नवनीतम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
नवनीतम्

दुग्धस्य आतञ्चनं कृत्वा यदा दधि भवति तदा दध्नः मथनं करणीयम् । सम्यक् मथनस्य अनन्तरं यत् द्रवरूपं प्राप्यते तत् तक्रम् इति उच्यते । यत् घनरूपं प्राप्यते तत् एव नवनीतम् । आङ्ग्लभाषायाम् अस्य नाम Butter इति । मथनानुक्षणं प्राप्तं नवनीतम् अत्यन्तं प्रशस्तम् आहारत्वेन । पुरातनं नवनीतं श्रोतान् अवरुणद्धि इति कारणात् आहारत्वेन तस्य उपयोगः निषिद्धः इति उच्यते । एतत् नवनीतम् अत्यन्तं मृदु । अतः एव शिशूनां चर्म नवनीतम् इव अस्ति इति वदन्ति । दध्न: मथनेन लब्धं नवनीतं वातपैत्तिकविकारशामकं भवति । मस्तिष्कदौर्बल्य - मूर्छा - भ्रमादिरोगेषु लाभकारि भवति । नवनीतं दृष्टिशक्तिं च वर्धयति ।

आयुर्वेदस्य अनुसारम् अस्य नवनीतस्य स्वभावः[सम्पादयतु]

यन्त्रेण दधिमथनम्

नवनीतं पचनार्थं लघु । रुचिः अस्य कषायमिश्रित-आम्ला । नवनीतं बुद्धिवर्धकं जीर्णशक्तिवर्धकं च ।


“नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुर-
पुरात्नकालस्य दधिमथनस्य दृश्यम्
कषायम् ईषत् आम्लं शीतलं मेध्यं दीपनं हृद्यम् ॥
संग्रा हि पित्तानिहरं वृष्यम् अनिदाहि क्षय-कास-श्वास-
व्रण-अर्श-अर्धितापहं गुरु कफ-मेधो-विवर्धनं
बलकरं बृंहणं शोषघ्नं विशेषतो बालानां प्रशस्यते ॥“ (सुश्रुत.सू.)


१. नवनीतं पचनार्थं लघु इति कारणात् न्यूना जीर्णशक्तिः अस्ति चेत् अपि सेवनयोग्यम् एव ।
२. नवनीतं ज्वलनं, व्रणं, मूलव्याधिम्, अर्धाङ्गवातं च शमयति ।
३. नवनीतं हृदयार्थम् उत्तमम् । वातं पित्तं च जयति ।
४. नवनीतं कफं वर्धयति इति कारणात् कफप्रकृतियुक्ताः मितप्रमाणेन उपयोगं कुर्युः ।
५. नवनीतं बलं, मेधस्, शरीरस्य भारं च वर्धयति । अतः प्रतिदिनम् उपयोक्तुं योग्यम् ।
नवनीतम्
६. नवनीतं बुद्धिशक्तिं जीर्णशक्तिं च वर्धयति । तस्मात् न्यूनजीर्णशक्तियुक्ताः सेवेरन् ।
७. नवनीतं विशेषरूपेण शुष्कचर्मयुक्ताः, वातरोगिणः, असमीचीन मलप्रवृत्तियुक्ताः च आहारत्वेन बाह्यरूपेण वा उपयोक्तम् अर्हन्ति ।
८. निद्राहीनतायां सत्यां नवनीतं शिरसः मध्यभागे लेपयन्ति ।
९. मुखे पिटकाः जायन्ते चेत् नवनीतेन सह जीरिकायाः चूर्णं योजयित्वा लेपयेयुः ।
१०. शुष्कचर्मयुक्ताः क्षीरमथनात् प्राप्तं नवनीतं बाह्यरूपेण लेपयितुम् अर्हन्ति ।
११. मन्दाग्निः अस्ति चेत्, बहुकालतः पीनसः अस्ति चेत्, अतिस्थौल्यम् अस्ति चेत् नवनीतं न उपयोक्तव्यम् ।
१२. पादे जातानां विच्छेदानाम् अपि नवनीतं बाह्यरूपेण लेपनं शक्यते ।
१३. तदानीमेव जातस्य शिशोः मातृक्षीरस्य अभावे द्वित्राणि दिनानि यावत् नवनीतम् एव अल्पेन प्रमाणेन दातव्यम् इति वदन्ति शास्त्रकाराः ।
१४. क्षीरस्य मथनात् प्राप्तं नवनीतम् अत्यन्तम् उत्कृष्टम् । एतत् नवनीतं रोगहरं, रुचिकरं, शरीरस्य पुष्टिकरं, नेत्रस्य हितकरं च ।
१५. मण्डः अपि नवनीतगुणयुक्तः एव । (क्षीरम् उष्णीकृत्य तथैव त्यक्तं चेत् किञ्चित् कालानन्तरं क्षीरस्य उपरि कश्चन घनः पदार्थः सङ्गृहीतः भवति । सः एव मण्डः इति उच्यते ।) अतः तमपि अत्रैव योजयितुं शक्यते ।
१६. मण्डः वातहरः, तृप्तिकरः, बलकरः, रुचिकरः, रक्तप्रसादकः, पचनार्थं जडः च ।‎
"http://sa.wikipedia.org/w/index.php?title=नवनीतम्&oldid=250291" इत्यस्माद् पुनः प्राप्तिः