गोवाराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(गोवा इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
गोवाराज्यम्
—  गोपालकानां प्रदेशः  —
भारते गोवाराज्यम्
गोवाराज्यस्य मानचित्रम्
Coordinates (पणजी): 15°27′47″N 73°49′05″E / 15.463°N 73.818°E / 15.463; 73.818
राष्ट्रम्  भारतम्
स्थापना ३० मे १९८७
राजधानी पणजी
बृहत्तमं नगरम् वास्को-द-गामा
राज्यम् 2
विस्तीर्णता
 • संहतिः  किमी ( वर्ग मी)
क्षेत्रविस्तारः अष्टाविंशतितमः
जनसङ्ख्या (२०११)
 • संहतिः
 • रैङ्क् पञ्चविंशतितमः
भारतीयसामान्यकालमानम् (UTC+०५:३०)
ऐ एस् ओ ३१६६ कोड् IN-GA
HDI rank तृतीयः (२००५)
साक्षरतापरिमाणम् ८७% (तृतीयः)
अधिकृतभाषा कोङ्कणी
जालस्थानम् www.goa.gov.in
^* कोङ्कणीभाषा राजभाषा अस्ति । परन्तु मराठीभाषा अपि व्यावहारिकभाषात्वेन, राजभाषात्वेन च उपयोगं कुर्वन्ति जनाः । [१][२][३]


गोवाराज्यं ( ( शृणु) /ˈɡvɑːrɑːjəm/) (हिन्दी: गोवा, आङ्ग्ल: Goa) भारते स्थितं किञ्चन लघुराज्यम् अस्ति । गोवाराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति । पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि महाराष्ट्रराज्यं, दक्षिणदिशि कर्णाटकराज्यं, पूर्वदिशि पश्चिमघाटः, पश्चिमदिशि अरबीसमुद्रश्चास्ति । पणजी, वास्को द गामा, मडगांव चास्य राज्यस्य प्रमुखनगराणि सन्ति । पणजी-नगरं राज्यस्य राजधानी अस्ति । वास्को द गामा राज्यस्यास्य बृहत्तमं नगरमस्ति । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं बहुभ्यः वीक्षणीयेभ्यः समुद्रतटेभ्यः सुप्रसिद्धमस्ति ।

गोवाराज्यस्य विस्तीर्णं ३७०२ च.कि.मी अस्ति । पणजी इति नगरमस्य राजधानी अस्ति । वास्को, फोण्डा , मडगांव, म्हापसा च राज्यस्यास्य मुख्यनगराणि सन्ति । माण्डवीनदीतीरे पणजी इत्येतत् नगरमस्ति । गोवाराज्ये सागरतीरं १०५ कि.मी दीर्घमस्ति । २७ सागरतीरप्रदेशाः सुप्रसिद्धाः सन्ति । उत्तरगोवा, दक्षिणगोवा इति द्विधा इदं राज्यं विभाजितम् अस्ति ।

भौगोलिकम्[सम्पादयतु]

गोवा-राज्यस्य विस्तारः ३,७०२ चतुरस्रकिलोमीटर्मितः वर्तते । २०११ जनगणनानुगुणं गोवाराज्यस्य जनसङ्ख्या १३,४३,९९८ अस्ति । अस्य राज्यस्य उत्तरदिशि तेरेवोल-नदी अस्ति । इयं नदी गोवा-महाराष्ट्रराज्ययोः मध्ये प्रवहति । गोवा-राज्यस्य उत्तरदिशि महाराष्ट्र-राज्यं, पूर्वदिशि, दक्षिणदिशि च कर्णाटक-राज्यं च स्थितम् अस्ति ।

नद्यः[सम्पादयतु]

गोवा-राज्ये बह्व्यः प्रमुखाः नद्यः सन्ति । ताः – माण्डवी, जुआरी, तेरेवोल, चपोरा, वेतुल, सिङ्क्वोटी, गोमती च । गोवा-राज्ये प्रमुखे द्वे कूल्ये स्तः – प्रथमा चीनी, अपरा कवेपम च । माण्डवी-जुआरीनद्योः मुखे मैनग्रोव-वनम् अस्ति ।

जलवायुः[सम्पादयतु]

गोवा-राज्यं कोङ्कण-क्षेत्रे स्थितम् अस्ति । अतः अस्य राज्यस्य वातावरणं मनोहरं भवति । जून-मासतः सितम्बर-मासपर्यन्तम् अस्य राज्यस्य जलवायुः आर्द्रपूर्णः भवति । वर्षर्तौ सामान्यतः ३२०० से.मी.मात्रात्मिका वृष्टिः भवति । ग्रीष्मर्तौ गोवा-राज्यस्य अधिकतमं तापमानं २४ डिग्री सेल्सियस् तः ३२.७ डिग्री सेल्सियस् पर्यन्तं भवति । शीतर्तौ च अस्य न्यूनतमं तापमानं ३२.२ डिग्री सेल्सियस् तः २१.३ डिग्री सेल्सियस् पर्यन्तं भवति ।

वनानि[सम्पादयतु]

