बेलूरु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Belur
बेलुरु
बय्लुरु
ग्रामः
बेलुरस्थं चेन्नकेशवमन्दिरम्
बेलुरस्थं चेन्नकेशवमन्दिरम्
Location of Belur
रष्ट्रम्  भारतम्
रज्यम् कर्णाटकम्
मण्डलम् हासनमण्डलम्
Elevation ९७५
Population (2001) ८,९६२
भाषाः
 • अधिकृत कन्नडभाषा
Time zone भाष्यमानाः भाषाः (UTC+5:30)
पत्रालयकूटसंख्या 573 115
दूरवणीकूटसंख्या 08177
Vehicle registration KA-13/KA-46
दर्पणसुन्दरी

बेलूरु (Belur) कर्णाटकराज्यस्य हासनमण्डले विद्यमानं प्रसिद्धं किञ्चन क्षेत्रम् । एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धं जातम् । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशवदेवालयः अनुपमः। बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५ X ३९६ पादपरिमितः अस्ति । महाराजः विष्णुवर्धनः अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।

बेलूरु –विश्वसुन्दरीणां स्थानम् इति प्रसिद्धम् अस्ति ।

कर्णाटकप्रदेशे पूर्वम् अनेकवंशीयाः प्रशासकाः आसन् । तेषु होय्सळवंशीयाः कलासक्ताः धार्मिकाः अत्यन्तं प्रसिद्धाः च आसन् । होय्सळानाम् अत्युत्तमं कार्यं बेलूरुचेन्नकेश्वरदेवालयनिर्माणम् इति सर्वविदितम् अस्ति ।

बेलूरुचेन्नकेश्वदेवालयः शिल्पकलासङ्ग्रहालयः अद्भुतकलाकृतीनाम् आश्रयः विश्वप्रसिद्धः च अस्ति । बेलूरुनगरे मध्यभागे एव अस्ति एषः सुन्दरः देवालयः । देवालयस्यावरणम् ४४३ पादमितदीर्घं, ३९६ पादमितविस्तृतम् । देवालयस्य प्राङ्गणम् १७८ पादमितदीर्घं, १५६ पादविस्तृतं च अस्ति । त्रिपादपरिमितोन्नतायां वेदिकायां नक्षत्राकारे प्रदेशे देवालयस्य निर्माणम् कृतमस्ति ।

होय्सळराजाः चोळदेशजनान् जित्वा विजयस्मारकरूपेण एतं सुन्दरं देवालयं निर्मितवन्तः । क्रिस्ताब्दे १११६ तमे वर्षे विजयनारायणस्य अथवा केशवस्य मन्दिरं निर्मितवन्तः । यगचीनदीतीरे एषः देवालयः अस्ति । श्री विजयनारायणमूर्तिः अत्युन्नतः अष्टपादोन्नतः अस्ति । अत्यन्तम् आकर्षकः सुन्दरमूर्तिः सम्यगलङ्कृता अस्ति । चेन्नकेशवदेवालयं परितः अनेकेलघुदेवालयाः सन्ति । दीपस्तम्भः पुरतः विराजते । वासुदेवपुष्करिणी अस्ति । देवालये गर्भगृहं, शुकनासी, नवरङ्गमण्डपः च सन्ति । अत्र भित्तिषु सुन्दरशिल्पानि सन्ति । अत्र दर्शनार्थं विशेषदीपव्यवस्था अस्ति । नवरङ्गात् बहिः भित्तिषु सूक्ष्मशिल्पानि सन्ति । अत्र अष्टपट्टिकाः सन्ति । एतेषु शिलापट्टिकासु क्रमशः एतानि शिल्पानि सन्ति । विविधभङ्ग्या स्थिताः मणिहारालङ्कृताः गजाः, सिंहाः, लताः, प्राणिपक्षिणः, मणिहारालङ्करणानि, अलङ्कृतेषु गवाक्षेषु नृत्य-सङ्गीत-श्रृङ्गारादिषु मग्नानां स्त्रीणां विग्रहाः सन्ति । देवालये बहिर्भागे रतिमन्मथयोः, नरसिंहशिल्पं, गरुडशिल्पं चामरधारिण्यः, सरस्वती, षोडशहस्तयुक्ता दुर्गा, रामायणमहाभारतभागवतकथाचित्राणि च सन्ति ।

स्तम्भेषु मदनिकाशिल्पानि अद्भुतानि । प्रायशः द्विपादोन्नताः अपूर्वाः विविधाः मदनिकाः सम्यगलङ्कृताः सन्ति । तासां नामानि अपि सन्ति । तासु रुद्रिका, चन्द्रिका, रेणुका, मोहिका, दर्पणसुन्दरी इत्याद्यः प्रसिद्धाः सन्ति । एताः ४२ सङ्ख्याकाः सन्ति । मदनिकानां सौन्दर्यम् अपूर्वं, विलासाः च मधुराः मनमोहकाः सन्ति । प्रत्येकमदनिका अपि सुन्दररचनायुक्ता आकर्षणयुक्ता च अस्ति ।

स्तम्भाच्छादनयोः मध्ये ३० कोणे अद्भुताः एताः कलाकृतयः प्रतिष्ठापिताः सन्ति । दर्शकाः एतासां रचनावैभवं भावानां स्मरणं कुर्वन्तः शिल्पकार्यम् सगौरवम् स्तुवन्ति ।

अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति । अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम् । अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति । देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव चेन्नकेशव इत्यपि कथयन्ति । मूर्तेः भावः स्रीभावः इव अस्ति । मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति ।

देवालयस्य बाह्यशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । यगचिनदीतीरे एषः सुन्दरदेवालयः विराजते ।

वसतिः[सम्पादयतु]

बेलूरुनगरे वसतिगृहाणि सन्ति ।

मार्गः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

मङ्गळूरु तथा बेङ्गळूरु समीपनिस्थाने ।

धूमशकटमार्गः[सम्पादयतु]

समीपनिस्थानानि- हासन, बाणावर, अरसीकेरे च

वाहनमार्गः[सम्पादयतु]

बेङ्गळूरुतः २२२ कि.मी । हासनतः ४० कि.मी मङ्गळूरुतः १२४ कि.मी । मैसूरुतः २४९ कि.मी । होसपेटेतः ३३० कि.मी । हळेबीडुतः १६ कि.मी बेङ्गळूरु-मड्गळूरुमार्गः ।

चित्रर्शाला[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बेलूरु&oldid=437182" इत्यस्माद् पुनः प्राप्तिः