आहारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

आहारः ( ( शृणु)) (हिन्दी: आहार, आङ्ग्ल: Diet) नाम “आहर्यते गलादधो नीयत इति आहारः” [४] । आहारः जन्तूनां जीवनस्य महत्त्वपूर्णं पोषकतत्त्वं वर्तते । यः अन्ननलिकया आह्रियते, सः आहारः कथ्यते । आहारस्वास्थ्ययोः परस्परः सम्बन्धः वर्तते । आहारेण सुस्वास्थ्यं प्राप्यते । दुषिताहारेण, असन्तुलिताहारेण च स्वास्थ्ये हानिः अपि जायते । अतः आहारः एव जीवनस्य कारणम् इति । गीतायामपि लिखितम् अस्ति यत् -


युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥

शाकानि

आहारः जीविनां जीवनस्य प्रधानम् अङ्गम् । “आह्रियन्ते इति आहाराः” इति वयं जानीमः एव । बाह्यं किञ्चन वस्तु शरीरस्य अन्तः प्रविश्य तत्रैव अन्तर्भूत्वा अस्माकं स्वरूपस्य निर्माणस्य कारणं भवति । अन्नस्य सूक्ष्मभागात् एव मनसः निर्मितिः भवति । अद्य वयम् एवं स्मः इत्यस्य पृष्ठभूमिकायाम् अस्माभिः सेवितः आहारः एव अस्ति इति ज्ञायते चेत् आहारस्य महत्त्वम् अवगतम् इति अर्थः । गर्भादारभ्य मरणपर्यन्तं जीवनार्थम् अस्मात् पञ्चभौतिकप्रपञ्चात् यद्यत् स्वीकुर्मः तत्सर्वम् अपि आहारः एव । न केवलम् उदरम्भरणार्थम् अवश्यभूतानि घन-द्रवरूपाणि अन्नक्षीरादीनि आहारत्वेन उच्यन्ते अपि तु जलं, वायुः, प्रकाशः, आकाशः, औष्ण्यम् इत्यादीनि अपि आहारः एव । अन्नक्षीरादीनि न सन्ति चेदपि कतिपय दिनानि जीवामः किन्तु जलमेव नास्ति चेत् कति दिनानि जीवामः ? जलं नास्ति चेदपि कथञ्चित् कतिपय दिनानि जीवामः, वायुरेव नास्ति चेत् कति निमेषान् जीवामः ? यदि आकाशेण स्वस्मिन् किञ्चिन्मात्रेण अपि अवकाशः न कल्पितः स्यात् तर्हि कुत्र अस्माकं जीवनम् ? अतः अस्माकं देहस्य धारणपोषणांशाः पृथ्वी, अप्, तेजस्, वायुः, आकाशः इत्येतैः पञ्चभूतैः निर्मिताः सन्ति । देहस्य मूलघटकाः शुक्रशोणिताः अपि एतैः पञ्चभूतैः एव बाह्यरूपं प्राप्नुवन् । भगवतः सृष्टौ असंख्याः आहारपदार्थाः सन्ति एव । तत्सर्वम् अपि मनुष्यमात्रस्य उपयोगाय इत्येव न निर्मितं भगवता । कालानुगुणं मनुष्यस्य उपयोगाय न भवेयुः इत्यपि न । अत्र काचित् व्यवस्था आवश्यकी । “अहं कः ? मम शरीरस्य सहजाः गुणाः के ? वात-पित्त-श्लेष्मेषु प्रधानधातुः कः मम शरीरे ? मम मनः कीदृशम् ? सत्त्वं,रजस्, तमस् इत्येतेषु प्राधान्यं कस्य ? देहस्य मनसः च आरोग्यकरी स्थितिः का ? अनारोग्यकरी स्थितिः का ? देहे विद्यमाना बाल्याद्यवस्था का ? मम कार्यं कीदृशम् ? कः कालः ? देशः कः ? स्त्री वा पुरुषो वा ? मम वर्णव्यवस्था का ? इत्यादीनां बहुविधानां परिस्थितीनाम् अनुगुणम् अस्माकम् आहारस्य निर्णयः भवति । तथा चेदेव सः आहारः अस्माकं शरीरं मनः च सम्यग्रूपेण पालयति ।