गोवा-राज्ये “भगवान्महावीरराष्ट्रियोद्यानम्” स्थितम् अस्ति । उद्यानमिदं १०७ चतुरस्रकिलोमीटर्मितं विस्तृतम् अस्ति । अस्मिन् उद्याने भाल्लुकाः (Bear), कुञ्जराः (Elephant), चित्रव्याघ्राः (leopard), अजगराः, सर्पाः, कस्तूरीमृगाः, वृक्षशायिकाः चेत्यादीनां जीवानां विभिन्नप्रजातयः प्राप्यन्ते । अस्मिन् प्रदेशे अन्यानि अपि अभयारण्यानि सन्ति । तानि – “मोलेम-वन्यप्राणी-अभयारण्यं”, “बोण्डला-वन्यप्राणी-अभयारण्यं”, “कोटिगो-वन्यप्राणी-अभयारण्यं” च । गोवा-राज्ये “डॉ. सलीम अली पक्षि-उद्यानम्” अपि स्थितम् अस्ति ।

पौराणिकी गोवापुरी[सम्पादयतु]

गोवाराज्यस्य प्रप्रथमोल्लेखः महाभारतस्य भीष्मपर्वणि उपलभ्यते । भीष्मपर्वणि गोमन्त इति नामोल्लेखः अस्ति, यस्यार्थः भवति गवां प्रदेशः इति । स्कन्दपुराणस्य सह्याद्रिखण्डे उल्लिखितमस्ति यत्, परशुरामेण सह्याद्रिपर्वतसमीपस्थं समुद्रजलं प्रतिप्रेषिते सति अस्य प्रदेशस्य रचना जाता इति । पुराणकथास्ति यत्, परशुरामः सप्तर्षिभ्यः यज्ञयोग्यम् उचितं स्थानम् अन्वेषयन् भारतस्य पश्चिमभागे सह्याद्रिपर्वतं प्राप्तवान् । पश्चिमसमुद्रतटस्थं सह्याद्रिपर्वतं सम्प्राप्य सः समुद्रमग्नं पवित्रस्थलं दृष्टवान् । परन्तु समुद्रजलत्वात् यज्ञक्रिया नार्हति इति चिन्तयन् सह्याद्रिपर्वतशिखरात् सप्तशरैः समुद्रजलमेव प्रतिप्रेषितवान् सः । अतः सः प्रदेशः परशुरामक्षेत्रम् इति प्रसिद्धः जातः । (संशोधकाः गजानन शास्त्री, डो. जरसोन, डो. कुन्हा च कथयन्ति यत्, परशुरामः उत्तरभारतात् ब्राह्मणान् आनीयात्र तेषां निवासव्यवस्थां सज्जीकृतवान् आसीत् । एवं तत् स्थानं ब्राह्मणानां मुख्यस्थलम् अभूत् इति ।) ततः सप्तर्षयः तस्मिन् स्थले रुद्रयागं कृतवन्तः । रुद्रयागेन प्रसन्नः शिवः सप्तर्षिभ्यः आशीर्वादं दत्त्वा सप्तकोटेश्वररूपेण तत्रैव निवसतुम् आरभत । पुराणे कुत्रचित् उल्लिखितमस्ति यत्, शिव-पार्वत्योः विवादः यदा जातः, तदा किञ्चित् समयपर्यन्तं गोमन्तप्रदेश एव शिवस्य निवासस्थानम् आसीत् इति । हरिवंशपुराणानुसारं श्रीकृष्णः जरासन्धवधं यस्मिन् गोमाञ्चलपर्वते कृतवान्, सः पर्वतः गोवाप्रदेश एवास्ति । गोवापुरी पवित्रतमप्रदेशेषु अन्यतमः अस्ति इति नारदपुराणस्य उत्तरार्धस्य चतुस्सप्ततितमे (७४) अध्याये उल्लिखितमस्ति । तस्मिन्नेवाध्याये गोवाप्रदेशस्य स्थाननिर्धारणं, माहात्म्यं, रचनाकथां च वसुनामकः कश्चन गुरुः मोहिनीनामिकां शिष्याम् उद्दिश्य वर्णयति । (एनम् अध्यायं निश्चयेन पठन्तु ।) ब्रह्माण्डपुराणेऽपि गोवापुर्याः उल्लेखः अस्ति । तद्यथा -

गोकर्णं नाम विख्यातं क्षेत्रं सर्वसुरार्चितम् ।

सार्धयोजनविस्तारं तीरे पश्चिमवारिधेः ॥ ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५६ २,५६.७ ॥

स्कन्दपुराणेऽपि एवम् उल्लिखितम् अस्ति -

गोकर्णादुत्तरे भागे सप्तयोजनविस्तृतम् ।

तत्र गोवापुरी नाम नगरी पापनाशिनी ।।

इतिहासः[सम्पादयतु]

इतिहासानुसारं क्रिस्ताब्दे चतुर्थे शतके शतवाहनवंशीयाः, तदनन्तरं क्रमेण चालुक्यवंशीयाः, कोङ्कणशिलहरवंशीयाः, गोवाकदम्बवंशीयाः (९८०-१५५५), कोङ्कणभोजवंशीयाः च अत्र प्रशासनं कृतवन्तः । अग्रे यादवान् पराजित्य मोघलवंशीयाः अधिकारं प्राप्तवन्तः । अनन्तरं विजयनगरराजानः, बहमनीवंशीयाः च अत्र प्रशासनाधिकारं प्राप्तवन्तः आसन् । चतुर्दशे शतके बिजापुरस्य आदिलशाहीवंशीयानाम् अधीनम् आसीत् एतत् राज्यम् । १५१० तमे वर्षे पुर्तुगालदेशीयानां शासनम् आरब्धम् । ई. स. १९४७ तमे वर्षे यदा भारतेन स्वातन्त्र्यं प्राप्तं, तदा गोवा-राज्यम् पुर्तगाली-जनानाम् अधिकारे आसीत् । भारतीयसेनया “ऑपरेशन् विजय" इति अभियानम् आरब्धम् । अनेन अभियानेन भारतीयसेनायाः पुर्तगाल-शासनात् मुक्तिः अभवत् । ई. स. १९६१ तमे वर्षे दिसम्बर-मासस्य एकोनविंशतितमे (१९) दिनाङ्के (१९ दिसम्बर १९६१) गोवा-राज्यं पुर्तगाली-शासनात् मुक्तं जातम् आसीत् । अतः प्रतिवर्षं दिसम्बर-मासस्य एकोनविंशति (१९) तमे दिनाङ्के “गोवा मुक्ति दिवस” आचर्यते । अनन्तरम् इदं राज्यं केन्द्रशासितप्रदेशत्वेन उद्घोषितम् । ई. स. १९८७ तमस्य वर्षस्य मई-मासस्य त्रिंशत्तमे (३०) दिनाङ्के (३० मई १९८७) गोवा-इत्यस्मै राज्यपदं प्रदत्तम् । तदा गोवा-राज्यं भारतस्य पञ्चविंशतितमं राज्यम् अभवत् ।

