गौः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
गौः
स्विट्झर्ल्याण्ड्देशे एकः गौः
स्विट्झर्ल्याण्ड्देशे एकः गौः
संरक्षणस्थितिः
Domesticated
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) जन्तवः
सङ्घः Chordata
वर्गः Mammalia
उपवर्गः Theria
इन्फ्रावर्गः Eutheria
गणः Artiodactyla
कुलम् Bovidae
उपकुलम् Bovinae
वंशः Bos
जातिः B. taurus
उपजातिः B. t. primigenius,
B. t. indicus

द्विपदनाम
Bos taurus
Bojanus, 1827[१]
त्रिपदनाम
Bos taurus primigenius,
Bos taurus indicus

Bovine range
Bovine range
पर्यायपदानि

Bos primigenius,
Bos indicus

गौः

गोविषये वाचसपत्यकोशे एवं विवरणं प्राप्यते -

गो – (पुं / स्त्री) स्वनामख्याते पशुभेदे। गच्छत्यनेन गम- करणे डो। वृषस्य यानसाधनत्वात्। स्त्रीगव्याश्च दानद्वारा स्वर्गगतिसाधनत्वाच्च तथात्वम्। गतिसाधनतया तस्य तथार्थत्वयोगेन यौगिकत्वेपि योगरूढत्वम्। -वाचस्पत्य:।

गोभेदा: - दशविधा: गाव: बृहद्विष्णुपुराणे उत्तरखण्डे १५० तमेध्याये – प्रथमा गौरकपिला द्वितीया गौरपिङ्गला। तृतीया रक्तकपिला चतुर्थी नीलपिङ्गला। पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु शुक्लपिङ्गला। सप्तमी चित्रपिङ्गाक्षी अष्टमी बभ्रुरोहिणी। नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला॥ तादृशास्तेऽप्यनड्वाहा: ...॥ -वाचस्पत्य:।

भारतीयानां श्रद्धाबिन्दुषु गौ: एकं महत्त्वपूर्णं स्थानम् अलङ्करोति । भारतीया: गा: मातृत्वेन पश्यन्ति, पालयन्ति च । न केवलं दुग्धदातृत्वेन गवां मातृत्वम् । बहुविधदिव्यगुणानां निलय: भवति गौ: । गवि गव्ये च दिव्यत्वम् अस्ति । तादृशगाव: दुग्धदानयन्त्राणि नैव । ता: राष्ट्रसौभाग्यदायिन्य: । परोपकारगुणेन गोतुल्यजन्तु: नान्य: अस्ति भूतले ।

वीथीषु अटन्ती लब्धेन तृणेन, पर्णेन अवकरेण वा, मानवेन अनावश्यकम् इति त्यक्तेन पदार्थेन वा स्वोदरं प्रपूर्य परेद्यवि अमृतसदृशं क्षीरं ददाति गौ: । गोक्षीरं, तदुत्पन्नानि, गोमूत्रं, गोमयम् - एवं गव्यं सर्वमपि समाजपोषकं भवति । ‘गो - उत्पन्नानि’ सम्पद्वृद्धिकराणि । उक्तं च - ‘‘धेनु: सदनं रयीणम् ।’’ (गो: सम्पदां निलय:) इति । प्राचीनकाले समाजस्य सुखसम्पद: स्तरं गणयितुं तत्रत्या: गाव: प्रमाणम् आसन् । धार्मिककार्यक्रमेषु अन्नदानसन्दर्भे सर्वप्रथमं गवे भोजनं दत्त्वा - ‘‘गावो मे मातर: सन्तु पितर: सन्तु गोवृषा: ।

ग्रासमुष्टि मया दत्तां प्रतिगृह्णन्तु मातर: ॥ इति कथनसम्प्रदाय: अस्ति । ‘धेनुर्माता परमशिवा,’ गावो विश्वस्य मातर:’, गोब्राह्मणेभ्य: शुभमस्तु नित्यम् । लोका: समस्ता: सुखिनो भवन्तु’ इति च वदन्त: भारतीया: गवां शुभं कामयन्ते । गवां गव्यानां च दिव्यगुणा: एव एतादृशश्रद्धाया: कारणं स्यात् । गव्यपदार्थम् उपयुज्य अद्य बहूनि वैज्ञानिकसंशोधनानि अपि अभवन् । गवां गव्यानां च विषये ईषदत्र दृष्टि प्रसारयाम: । भारतीयगाव:

अन्ड्वान्

गोषु भारतीयगवां स्वभावे किञ्चिद् वैशिष्ट्यमस्ति । भारतीयगाव: सामान्यवातावरणवैपरीत्यं सोढुं शक्नुवन्ति । आतपे वृष्टौ अटित्वापि ता: आरोग्यवत्य: एव भवन्ति । विदेशीयगवां (जर्सीत्यादिसन्ततीनां) रोगनिरोधकशक्ति: न्यूना । महिष्यादिभ्य: गाव: अधिकक्रियाशीला: भवन्ति । गोवत्स: जन्मन: घण्टानन्तरमेव चलितुं प्रभवति । दिनत्रयाभ्यन्तरे एव उत्साहेन कूर्दति । महिषीवत्स: अपि घण्टानन्तरमेव चलितुं प्रभवति ; किन्तु मासपर्यन्तमपि स: मन्द: एव भवति । षष्ट्यधिकगवां मध्ये त्यक्त: अपि गोवत्स: स्वमातरम् अन्वेष्टुं कष्टं नानुभवति । महिषीवत्सस्तु 20महिषीणां मध्ये त्यक्त: अपि स्वमातरं सुलभतया परिचेतुं न शक्नोति इति वदन्ति । गवां किमपि नामकरणं कृत्वा प्रतिदिनम् आह्वयाम: चेत् ता: झटिति प्रतिस्पन्दन्ते । प्रात: चारणार्थं पे्रषिता: गाव: सायं निश्चिते समये स्वयमेव स्वस्थानं प्रत्यागच्छन्ति । महिषीणां नियतरूपेण एवं न भवति इति श्रूयते ।