दुग्धम्

सृष्टेः विकासस्य अन्तिमं पदम् एव “पृथ्वी” । एतस्याम् अन्यानि सर्वाणि भूतानि (अप्, तेजस्, वायुः, आकाशः च) प्रमाणतारतम्येन निहितानि सन्ति । अतः एव सा पृथ्वी “विश्वम्भरा” इति उच्यते । स्वस्य शरीरात् जीवकोटिनां निमित्तम् आवश्यकं द्रव-द्रव्यादिकं यच्छन्ती जीवनस्य आश्रयभूता सा “अवनिः” इत्यपि उच्यते । सा न केवलं शरीरस्य पालनं करोति अपि तु देहस्य धारणपोषणकार्ये जीवस्य सारथिरूपेण स्थित्वा देहरथं नयमानं मनः अपि निरूपयति । एवं पृथिव्याः पात्रं सुमहत् अस्ति । अतः एव सा मातृरूपिणी इति उक्तम् अस्माकं पूर्वजैः । “माता भूमिः पुत्रोहं पृथिव्याः” इत्यत्र भूमिः अथवा पृथ्वी माता, अहं तस्याः पुत्रः इति निर्दिष्टम् । भूमातुः उपकारः महान् । तम् उपकारं वर्णयितुं पदानि एव अपर्याप्तानि स्युः अस्माकं पदसङ्ग्रहे । अनन्तसंख्याकानां जीविनां निमित्तं तेषां देहस्य, इन्द्रियाणां, मनसः च स्वरूपस्य स्वभावस्य च अनुगुणम् असंख्यविधान् घन-द्रवरूपान् आहारपदार्थान् सृजति सा । तस्याः भूमातुः अनुग्रहादेव सर्वेपि जीविनः मनसः शरीरस्य पोषणाय वर्धनाय च निरन्तरम् आहारं प्राप्नुवन्ति । जीवः रसरूपस्य परमात्मनः किञ्चित् स्फुलिङ्गम् । प्रत्येकः अपि जीवः रसरूपस्य परमात्मनः अनुभवस्य प्राप्त्यर्थम् आवश्यकीं स्थितिं प्राप्नोति इत्यत्र भूमातुः योगदानं वर्णनातीतम् । सृष्टौ शिखरसदृशाय मानवाय तु रसरूपस्य परमात्मनः परंज्योतिरूपस्य अनुभवस्य प्राप्त्यर्थम् अनुकूलकराणां देहेन्द्रियाणां मनोवृत्तीनां च पालनपोषणाय अनेकान् रसमयान् पदार्थान् यच्छन्ती सा “रसा” इति एव निर्दिष्टा ।

गन्धद्रव्याणि

भूमौ प्राप्यमाणेषु आहारपदार्थेषु मधुरः, आम्लः, लवणः, कटुः, कषायः, तिक्तः इति षड् विधेषु रसेषु कश्चन रसः तु भवति एव । तण्डुलाः, गोधूमाः, मुद्गाः, माषाः, शाकानि, फलानि, मूलानि, पुष्पाणि, धान्यानि एवं सस्यजन्याः आहाराः ये सन्ति तेषु सर्वेषु एते षड्रसाः विभिन्नप्रमाणेन सन्ति । तेषां पदार्थानां विभिन्नप्रमाणेन योजनेन बहुविधाः आहाराः सिद्धाः भवन्ति । ते सर्वे अपि अस्माकं शरीरं मनः च पोषयन्ति । ते एव आहाराः देहस्य घटकाणां रसं, रक्तं, मांसं, मज्जा, मेदः, शुक्रम्, अस्थि इत्याख्यान् सप्तधातून् वर्धयन्तः मनसः आरोग्यं पोषयन्तः, हृदये अपि रसं पूरयन्तः सन्ति । विभिन्नेन प्रमाणेन रसानां योजनेन यथा आहारस्य नूतनानि रूपाणि सृष्टानि सन्ति तथैव पदार्थानां संयोगेन अपि आहारस्य नवरूपाणि सृष्टानि सन्ति । एवं रसानां सम्यग्रूपस्य संयोगेन सज्जीकृतः आहारः मनः देहेन्द्रियाणि च सन्तर्पयति ।

अन्तर्विषयाः

आहारस्य महत्त्वम्[सम्पादयतु]