विभागः[सम्पादयतु]

गोवाराज्ये २ मण्डले स्तः ।

राजनीतिः[सम्पादयतु]

गोवा-राज्यस्य विधानमण्डलम् एकसदनात्मकम् अस्ति । गोवा-राज्ये विधानसभायाः ४० स्थानानि (Seats) सन्ति | तत्र लोकसभायाः द्वे स्थाने, राज्यसभायाः च एकम् एव स्थानम् अस्ति । अस्मिन् राज्ये ई. स. १९७९ तमस्य वर्षस्य अप्रैल-मासस्य २८ तमे दिनाङ्के (२८ अप्रैल १९७९) राष्ट्रपतिशासनम् आरब्धम् । “प्रतापसिंह राणे” इत्याख्यः गोवा-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “भारतीय जनता पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “युनाईटेड् गोमान्तवादी डेमोक्रेटिक पार्टी”, “महाराष्ट्रवादी गोमान्तक पार्टी”, “नेशनलिस्ट् कॉङ्ग्रेस् पार्टी” च इत्यादयः राजनैतिकपक्षाः गोवा-राज्ये सन्ति । गोवा-राज्ये एकः मण्डलस्तरीयः न्यायालयः विद्यते । इदं राज्यं मुम्बई-महानगरस्य उच्चन्यायाधीनम् अस्ति । मुम्बई-महानगरस्य उच्चन्यायालयस्य एका शाखा पण्डजी-नगरे स्थिता अस्ति ।


अर्थव्यवस्था, कृषिः[सम्पादयतु]

गोवा-राज्यस्य प्रमुखः उद्योगः पर्यटनम् अस्ति । यतः इदं राज्यं समुद्रतटे स्थितम् अस्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । इतः परम् अपि अस्मिन् राज्ये लौह-खानिजाः पर्याप्तमात्रायां प्राप्यन्ते । लौह-खानिजस्य जापान-देशे, चीन-देशे च विक्रयणं क्रियते । गोवा-राज्ये साम्प्रतम् एकं विमानपत्तनम् अपि अस्ति । अस्मिन् राज्ये पर्यटनाय बहूनि वीक्षणीयस्थलानि सन्ति । अतः विदेशात् अपि जनाः तत्र गच्छन्ति । अतः पर्यटनस्थलेषु बहुप्रकारकाः व्यापाराः भवन्ति । तेन अस्य राज्यस्य अर्थव्यवस्था सुदृढा वर्तते । तण्डुलाः गोवा-राज्यस्य मुख्यसस्यम् अस्ति । अन्यानि अपि विविधानि सस्यानि सन्ति । नारिकेलं, काजूतकं, पूगीफलं, इक्षुदण्डं, आम्रं, कदलीफलं च इत्यादीनि अपि अस्मिन् राज्ये उत्पाद्यन्ते । सम्पूर्णे गोवा-राज्ये २,२७,०२९ टन्-मात्रात्मिकाः व्रीहिः, ६४,००० टन्-मात्रात्मकः इक्षुदण्डः च उत्पाद्यते । एकविंशतिलक्षोत्तरैककोटिः नारिकेलाः भवन्ति ।

सेचनं, विद्युदुत्पादनं च[सम्पादयतु]

गोवा-राज्ये सेचनाय विविधाः योजनाः प्रचलन्त्यः सन्ति । यथा सेलाउलिम, अञ्जुनेम चेत्यादयः जलबन्धाः सन्ति । तासां सेचनयोजनानां कारणेन सेचनक्षेत्रे वृद्धिर्जायते । तिल्लारी-जलबन्धे अपि कार्यं जायमानम् अस्ति । एतासु योजनासु ४३,००० हेक्टेयर् मात्रात्मकेषु स्थानेषु सेचनं कर्तुं क्षमता समुद्भूता । राज्यस्य प्रत्येकस्मिन् ग्रामे विद्युत्सौकर्यम् अपि सम्प्राप्तम् आसीत् ।

उद्योगाः[सम्पादयतु]

गोवा-राज्ये बहवः लघु-उद्योगाः सन्ति । तत्र ५,७५६ सङ्ख्यात्मकाः उद्योगाः सन्ति । सम्पूर्णे राज्ये षोडश औद्योगिकस्थलानि सन्ति । मत्स्यपालनं गोवा-राज्यस्य प्रमुखोद्योगः वर्तते । एतेषु उद्योगेषु आहत्य ३९,४३२ जनाः कार्यं कुर्वन्ति । ई. स. १९९७ तमे वर्षे “पेट्रोलियम् सुरक्षा, स्वास्थ्य तथा पर्यावरण प्रबन्धन (IPSHEM)” इत्याख्यं संस्थानं प्रस्थापितम् आसीत् । इदं संस्थानं “दोना पाउला” इत्यत्र अस्ति । गोवा-राज्यस्य खानिजोत्पादनेषु मैङ्गनीज्, बॉक्साईट्, लौहखानिजः च सन्ति । एतेषां विदेशेषु विक्रयणेन राज्यस्य अर्थव्यवस्था प्रबला वर्तते ।

