवरीमासपर्यन्तम् सायं ७वदनतः ८वादनपर्यन्तम् अयं कार्यक्रमः आङ्ग्लभाषया भवति । पश्चात् प्रदर्शनं हिन्दीभाषया भवति । मार्चतः आगस्ट् पर्यन्तं प्रथमप्रदर्शनं हिन्दीभाषया भवति पश्चात् आङ्ग्लभाषया च ।

पूर्वमन्दिरसमूहः[सम्पादयतु]

पूर्वसमूहः द्विधा असमसमूहेन विभक्तः । यस्य उपस्थितिः अद्यतनीयगान्धिवर्गतः आरप्स्यते । अस्याः श्रेण्याः प्रथमचत्वारि मन्दिराणि प्राचीनखुजुराहोग्रामस्य समीपे सन्ति । द्वितीये समूहे जैनमन्दिरम् अस्ति यत् ग्रामस्य शालायः पृष्ठभागे स्थितम् । ग्रामस्य अन्यस्मिन् अन्त्यभागे स्थितं मन्दिरं दृष्ट्वा परिभ्रमणस्य आरम्भः भवति । समीपे एव वामनस्य जायरीमन्दिरं च दर्शनीये स्तः । क्रि.श. १०५०तः क्रि.श. १०७५वर्षमध्ये महाविष्णोः अवतारेषु अन्यतमस्य वामनस्य मन्दिरनिर्माणः कृतः । समीपे एव जयरीमन्दिरम् अस्ति यस्य निर्माणं क्रि.श. १०७५तः क्रि.श. ११००तमवर्षमध्ये अभवत् इति जनविश्वासः । एतन्मन्दिरम् अपि भगवतः विष्णोः अस्ति । एतयोः मन्दिरयोः समीपमेव भगवतः ब्रह्मणः मन्दिरम् अस्ति । अस्य निर्माणं क्रि.श. ९२५तमवर्षे अभवत् । अत्र चत्वारिमुखस्य लिङ्गम् अस्ति । अत्र ब्रह्मा शिवलिङ्गरूपेण स्थितः अस्ति ।

वामनमन्दिरम्[सम्पादयतु]

जवरीमन्दिरम्[सम्पादयतु]

जैनमन्दिराणि[सम्पादयतु]

एताणि जैनमन्दिराणि एकस्मिन् एव आवरणे अस्ति । जैनमतस्य दिगम्परपथस्य अनुयायिनः एतेषां मन्दिराणां समूहं निर्मितवन्तः । अयं सम्प्रदायः एव अस्य मन्दिरसमूहस्य निर्वहणं करोति । मन्दिरसमूहस्य बृहन्मन्दिरं तीर्थङ्कराय आदिनाथाय समर्पितम् । आदिनाथमन्दिरं पार्श्वनाथमन्दिरस्य उत्तरभागे निर्मितम् अस्ति । जैनमन्दिरसमूहस्य शान्तिनाथमन्दिरम् एकदशशतके निर्मितम् अस्ति ।


बाह्यानुबन्धः[सम्पादयतु]

खजुराहो : पत्थरों पर छवियां जीवन की

"https://sa.wikipedia.org/w/index.php?title=खजुराहो&oldid=390075" इत्यस्माद् पुनः प्राप्तिः