अस्माकं शरीरं पृथ्व्यप्तेजोवाय्वाकाशाख्यैः पञ्चमहाभूतैः निर्मितम् अस्ति । एतेभ्यः पञ्चमहाभूतेभ्यः एव दोषाः उत्पद्यन्ते । वाय्वाकाशाभ्यां वातस्य, तेजसः पित्तस्य, पृथ्वीजलाभ्यां कफस्य च उत्पत्तिर्भवति[५] । अतः वातपित्तवासैः शरीरं स्थिरं भवति । किन्तु एतेषां विकृतस्थित्या शरीरे बहवः विकाराः अपि उत्पद्यन्ते । आहारनिद्राब्रह्मचर्यैः शरीराय आरोग्यं प्राप्यते । अतः एते उपस्तम्भाः कथ्यन्ते । तेषु आहारः प्रमुखः वर्तते [६]। प्राणिषु अन्नम् एव प्राणः वर्तते । अन्नाय एव सर्वे जनाः कार्यरताः सन्ति ।

वैज्ञानिकैः अपि आहारस्य ए, बी, सी, डी, ई इति विटामिन् रूपेण विभागः कृतः । शरीरे रोगाणाम् उत्त्पत्तौ सत्यां कस्य विटामिन् इत्यस्य आवश्यकता वर्तते इति चिकित्सकाः उपदिशन्ति । अतः शास्त्रे एका उक्तिः अस्ति यत् – “धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम्” इति [७]। अर्थात् धर्मः, अर्थः, कामः, मोक्षः इत्येतेषां पुरुषार्थाणां प्राप्त्यर्थं शरीरं निरोगी भवेत् इति आवश्यकम् ।

अन्नेन जीवानाम् उत्पत्तिः भवति । अतः तैत्तिरीयोपनिषदि अपि लिखितम् अस्ति यत् -


अन्नाद् भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते ।
अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते इति ॥तैत्तिरीयोपनिषद् ब्रह्मानन्दवल्ली द्वितीयोऽनुवाकः

उपर्युक्ते श्लोके अपि अन्नस्य महत्वं प्रतिपादितम् अस्ति । तेषां जीवानां वृद्धिः अपि तेन अन्नेन एव भवति । चरकाचार्येण अपि उक्तं यत् – “अन्नं वै प्राणाः” अर्थात् अन्नं प्राणात्मकं वर्तते इति [८]। योग्यकाले जीर्णाजीर्णस्य विचारानुसारेण योग्यप्रमाणेन एव आहारः ग्राह्यः । तेजः, आयुः उत्साहः, स्मृतिः ओजः इत्यादयः आहारेण एव प्राप्यन्ते ।

यथा यज्ञकर्मणि योग्यहुतिर्द्रव्याणाम् आहुतिभिः यज्ञाग्निः सौख्यदः भवति, तथैव योग्याहारेण अस्माकं जठराग्निः अपि सौख्यकरः भवति [९]। योग्याहारेण मानवः शतायुः भवति । यः मनुष्यः सर्वदा नियमितरूपेण आहारं स्वीकरोति सः रोगरहितः भवति ।

भारते ६४ कलासु पाकशास्त्रम् अपि एकम् । “सा विद्या या विमुक्तये” इति उक्त्यनुसारम् आहारः अपि मुक्तिप्रदायकः । अतः एव पाकशास्त्रम् अपि विद्यासु अन्तर्गतम् । तस्मात् एव उच्यते –

“आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ॥“इति ।
शुष्कफलानि

एवम् आहारस्य व्याप्तिः उदरतृप्तितः मोक्षप्राप्तिपर्यन्तम् अपि विस्तृता अस्ति । मोक्षस्य विषयः परित्यक्तः चेत् अपि इदानीम् अस्माभिः सेव्यमानः आहारः अस्माकम् आरोग्यस्य रक्षणे अपि असमर्थः अस्ति इति वयम् अपि जानीमः एव । पाकशास्त्रम् अपि तदा एव विद्या भवति यदा पदार्थाः धर्ममार्गेण प्राप्यन्ते । अथवा न्यायमार्गेण अर्जितेन धनेन स्वीकृताः स्युः । ते अपि पदार्थाः सहजस्वभावयुक्ताः भवेयुः । तादृशानां पदार्थानां सम्यक् योजनस्य ज्ञानम् अपि पाचकस्य स्यात् । “ऋषिरेव विजानाति द्रव्यसंयोगजं फलम्” इति उक्तिः एव अस्ति । द्वयोः पदार्थयोः योजनेन अमृतसदृशः आहारः सिद्धः भवेत्, कदाचित् विरुद्धं परिणामं जनयत् विषम् अपि सिद्धं भवेत् । विषम् इति उक्तौ तदा एव मूर्छां वा मरणं प्राप्यते इति न । धातुवैषम्येन अहितं परिणामं जनयति चेत् तदपि विषम् इत्येव उच्यते । उदाहरणार्थम् – मधु-घृतयोः समप्रमाणेन योजनं विषरूपं प्राप्नोति । पायसं नाम पयसा निर्मितः मधुररसप्रधानः द्रवपदार्थः । किन्तु तदेव पायसं मुद्गक्षीरयोः मिश्रणेन निर्मितं चेत् विषतुल्यम् एव । एवं पदार्थानां घटकस्वभावादपि भिन्नः हितकरः वा अहितकरः वा परिणामः सम्भवति तेषां योजनेन । तदर्थम् एव अस्माकं पूर्वजाः ऋषयः योगदृष्ट्या परिशील्य योगस्य भोगस्य च अनुगुणम् एव आहारनिर्माणस्य क्रमं सृष्टवन्तः । तं क्रमम् अपूर्वविद्यायाः रूपेण वर्धितवन्तः च । पुराणेषु इतिहासेषु च अपूर्वां पाकविद्यां जानन्तः बहवः दृश्यन्ते । तेषु नलः, भीमः च प्रख्यातौ । दौर्भाग्यं नाम अद्य तादृशी प्राचीना पाकविद्या विस्म्रियमाणा अस्ति । सर्वे अपि इच्छानुसारं पदार्थान् योजयित्वा नूतनान् आहारान् सृजन्तः सन्ति तस्य परिणामम् अजानन्तः एव ।

पाकस्य सज्जीकरणम्

आहारस्य प्रकाराः[सम्पादयतु]

आहारभक्षणेन शरीरस्य सर्वाणि अङ्गानि पुष्टानि भवन्ति । अन्नेन शरीरस्य शक्तिः अपि वर्धते । तादृशस्य आहारस्य प्रकारद्वयं वर्तते[१०] । सम्यगाहारः, असम्यगाहारः च ।

सम्यक् आहारः[सम्पादयतु]

यः आहारः प्रमाणयुक्तः, विधिपूर्वकः गृह्यते, सः सम्यगाहारः कथ्यते । एकैकस्य जीवस्य जठराग्निबलं भिन्नं वर्तते [११]। अतः सर्वेषां जीवानां जठराग्नेः बलानुसारम् आहारस्य प्रमाणं चिन्तनीयम् ।

विधिपूर्वकाहारे तु भक्ष्यपदार्थानां भोक्तुं सम्यक्तया विचारः कर्त्तव्यः । आहारस्य विधौ विशेषप्रकारकं ज्ञानम् आवश्यकं भवति । आहारे द्वादश-अशनप्रकारकं ज्ञानम् अपि आवश्यकं भवति । तदनुसारमेव आहारः ग्राह्यः । सः एव विधिपूर्वकः आहारः, सम्यगाहारश्च कथ्यते[१२]

अस्माकं शरीरस्य आवश्यकतानुसारं शारीरिकवृद्ध्यर्थं, सुस्वास्थ्यार्थं च पोषकतत्त्वानि गृहीतानि भवन्ति । कानिचिदपि पोषकतत्त्वानि आवश्यकतायाः अधिकानि न्यूनानि वा न भवेयुः इति । अस्माकम् आहारे पर्याप्तमात्रायां रुक्षांशः, जलं च भवितव्यम् । एतादृशः आहारः संतुलितः आहारः कथ्यते[१३]

सम्यक् आहारः एव अस्माकं शरीरस्य अवयवान् पुष्णाति, संरक्षति च । अवयवेषु याः क्षतयः भवेयुः, ताः क्षतीः पूरयति । शरीरस्य शक्तिं वर्धयति, जीवयति च । तथापि अष्टप्रकारकाणां विशेषायतनानां भोजने विचारः कर्त्तव्यः[१४]