शिक्षणम्[सम्पादयतु]

२०११ जनगणनानुगुणं गोवा-राज्यस्य साक्षरतामानं ८७.०१ प्रतिशतम् अस्ति । तेषु पुरुषसाक्षरतामानं ९२.८ प्रतिशतं, महिलासाक्षरतामानं ८१.८४ प्रतिशतं च अस्ति । गोवा राज्ये नैकानि शैक्षणिकसंस्थाननि सन्ति । “गोवा विश्वविद्यालय”, “राष्ट्रीय समुद्र विज्ञान संस्थानम्”, “राष्ट्रीय जल क्रीडा संस्थानम्”, “गोवा इन्स्टीट्यूट् ऑफ् मैनेजमेण्ट्”, “भारतीय कृषि अनुसन्धान संस्थानम्” च इत्यादीनि शैक्षणिकसंस्थानानि गोवा-राज्ये स्थितानि सन्ति ।

कला, संस्कृतिः च[सम्पादयतु]

गोवा-राज्यं कोङ्कणी-संस्कृतेः प्रमुखं केन्द्रं विद्यते । अतः अस्य राज्यस्य भाषा अपि “कोङ्कणी” एव अस्ति । तत्र माडो, धालो, फुगडी इत्यादीनि लोकनृत्यानि सन्ति । जगर पेराणि इत्याख्या गोवा-नगरस्य लोककथा अस्ति । इयं कथा राज्ये बहुप्रचलिता अस्ति । नाट्यक्षेत्रे अपि गोवा-राज्यस्य बहवः जनाः प्रसिद्धाः सन्ति । चलच्चित्रजगतः गायिकायाः “लता मङ्गेशकर” इत्याख्यायाः पिता दीनानाथ मङ्गेशकर, श्रीमती दुर्गा केलकर, रघुवीर सावरकर च इत्यादयः गोवा-राज्यस्य गौरवभूताः विद्यन्ते । सङ्गीतक्षेत्रे अञ्जनी मालयेकर, केसरबाई केरकर इत्यादयः प्रसिद्धाः सन्ति । गोवा-राज्ये दीपावलीपर्व, दशहरापर्व, गणेशचतुर्थीपर्व च आचर्यते । तेषु पर्वसु गणेशचतुर्थीपर्व मुख्यम् अस्ति । जनैः उत्साहपूर्वकम् उत्सवाः आचर्यन्ते । फरवरी-मासे मार्च-मासे वा कार्निवल् इत्ययम् उत्सवः आचर्यते ।

गोवा-राज्यं ५०० वर्षाणि यावत् पुर्तगाल-शासनाधीनम् आसीत् । अतः तत्र युरोप-देशस्य संस्कृतेः अत्यधिकः प्रभावः अनुभूयते । गोवा-राज्यस्य प्रायः ६० प्रतिशतं जनाः हिन्दुधर्मानुयायिनः, २८ प्रतिशतं जनाः ईसाई-धर्मानुयायिनः च सन्ति । गोवा-राज्यस्य दक्षिणभागे ईसाई-समाजस्य प्रभावः अधिकः अस्ति । किन्तु तत्र वास्तुस्थापत्यकलासु हिन्दुधर्मस्य प्रभावः अधिकः दृश्यते । गोवा-राज्ये पुरातनानि मन्दिराणि दृश्यन्ते ।

साहित्यम्[सम्पादयतु]

गोवा-राज्यं कोङ्कणी-साहित्यस्य प्रसिद्धकेन्द्रम् अस्ति । गोवा-राज्यस्य साहित्यिकपरम्परा अतीवप्राचीना अस्ति । ई. स. १५३६ तमे वर्षे पुर्तगाल-क्षेत्रियेण बार्रुण-इत्याख्येन इतिहासकारेण संस्कृतानुवादकस्य कस्यचित् ब्राह्मणस्य पुर्तगाली-भाषायाम् उल्लेखः कृतः अस्ति । बोरकर-इत्याख्यः कविः महाराष्ट्रियः आसीत् । सः अपि गोवा-राज्यस्य निवासी आसीत् । अस्य राज्यस्य प्रमुखा भाषा कोङ्कणी-इति अस्ति । कोङ्कणी-भाषायाः लिपिः देवनागरी एव अस्ति । इयं भाषा पञ्लिपिषु लिख्यते । ताः – रोमन्, कन्नड, मलयालम, अरबी फारसी वा, देवनागरी च । “थॉमस् स्टीफेन्स्” इत्याख्येन कविना “ईसाई-साहित्यस्य जनकः” इत्युपाधिः प्राप्तः ।

वीक्षणीयस्थलानि[सम्पादयतु]