गोसम्बन्धीनि (गोविकारा:) सर्वाणि अपि अत्यन्तम् उपयोगीनि इति पुनर्वक्तव्यं नास्ति । तथापि तेषाम् उपयोगविषये संक्षिप्त: परिचय: अत्र दत्त: अस्ति -

  1. गोक्षीरम्
  2. दधि
  3. तक्रम्
  4. नवनीतम्
  5. घृतम्
  6. गोमूत्रम्
  7. गोमयम्
  8. पञ्चगव्यम्

गोविषयकं किञ्चन सुभाषितं स्मर्तुमत्र योग्यं प्रतिभाति - ‘‘ स्पृष्टाश्च गाव: शमयन्ति पापं संसेविताश्चोपनयन्ति वित्तम् । ता एव दत्तास्त्रिदिवं नयन्ति गोभिर्न तुल्यं धनमस्ति किञ्चित् ॥ इति । वस्तुत: सत्यमिदम् । विविधगुणानाम् आगरभूतानां गवां सेवा राष्ट्रस्य अभ्युदयहेतु: । न केवलं पुण्यदृष्ट्या गाव: संरक्षणीया: ; राष्ट्रियकर्तव्य-बुद्ध्या च ता: संरक्षणीया: । राष्ट्रहितकारिण्य: गोमातर: किमर्थं दुग्धयन्त्रमिव द्रष्टव्या: ? गोरक्षाविषये सर्वकारेण किमर्थं सार्वत्रिकनियमा: न निरूपिता: ? देशे बहुत्र प्राणिवधकेन्द्राणि सन्ति । प्रत्यहं तत्र बहव: गाव: नीयन्ते । अत्यन्तं क्रौर्येण तासां वध: प्रचलति ।

गोवंशद्वारा बहुविधभौतिकलाभान् प्राप्नुवतां, तासां धार्मिकं महत्त्वं ज्ञातवताम् अस्माकं भारतदेशे गोवधनिषेध: नियमेन घोषणीय: इति किं पुन: प्रतिपादनीयम् ? गवामपि सुखदु:खानुभूतिसामर्थ्यमस्ति, मन:, हृदयं चास्ति इति न विस्मर्तव्यम् । मूकप्राणिनाम् इति तेषामुपरि क्रौर्यप्रदर्शनं न युक्तम् । यदि बहूपकारिणी गौ: मानवस्य पुरत: मुखमुद्घाट्य ‘‘क्षीरमलमूत्रादिकं मदीयं सर्वस्वं समाजाय । समाजाय दातुं किमस्ति भवदीयम् ?’’ इति पृच्छति तर्हि उत्तररूपेण किं वा वदेत् मानव: ? स्मृतिकारै: तु गोहत्या पातकत्वेन परिगणिता । गोदानस्य महत्फलं वर्णितं स्मृतिग्रन्थेषु । बहूनां पापकर्मणां प्रायश्चित्तरूपेण ‘गोसेवा’ विहिता । भोजनसमये यदि गवाम् आक्रन्दनध्वनि: श्रूयते तर्हि भोजनं तत्रैव स्थगयित्वा आदौ गाव: विचारणीया: इति वदन्ति केचन सम्प्रदायविद:। गोमयस्य उपरि मानवेन मलमूत्रादिकं न विसर्जनीयम् इति मनुना नियम: विहित: । गोमयविषये एव एतादृशी श्रद्धा चेत् गो: विषये कियती श्रद्धा धारणीया !

महाराजेन दिलीपेन स्वयंकृतस्य गोविषयकापराधस्य प्रायश्चित्तरूपेण गोसेवा कृता । गोरक्षार्थं भगवान् गोपालकृष्ण: श्रीकृष्ण: कालियमर्दनं चकार, गोवर्धनगिरिं च उद्धृतवान् ।

गवि देवताः

अद्य न केवलं गोरक्षा, भारतीयगोसन्ततिरक्षा अपि करणीया अस्ति । गोचारणाभूमय: संरक्षणीया: । एतस्यां दिशि भारतीयै: अस्माभि: गम्भीरतया चिन्तनीयमस्ति । ॥ गाव: सन्तु सन्तुष्टा: ॥

गौः मङ्गलदर्शना । सा प्रकृत्या आकारेण च परमा साध्वी भवति । तस्याः सखुराः चत्वारः पादाः भवन्ति । तस्याः पुच्छं लम्बं, सरलं शृङ्गयुगलं, शोभने विशाले च नेत्रे दीर्घौ कर्णौ भवन्ति । अस्याः धेनुः इति नामान्तरम् अस्ति ।

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् ।
दुग्धं ददति लोकेभ्यो गावो विश्वस्य मातरः॥

भारतीयाः गाः मातरम् इव अर्चयन्ति । गवि ३३कोटिदेवताः निवसन्ति इति भारतीयानां विश्वासः । गावः बहूपयोगाय भवन्ति । गोक्षीरं तज्जन्यपदार्थनाम्

उपयोगं मानवः बहोः कालात् कुर्वन् अस्ति । धेनवः कृषकस्य जीवनाड्यः भवन्ति । कषीवलः गोमयगोमूत्रभ्याम् उत्तमं दोहदं निर्मीय कृषिकर्म कृत्वा देशाय निर्विषम् अन्नं ददाति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गौः&oldid=395548" इत्यस्माद् पुनः प्राप्तिः