  1. प्रकृतिः – आहारद्रव्याणां स्वाभाविकः गुणः ‘प्रकृतिः’ कथ्यते । स्वभावः अपि अपरं नाम ।
  2. करणम् – स्वाभाविकानां द्रव्याणां अभिसंस्कारः ‘करणम्’ इति कथ्यते ।
  3. संयोगः – द्वयोः बहूनां वा द्रव्याणां एकीकरणं ‘संयोगः’ कथ्यते ।
  4. राशिः – सर्वग्रहाणां, परिग्रहाणां, मात्रामात्रफलस्य निश्चयः ‘राशिः’ इति कथ्यते ।
  5. देशः – द्रव्याणाम् उत्पत्तिस्थानस्य विचारः कर्त्तव्यः । स्थानं शुद्धम् अशुद्धं वा स्यात् इति चिन्तनीयं भवति । तेभ्यः शुद्धद्रव्येभ्यः शरीरे रोगाः न उत्पद्यन्ते ।
  6. कालः – यः कालः येषां द्रव्याणां निर्धारितः स्यात्, तस्मिन् काले एव तानि द्रव्याणि भक्ष्याणि भवन्ति । तेन कारणेन स्वास्थ्यविकाराः न जायन्ते ।
  7. उपयोगसंस्था – अर्थात् द्रव्याणाम् उपयोगस्य नियमाः ज्ञातव्याः, द्रव्याणि जीर्णानि भवेयुः इति विचारः कर्त्तव्यः । अजीर्णानां द्रव्याणां भक्षणे आन्तरिकरोगाः उत्पद्यन्ते[१५]
  8. उपयोक्ता – यः जनः आहारस्य उपयोगं करोति सः उपयोक्ता कथ्यते ।

सम्यगाहारस्य द्वादशः प्रकाराः[१६][सम्पादयतु]

१ शीताहारः, २ उष्णाहारः, ३ स्निग्धाहारः, ४ रुक्षाहारः, ५ द्रवाहारः, ६ शुष्काहारः, ७ एककालाहारः, ८ समाग्न्याहारः, ९ औषधद्वैष्याहारः, १० मन्दाग्न्याहारः, ११ यथर्तुदत्ताहारः, १२ वृत्त्यर्थाहारः

असम्यक् आहारः[सम्पादयतु]

यः मात्रारहितः, अविधिपूर्वकः आहारः भवति, सः असम्यगाहारः कथ्यते । मात्रारहितः अर्थात् मात्रायाः अल्पत्वम् अधिकत्वं वा इति । अविधिपूर्वकम् अर्थात् यस्मिन् आहारे सामान्यनियमानां पालनं न भवति सः इति । यस्मिन् आहारे आत्मनः हिताहितं अपि न विचार्यते सः अविधिपूर्वकः आहारः कथ्यते[१७]

भगवता श्रीकृष्णेन तु श्रीमद्भगवद्गीतायाः पञ्चदशे अध्याये कथितं यत् –


अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१४॥ श्रीमद्भगवद्गीता, पञ्चदशः अध्यायः

“पचाम्यन्नं चतुर्विधम्” इत्यनुसारं भक्ष्यं, भोज्यं, लेह्यं, चोष्यम् च चतुर्विधम् अन्नम् वर्तते । एतादृशम् आहारज्ञानं क्षेमकरं भवति ।

आहारः स्वास्थ्यनाशाय स्वास्थ्यरक्षणाय च भवति । यदि सम्यगाहारः स्यात्, तर्हि स्वास्थ्यरक्षणं भविष्यति । किन्तु यदि असम्यगाहारः क्रियते तर्हि स्वास्थ्यस्य नाशः भवितुं शक्यते [१८]

आहारस्य विभिन्नविधाः[सम्पादयतु]

आहारः प्रधानतया द्विधा विभज्यते । शाकाहारः मांसाहारः च इति । सामान्यतया सस्यजन्यः आहारः शाकाहारः, प्राणिजन्यः आहारः मांसाहारः इति उच्यते ।

एतं भेदं विहाय अपि आहारः त्रिविधः भवति इति उक्तम् अस्ति । सात्विकः आहारः, राजसिकः आहारः, तामसिकः आहारः च इति । भगवद्गीतायां तेषां त्रयाणाम् अपि आहाराणां विवरणं कृतम् अस्ति भगवता श्रीकृष्णेन

“कट्वाम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥“
दक्षिणभारतीयशैल्या सज्जीकृतं ताम्बूलम्

कटुप्रधानः, आम्लप्रधानः, लवणप्रधानः, अत्युष्णः, तीक्ष्णः, रूक्षः वा आहारः राजसिकः । सः शोकं मोहं च जनयति इति ।

“यातायामं गतरसं पूतिपर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।“

निर्माणानन्तरं यामः अतीतः, रसहीनः, दुर्गन्धयुक्तः, पर्युषितः, उच्छिष्टः, अमेध्यः वा आहारः तामसिकः इति ।


“आयुस्सत्व-बलारोग्य-सुख-प्रीति-विवर्धनाः ।
सात्विकैः आहारपदार्थैः निर्मितं भारतीयं भोजनम्
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विकप्रियाः ॥“