वीक्षणीयप्रदेशेषु गोवा-राज्यं “पृथ्व्याः स्वर्गः” इति कथ्यते । अस्य राज्यस्य प्रमुखोद्योगः पर्यटनम् एव अस्ति । प्रतिवर्षं १० लक्षाधिकाः यात्रिकाः गोवा-राज्यं गच्छन्ति । वर्षर्तौ गोवा-राज्यस्य प्राकृतिकं सौन्दर्यं प्रसरति । ये जनाः शान्तिप्रियाः, प्रकृतिप्रेमिणः च भवन्ति, तेभ्यः हृदयाह्लादकं भवति इदं गोवा-राज्यम् । इदम् एकं लघुराज्यम् अस्ति, तथापि तत्र चत्वारिंशत् समुद्रतटानि सन्ति । तेषु तटेषु कानिचन तटानि अन्ताराष्ट्रियतटानि अपि सन्ति । ग्रीष्मर्तौ अत्यधिकाः पर्यटकाः शीतलतां प्राप्तुं गच्छन्ति । अनन्तरं ये जनाः वर्षर्तोः आनन्दं प्राप्तुम् इच्छन्ति, ते पर्यटकाः वर्षर्तौ तत्र गच्छन्ति ।

गोवाराज्यं देशविदेशीयानां प्रवासिजनानां स्वर्गमिवास्ति । अत्र पूर्वदेशीयानां, पश्चिमदेशीयानां च संस्कृतिसङ्गमः अस्ति इति कश्चन विशेषः । सुन्दरसागरतटानां, प्रकृतिसौन्दर्यभरितघट्टप्रदेशानां च दर्शनम् अत्र भवति । हरितानि शाद्वलानि, सुन्दर्यः वाटिकाः, रमणीयाः देवालयाः, नैकानि प्रार्थनामन्दिराणि, उपाहारवसतिगृहाणि च गोवाराज्यस्य प्रमुखाकर्षणानि सन्ति ।

उत्तरगोवामण्डले अरावेलं जलपातः, दत्तमन्दिरं, 'मेयं लेक्', वागेटर्, अञ्जुना, कालगुण्टे, अगौडदुर्गः च दर्शनीयानि स्थलानि सन्ति ।

दक्षिणगोवामण्डले मिरामर, दोनापौला, मार्मगोवा, वास्को कोल्व, मार्गोवा, शान्तादुर्गादेवालयः, रामनाथदेवालयः, मङ्गेशदेवालयः च दर्शनीयानि स्थलानि सन्ति ।

प्राचीनगोवाप्रदेशे 'भोमजीसस्'-'बेसिलिका'स्थले 'सेन्ट् फ्रान्सिस् जेवियर'-इत्यस्य शरीरं रजतकरण्डके स्थापितमस्ति । तत् स्थानं दशवर्षेषु एकवारं 'डिसेम्बर'-मासस्य तृतीयदिनाङ्कात् त्रीणि दिनानि यावत् सार्वजनिकदर्शनार्थम् उद्घाटितः भवति । 'सेन्ट् केजेटान् चर्च, सेन्ट अगस्टेन् चर्च, सेन्ट् मोनिका चर्च' इत्यादीनि अत्यन्तं सुन्दराणि सन्ति । गोवाराज्यस्य प्रवासोद्यमः अतीवोत्तमः अस्ति । सागरतटानां दर्शनं, देवालयानां दर्शनं, 'चर्च'दर्शनं, सम्पूर्णदर्शनम् इत्यादीनां दर्शनम् एकस्मिन् दिने एव कर्तुं शक्नुवन्ति प्रवासिनः । 'पालोळम्' इत्यत्र नारिकेलवाटिकानां सुन्दरं वीक्षणीयं स्थलम् अस्ति । मार्गोवा-तः सप्तत्रिंशत् कि.मी दूरे कोङ्कणधूमशकटमार्गसमीपे अतीव सुन्दरः सागरतटः अस्ति । राज्येऽस्मिन् विद्यमानानां सागरतटानां कोल्वा, अञ्जना, कल्लनगुड्ड इत्यादीनि नामानि प्रसिद्धानि सन्ति ।

गोवाप्रदेशस्य सागरतटाः[सम्पादयतु]

'अगोड' इति 'डनहिल्'सागरतटस्थम् उपाहारगृह-वसतिस्थानम् उत्तमं, प्रसिद्धं च अस्ति । 'ब्लूलगून् प्यारडैस् रेसार्ट' अपि उत्तमं स्थलमस्ति । अग्रे जलविहारसमुद्रस्नानादिनिमित्तं अतीव सुन्दरः सागरतटः अस्ति । 'बेनोलिम' तटोऽपि जनप्रियः अस्ति । एतत् डबोलिम विमानस्थानकात् ४५ कि.मी दूरे अस्ति । 'प्यासेलिङ्ग् वाटर् स्कूटर'प्रयाणम् अत्र कर्तुं शक्यते । अग्रे 'बाग् क्याण्डोलिं सिनक्वेरिं' इति द्वौ तटौ पणजी-नगरात् १४ कि.मी दूरे स्तः । एतौ दीर्घतटौ । अत्युत्तरभागे 'केरि' सागरतटः अस्ति । 'मालो मिरामाट्' इत्यत्र अष्ट 'डैविङ्ग'संस्थाः सन्ति । गोवासागरतटेषु सूर्योदयादस्तपर्यन्तं जनाः विहारं कुर्वन्तः आनन्दमनुभवन्ति । जले विहारं कुर्वन्ति । शान्तं, सुन्दरं सागरतीरं अतीवानन्ददायकं भवति इत्यत्र संशयः एव नास्ति ।

मपुसा[सम्पादयतु]

मपुसा उत्तरगोवा-मण्डले स्थितमेकं पत्तनम् अस्ति । इदं स्थलं बागा, अञ्जुना, कैलेङ्ग्यूट्-समूद्रतीरं च इत्येतेषां समीपे एव स्थितम् अस्ति । गोवा-राज्यस्य राजधानी पणजी अस्ति । पणजी-नगरात् इदं स्थलं १३ किलोमीटर्मितं दूरे स्थितम् अस्ति । इदं स्थलं वीक्षणार्थिभ्यः सौकर्यमयम् अस्ति । अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् अधिकमात्रायां जनाः तत्र गच्छन्ति । शुक्रवासरे मपुसा-नगरे हट्टः भवति । तस्मिन् हट्टे समीपस्थाः जनाः व्यापारार्थं गच्छति । हस्तकलां, कृष्युत्पादनानि, अभिनवफलानि इत्यादीनां वस्तूनां विक्रयणार्थं व्यापारिकाः हट्टे गच्छन्ति । सामुद्रिकखाद्यवस्तुभ्यः मपुसा-स्थलं प्रसिद्धम् अस्ति । पणजी-नगरात् मपुसा-पत्तनाय नियमितरूपेण बसयानानि प्राप्यन्ते ।

वागातोर[सम्पादयतु]

वागातोर-स्थलं गोवा-राज्यस्य सुन्दरस्थलेषु अन्यतमं वर्तते । इदं स्थलं मपुसा-पत्तनात् समीपे एव अस्ति । तत्रत्यानि भवनानि बङ्गलो, पुर्तगाली च इत्यादिभिः स्थापत्यकलाभिः निर्मितानि सन्ति । अञ्जुना-समुद्रतीरम् अपि तस्य समीपे एव अस्ति । चपोरा-दुर्गः अपि अस्य स्थलस्य समीपम् एव स्थितः अस्ति । अत्र समुद्रतीरे श्वेतवर्णीया सिकता प्राप्यते । अस्य समुद्रतीररस्य समीपे बहवः विश्रामालयाः, भोजनालयाः च सन्ति । तेषु भोजनालयेषु “प्रिमरोज शैक” इत्याख्यः भोजनालयः गोवा-राज्ये प्रसिद्धः अस्ति । तस्मिन् भोजनालये विविधप्रकारकानि व्यञ्जनानि प्राप्यन्ते । वागातोर-स्थले बहूनि सामुद्रिकखाद्यानि प्राप्यन्ते । वागातोर-स्थलं गन्तुं मपुसा-पत्तनात् मार्गः अस्ति । ततः समीपे एव इदं स्थलं विद्यमानम् अस्ति ।

बागा[सम्पादयतु]

बागा-समुद्रतीरं गोवा-राज्यस्य सौकर्यमयं स्थलं वर्तते । तत्र बहवः विश्रामालयाः, भोजनालयाः, मधुशालाः च सन्ति । वीक्षणार्थिनां निवासाय अपि व्यवस्था समीचीना अस्ति । तत्र बहवः कार्यसाधकाः (Agents) भ्रमन्ति । यतः तत्र बहवः क्रीडालयाः अपि सन्ति । ते कार्यसाधकाः क्रीडां कर्तुम् अस्मान् प्रेरयन्ति । अपरं च तत्र पैरासेलिङ्ग्, जलयानचालनं (Water bike ride), कदलीनौका-चालनं (Banana ride), नौकाविहारः च अपि प्रसिद्धः अस्ति । तत्र आदिनं जनसम्मर्दः भवति । “मोम्बोस् क्लब्” गोवाराज्यस्य प्रसिद्धासु मधुशालासु अन्यतमा अस्ति । सा मधुशाला अपि अस्य समुद्रतीरस्य समीपे एव स्थिता अस्ति । भाटकयानेन इदं स्थलं प्राप्तुं शक्यते । कैण्डोलिम, पणजिम इत्येतेभ्यः बागा-समुद्रतीरं समीपे एव अस्ति । अतः सरलतया तत्र गन्तुं शक्यते ।

कोलवेल[सम्पादयतु]

उत्तरगोवा-मण्डले स्थितम् इदं कोलवेल-नगरम् । इदं नगरं कैण्डोलिम, बागा, कैलिङ्ग्यूट इत्येतेभ्यः समुद्रतीरेभ्यः उत्तर-पूर्वदिशि स्थितम् अस्ति । इदं नगरं परितः व्रीहीणां क्षेत्राणि सन्ति । चपोडा-नद्याः तटे स्थितम् अस्ति कोलवेल-नगरम् । अनय नद्य कोलवेल-नगरस्य सौन्दर्यं वर्ध्यते । प्राचीने काले अस्मिन्नगरे पुर्तगाल-जनाः, डच-जनाः, मराठा-जनाः चेत्यादयः व्यापारं कुर्वन्ति स्म । अतः इदं व्यापारकेन्द्रम् आसीत् । ई. स. १५९१ तमे वर्षे तत्र एकः कैस्तवदेवालयः निर्मापितः आसीत् । तस्य देवालयस्य वास्तुस्थापत्यकला दृष्टुं योग्या अस्ति । अस्मिन् नगरे विमानस्थानकं, रेलस्थानकं च नास्ति । तथापि भाटकयानेन सरलतया तत्र गन्तुं शक्यते ।

अगुआडा[सम्पादयतु]