आयुः, सत्त्वं, मनोबलं, देहबलम्, आरोग्यं, सुखं, प्रीतिं वा जनयन् घृतमिश्रितः, हृदयस्य हितकरः वा आहारः सात्त्विकः इति ।

तथैव आहारे औषधगुणः अस्ति इति यं कमपि आहारं सेवन्ते इदानीन्तनाः जनाः । तथा न करणीयम् । यत् सेवनीयं तदेव सेवनीयं, नान्यत् । किञ्चन सुभाषितम् औषधगुणयुक्तम् इति शुनकस्य मांसं कोपि विचक्षणः न सेवते इति वदति ।

"रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके ।
कथिता इति तत् किं स्यात् भक्षणीयं विचक्षणैः ॥"
फलानि

अतः औषधीयगुणयुक्ताः अपि राजसिकः वा तामसिकः वा आहाराः न सेवनीयाः एव । सात्त्विकस्य आहारस्य सेवनेन गुणस्वभावाः अपि सात्त्विकाः भवन्ति । राजसिकस्य तामसिकस्य वा आहारस्य वा सेवनेन गुणस्वभावाः अपि तद्वत् एव भवन्ति । तेन गृहं सङ्घर्षस्य क्षेत्रं भवति । तदपेक्षया राजसिकस्य वा तामसिकस्य वा आहारस्य स्थाने तदौषधीयगुणयुक्तः सात्त्विकः अन्यः कोपि आहारः सेवनीयः बुद्धिमता ।

आहारद्रव्याणि[सम्पादयतु]

द्वादशप्रकारकाणि आहारद्रव्याणि भवन्ति । आचार्यचरकेण चरकसंहितायां द्वादशप्रकाराः वर्णिताः सन्ति यथा –


शूकधान्यशमीधान्यमांसशाकफलाश्रयान् ।
वर्गान् हरितमद्याम्बु गोरसेक्षुविकारिकान् ॥ [ चरकसंहिता, सूत्रस्थान, २७.६ (आन्नपानविधि)]

१ शूकधान्यं, २ शमीधान्यं, ३ मांसवर्गः, ४ शाकवर्गः, ५ फलवर्गः, ६ मद्यवर्गः, ७ जलवर्गः, ८ गोरसवर्गः, ९ हरितवर्गः, १० इक्षुविकारवर्गः, ११ स्नेहवर्गः एते आहारस्य प्रकाराः सन्ति [१९]। एतेषु वर्गेषु शाकाहारः मांसाहारः इत्येतौ द्वौ प्रकारौ स्तः । मांसवर्गं विहाय सर्वे वर्गाः शाकाहारस्य वर्गाः सन्ति । केवल मांसवर्गः एव मांसाहारे ज्ञातव्यः ।

शूकधान्यम् (Cereals)[सम्पादयतु]

अस्मिन् वर्गे गोधूमः, अक्षताः, यवः इत्यादीनि प्रमुखानि धान्यानि सन्ति । तानि शरीरबलप्राप्तये मुख्यानि धान्यानि सन्ति । तैः धान्यैः ७० तः ८० प्रतिशतं बलं प्राप्तुं शक्यते । कार्बोहाइड्रेट्-तत्त्वं शूकधान्येषु मुख्यत्वेन प्राप्यते । प्रोटीन्-तत्त्वं ६७ तः ७२ प्रतिशतं प्राप्यते । क्षार-तत्त्वं तु अल्पमात्रायाम् एव प्राप्यते । शूकधान्येषु “विटामीन्-सी” इत्येतत् तत्त्वं स्वल्पमात्रायां स्थितं भवति । किन्तु “विटामीन्-बी” एतत्तत्त्वं नैवोपलभ्यते[२०]

शीतः, स्निग्धः, स्वादुः, त्रिदोषघ्नः, स्थिरात्मकः च तेषां धान्यानां गुणाः सन्ति ।

शमीधान्यम् (Pulse-or Di-cotyledons)[सम्पादयतु]

प्रायः द्विदलधान्यानि शामीधान्यवर्गे गण्यन्ते । मुद्गाः, माषाः, तिलानि इत्यादीनि द्विदलधान्यानि सन्ति । शमीधान्येषु प्रोटीन्-तत्त्वस्य आधिक्यं भवति[२१] । तेभ्यः धान्येभ्यः “विटामिन्-सी” इति एतत्तत्त्वं प्राप्यते ।