अगुआडा-नगरस्य दुर्गः विशिष्टसंरक्षणे अस्ति । भारते कानिचन स्थानानि सन्ति, तेषां सरक्षणं सम्यकतया भवति । तेषु अगुआडा-दुर्गः अन्यतमः अस्ति । सप्तदशशताब्द्यां पुर्तगाल-जनैः अयं दुर्गः निर्मापितः । अयं दुर्गः वीक्षणार्थिनाम् आकर्षणस्य केन्द्रम् अस्ति । अगुआडा-दुर्गस्य विद्युद्गृहम् अपि अत्यन्तं विशिष्टं वर्तते । ततः अरब-महासागरस्य दृश्यं दृश्यते । अगुआडा-स्थलस्य नेत्रप्रियाणि दृश्यानि, मधुशालाः, भोजनालयाः, विश्रामालयाः च प्रसिद्धाः अस्ति । इदं स्थलं कैण्डोलिम-स्थलात् समीपे एव अस्ति । रात्रौ दुर्गस्य समीपे हट्टः भवति । तस्मिन् हट्टे अल्पमूल्यवस्तूनि मिलन्ति । अगुआडा-दुर्गात् गोवा-नगरं गत्वा निवासः क्रियते । तत्र निवासाय सुव्यवस्था वर्तते । गोवा-नगरस्य विमास्थनकात्, रेलस्थानकात् च अगुआडा-दुर्गः प्राप्यते ।

अरामबोल[सम्पादयतु]

अरामबोल-समुद्रतीरं गोवा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । बागा, कैलेङ्ग्यूट इत्यादीनि वीक्षणीयस्थलानि अरामबोल-समुद्रतीरात् समीपे एव सन्ति । किन्तु व्यावसायिकदृष्ट्या इदं स्थलं विकसितं नास्ति । यतः तत्र विश्रामालयाः, भोजनालयाः, मधुशालाः बहव्यः न सन्ति । इदं स्थलं सामान्यं वर्तते । अरामबोल-समुद्रतीरम् अञ्जुना, मपुसा-नगरात् समीपे एव स्थितम् अस्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तादृशेभ्यः जनेभ्यः इदं स्थलं भ्रमणयोग्यं वर्तते । इदं स्थलं शान्तिपूर्णम् अस्ति । तत्र जनाः मध्याह्नकालस्य आनन्दं प्राप्नुवन्ति ।

मोरजिम[सम्पादयतु]

मोरजिम-समुद्रतीरं गोवा-राज्यस्य मनोहरं स्थलं वर्तते । इदं स्थलं गोवा-राज्यस्य उत्तरभागे स्थितम् अस्ति । चपोरा-नद्या तटे स्थितमिदं मोरजिन-नामकं वीक्षणीयस्थलम् । तत्र पर्याप्तमात्रायां सामुद्रिकखाद्यानि, नारिकेलानि च प्राप्यन्ते । मोरजिम-समुद्रतीरे बहूनि मनोहराणि दृश्यानि सन्ति । गोवा-राज्यस्य पारम्परिकनृत्यस्य उत्पत्तिः मोरजिम-स्थलात् एव अभवत् । गोवा-राज्यस्य परम्पराणां, रीतीनां च उत्पत्तिस्थलम् अपि मोरजिम-समुद्रतीरम् एव अस्ति । मोरजिम-समुद्रतीरं गन्तुं यन्त्रद्विचक्रिकायाः उपयोगः क्रियते । तत्र भाटकेन यन्त्रद्विचक्रिकां प्राप्यते ।

कैलेङ्ग्यूट[सम्पादयतु]

कैलेङ्ग्यूट्-समुद्रतीरम् उत्तरगोवा-मण्डलस्य आकर्षणस्थलानां केन्द्रं विद्यते । इदं स्थलं परितः कैण्डोलिम-समुद्रतीरं, बागा-समुद्रतीरं च अस्ति । अतः इदं स्थलं “पर्यटकानां स्वर्गः” कथ्यते । कैलेङ्ग्यूट-समुद्रतीरे यानानि स्थापयितुं श्रेष्ठव्यवस्था वर्तते । तत्र प्रतिदिनं हट्टः भवति । हट्टे बहवः आपणाः भवन्ति । तेषु वस्त्राणि, आभूषणानि, पादत्राणानि, गोवा-राज्यस्य स्मारकाणि अल्पमूल्ये च लभ्यन्ते । कैलेङ्ग्यूट्-समुद्रतीरे शुष्कफलानि अपि मिलन्ति । कैलेङ्ग्यूट्-समुद्रतीरं जलक्रीडायै प्रसिद्धम् अस्ति । समुद्रतीरे व्यापारिकाः जलक्रीडायै बनानानौकां, जलयानं च आनयन्ति । तेषां जीवनम् एतेषु कार्येषु एव व्यतीतं भवति । कैलेङ्ग्यूट्-समुद्रतीरे “सौजा लोबो” इत्याख्यं स्थलम् अपि ख्यातम् अस्ति । इदं स्थलं केन्द्रे स्थितम् अस्ति । तत्र बसस्थानकम् अपि अस्ति । गोवा-राज्यस्य अन्येभ्यः वीक्षणीयस्थलेभ्यः कैलेङ्ग्यूट-स्थलात् यानानि प्राप्यन्ते ।

अञ्जुना[सम्पादयतु]

अञ्जुना-समुद्रतीरं कैण्डोलिम-समुद्रतीरात् ३ किलोमीटर्मिते दूरे स्थितम् अस्ति । अञ्जुना-समुद्रतीरे बहुमूल्यकाः भोजनालयाः सन्ति । इदं स्थलं प्राचीनतमेषु समुद्रतीरेषु अन्यतमम् अस्ति । तस्य समीपे अञ्जुना-समुद्रतीरे स्थितः कर्लीस्-नामकः भोजनालयः बहुप्रसिद्धः अस्ति । अन्येषां समुद्रतीराणाम् अपेक्षया अञ्जनासमुद्रतीरं सघनम् अस्ति । इदं स्थलं बागा-समुद्रतीरात्, कैलेङ्ग्यूट-समुद्रतीरात् च समीपे एव स्थितम् अस्ति ।

पोरवोरिम[सम्पादयतु]

मुम्बई-गोवा इत्यस्मिन् राजमार्गे पोरवोरिम-नगरं स्थितम् अस्ति । तत्र “सलीम अली पक्षि अभयारण्यम्” अस्ति । माण्डवी-नद्याः तटे “रीस मैगोस-दुर्गः” अस्ति । तस्य दुर्गस्य नवीनीकरणम् किञ्चित्समयपूर्वमेव अभवत् । ततः नद्याः मनोहरदृश्यं दृश्यते । तस्यां नद्यां बह्व्यः नौकाः, जलयानानि च सन्ति । पोरवोरिम-नगरं बहुमूल्यकम् आवासीयक्षेत्रम् अस्ति । गोवा-राज्यस्य राजधान्याः सर्वाणि व्यावहारिककार्याणि पोरवोरिम-नगरे भवन्ति । अतः इदं नगरम् उपनगरं कथ्यते ।

रिबन्दर[सम्पादयतु]

इदं स्थलम् एकम् उपनगरम् अस्ति । अस्मिन् स्थले बहवः कैस्तवदेवालयाः विद्यमानाः सन्ति । अस्मिन् नगरे “गोवा इन्स्टीट्यूट् ऑफ् मैनेजमेण्ट्” इतीयं शैक्षणिकसंस्था स्थिता अस्ति । इयं संस्था एशिया-खण्डस्य बृहत्तमः चिकित्सालयः अस्ति । इदं स्थलं माण्डोवी-नद्याः समीपे स्थितम् अस्ति । नगरमिदं बहुभिः सेतुभिः गोवा-राज्यस्य अन्यैः भागैः सह सञ्योजितम् अस्ति । तत्र हिन्दुदेवालयाः अपि बहवः विद्यन्ते ।

माण्ड्रेम[सम्पादयतु]

गोवा-राज्यस्य उत्तरभागे स्थितम् इदं माण्ड्रेम-स्थलम् । अस्य स्थलस्य वातावरणं शान्तं वर्तते । अत्र जनानां सम्मर्दः अपि न भवति । अस्मिन् समुद्रतीरे कैसुआरिना-इति वृक्षाः प्राप्यन्ते । अस्मिन् स्थले एकः लघुभोजनालयः अपि अस्ति । तस्य नाम “एण्ड् ऑफ् द वर्ल्ड्” इति । अस्मिन् भोजनालये सामुद्रिकखाद्यानि मिलन्ति । अत्र एकः पुर्तगालिकः दुर्गः अपि अस्ति । सः दुर्गः अस्य स्थलस्य आकर्षणकेन्द्रम् अस्ति ।

मार्गाः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

गोवा-राज्ये डबोलिम-विमानस्थानकं स्थितम् अस्ति । अनेन विमानस्थानकेन मुम्बई-नगरं, देहली-नगरं, तिरुवनन्तपुरं, कोच्ची-नगरं, चेन्नै-महानगरं, बेङ्गळूरु-महानगरं च गन्तुं प्रतिदिनं वायुयानानि प्राप्यन्ते ।

धूमशकटमार्गः[सम्पादयतु]

गोवा-राज्ये कोङ्कण-रेलस्थानकं वर्तते । ततः देहली-नगरं, मुम्बई-नगरं, मङ्गळूरु-नगरं, तिरुवनन्तपुरं च गन्तुं रेलयानानि प्राप्यन्ते । यावत् इदं कोङ्कण-रेलस्थानकं निर्मापितम् अस्ति, तावत् गोवा-राज्यं भारत-देशस्य पूर्वतटीयक्षेत्रैः सह सम्बद्धं जातम् । गोवा-राज्ये रेलयानानां गतिः अपि अधिका भवति । अपि च अस्य राज्यस्य रेलयानसेवा अपि श्रेष्ठा अस्ति । अनेन कारणेन इदं राज्यं भारते चर्चितम् अस्ति ।

भूमार्गः[सम्पादयतु]

गोवा-राज्ये आहत्य राष्ट्रियराजमार्गाणां दैर्घ्यं २२४ किलोमीटर्मितम् अस्ति । प्रान्तीयराजमार्गाणां दैर्घ्यं २३२ किलोमीटर्मितं च अस्ति । अपरं च मण्डलीयमार्गाणां दैर्घ्यं ८१५ किलोमीटर्मिम् अस्ति । गोवा-राज्ये सर्वत्र बसयानानि प्रचलन्ति । अतः ततः मुम्बई-महानगरं, बेङ्गलूरु-महानगरम् इतरनगराणि च गन्तुं बसयानानि प्राप्यन्ते ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Goa". Commissioner Linguistic Minorities, 42nd Report, July 2003 to June 2004. National Commissioner Linguistic Minorities. Retrieved 17 July 2007. "Konkani is the official language of the state. There actually is no second official language. However, as per notification, Marathi will be used for the purpose of reply by the Government whenever communications are received in that language." 
  2. UNI. "Marathi vs Konkani debate continues in Goa", rediff.com, Rediff.com India Limited, 30 May 2007. Retrieved on 17 July 2007. 
  3. Government of Goa. "About Goa". goa.gov.in. Goa Government. "At present, Marathi and Konkani are two major languages of Goa." 
"https://sa.wikipedia.org/w/index.php?title=गोवाराज्यम्&oldid=387303" इत्यस्माद् पुनः प्राप्तिः