कषायः, मधुरः, रुक्षः, लघुः, विपाके कटुः, विशदः, कफपित्तनाशकः, वॄष्यः, वातहरः च शमीधान्यानां गुणाः सन्ति [२२]

मांसवर्गः (Non-vegetable)[सम्पादयतु]

मांसवर्गे अष्टप्रकारकाः मांसजीवाः सन्ति ते-

  1. प्रसहपशुपक्षीगणः - ये जीवाः आहारं दृष्ट्वा बलाद् अपहृत्य खादन्ति, ते प्रसहपशुपक्षीगणस्य जीवाः कथ्यन्ते ।
  2. भूमिशयजीवाः – ये जीवाः बिलाश्रिताः भवन्ति, ते भूमिशयजीवाः कथ्यन्ते ।
  3. आनूपजीवाः – अनूपप्रदेशाश्रयिणः ये जीवाः सन्ति ते आनूपजीवाः कथ्यन्ते ।
  4. जलचरजीवाः – ये जीवाः जलाश्रयिणः सन्ति, ते जलचरजीवाः कथ्यन्ते ।
  5. वन्यजीवाः – ये जीवाः अरण्ये निवसन्ति, ते वन्यजीवाः कथ्यन्ते ।
  6. विष्किरजीवाः – ये जीवाः चञ्चुपादाभ्याम् आहारम् गवेष्यमाणाः सन्ति ते जीवाः विष्किरजीवाः कथ्यन्ते ।
  7. पशुपक्षिणः – ये जीवाः चञ्चुपादाभ्यां पुनः पुनः आधानं कृत्वा भक्षयन्ति ते ।
  8. वारिजाः - ये जीवाः नित्यं जले एव निवसन्ति, ते वारिजाः कथ्यन्ते[२३]

एते जीवाः भक्ष्यमाणाः भवन्ति । किन्तु तेषां भक्षणे बहवः विषयाः विचारणीयाः भवन्ति । “सद्योहतं वयस्थं च, शुद्धं सुरभि शस्यते” एतादृशं मांसं भक्षणयोग्यं भवति[२४]


अतिमेद्यं त्यजेन्मांसं, हतः व्याधिविषोदकैः ।
स्वयम् हतं धूमपर्णमगोचरमृतं कृशम् ॥

एतादृशं मांसं कदाऽपि नैव भक्ष्यम् । मांसस्य परीक्षणं कृत्वा एव भक्ष्यम् । चरः, शरीरावयवाः, स्वभावः, धातवः, क्रियाः, लिङ्गं, प्रमाणं, संस्कारः, मात्रा इत्यादीनि नवविधानि परीक्षणानि सन्ति । यदि परिक्षणं न क्रियते, तर्हि रोगाः भवितुं शक्नुवन्ति[२५]

पञ्चप्रकारैः मांसस्य सञ्चयः भवति यथा - १ शुष्कीकरणे (Drying of Dehydration), धूमने (smoking), शितलीकरणे (cold), उष्णीकरणे (heat), रासायणिकप्रक्रियया (chemical) च[२६] । किन्तु “न हिन्स्यात्सर्वजीवाः” इति न्यायेन मांसभक्षणं नैव कर्त्तव्यम् ।

शाकवर्गः (Vegetables)[सम्पादयतु]

शाकः (व्यञ्जनं), हरितशाकः (पर्णयुक्तव्यञ्जनम्) इत्येतौ शाकवर्गस्य द्वौ प्रकारौ स्तः । पटोलः, धामागर्वः, तुम्बी, सुकन्दकः, पलाण्डुः, पुष्पवरं, बिम्बिका, कुष्माण्डः, कर्कोट, सुषती, कारवेल्लं, कर्कटी इत्यादयः शाकवर्गे विद्यन्ते[२७]

फलवर्गः (Fruits)[सम्पादयतु]

नारङ्गः, नारिकेलः, पनसः, दाडिमः, द्राक्षा, मधुरा, राजादनः, शिंचितिका, सीताफलम्, आमलकः, आम्रं, कदलीफलं, दन्तशठफलं, चिर्भिटं, तोयफला इत्यादीनि सर्वाणि फलानि फलवर्गे भवन्ति । फलवर्गस्य सर्वेभ्यः फलेभ्यः विटामिन्-तत्त्वानि प्राप्यन्ते[२८] । अतः शास्त्रनियमानुसारं फलानां भक्षणं कर्त्तव्यम् ।


व्याधितं कृमिजुष्टं च पाकातीतमकालजम् ।
वर्जनीयं फलं सर्वम् अपर्यागतमेव च[२९]

उपर्युक्ते श्लोके फलस्य परीक्षणानि प्रदत्तानि सन्ति । अतः अपक्वफलानि न खादितव्यानि इति । फलवर्गे शुष्कफलानि अपि भवन्ति यथा – अङ्कोलः, एला, मागघी, गोक्षुरकः, चन्द्रशूरः, चित्रकोटः, जातिः, चोचं, प्रियालं, मिश्रेया, महौषधम् च[३०]

मद्यवर्गः (Alcoholic Drinks)[सम्पादयतु]

यवासवः, मध्वासवः, द्राक्षासवः च मद्यवर्गे विद्यते ।


हर्षणं प्रीणनं मद्यं भयशोकश्रमापहम् ।
प्रागल्भ्यवीर्यप्रतिभा तुष्टिपुष्टिबलप्रदम् ॥

औषधालये निर्मितानाम् आसवानां परीक्षणं कृत्वा एव उपयोगः कर्त्तव्यः[३१]

जलवर्गः[सम्पादयतु]

जलं षड्गुणयुक्तं भवति यथा – शीतं, शुचिः, शिवं, निर्मलम् च । मधुरता, बलदता, कफहरता, वातहरता, वृष्यं, स्निग्धता इत्यादयः अपि जलस्य सामान्यगुणाः भवन्ति । उष्णजलं, शीतजलं, समोष्णजलं, नारिकेलोदकं, नद्युदकम् इत्यादयः जलस्य प्रकाराः सन्ति[३२]

गोरसवर्गः[सम्पादयतु]

गोभ्यः प्राप्ताः रसाः गोरसाः उच्यन्ते । यथा – दुग्धं, दधि, तक्रं, घृतम् इत्यादयः गोरसवर्गे सन्ति । गव्यत्वेन एतेषां रसानां समावेशः भवन्ति[३३]

हरितवर्गः[सम्पादयतु]

दलमालिनी, पालङ्की, मारीषः इत्यादीनि पर्णयुक्तव्यञ्जनानि भवन्ति । तानि हरितशाकानि इति कथ्यन्ते । सर्वाणि व्यञ्जनानि स्निग्धलवणमरिचादिभिः पच्यानि भवन्ति [३४]

इक्षुविकारवर्गः[सम्पादयतु]

इक्षुदण्डेभ्यः रसः प्राप्यते । तेन रसेन शर्करा, गुडः इत्यादयः पदार्थाः निर्मीयन्ते । मधुरोर्जायाः उत्पादने इक्षुदण्डः प्रयुज्यते[३५]

स्निग्धवर्गः (Oil and Fats)[सम्पादयतु]

नवनीतं, घृतं, वनस्पतिघृतं (Hydrogenated oil), वानस्पतितैलम् (Vegetable oils), तिलेभ्यः, कार्पासात्, सूर्यमुखिनः प्राप्तानि तैलानि स्निग्धवर्गे समाविष्टानि भवन्ति । एतेषां तैलानां भक्षणेन A.D.I. नामकं विटामिन्-तत्त्वं प्राप्यते[३६]

आहारपदार्थाः[सम्पादयतु]

पाकशालायां कार्यं कुर्वद्भिः सर्वैः अपि तत्र विद्यमानानां नित्योपयोगीनां पदार्थानां सर्वेषाम् अपि गुणस्य, धर्मस्य च ज्ञानं भवेत् । भारते तु पूर्वं गृहिण्यः सर्वाः तादृशं ज्ञानं श्रवणद्वारा एव प्राप्नुवन्ति स्म । स्मृतिद्वारा एव अग्रिमान् पाठयन्ति स्म च । अयं पदार्थः उष्णप्रधानः, अयं च वायुकारकः, अयम् अजीर्णकारी, अयं हितकारकः इति पदार्थानां गुणं धर्मं च जानन्त्यः स्मरन्त्यः एव योग्यप्रमाणेन आवश्यकतानुसारं तेषाम् उपयोगं कुर्वन्ति स्म ताः । कस्मिंश्चित् अपि विश्वविद्यालये दीर्घकालीनं शिक्षणं न प्राप्तवत्यः आसन् ताः पाकशास्त्रविषये । तथापि गृहे विद्यमानानां सर्वेषाम् आरोग्यरक्षणं कुर्वन्ति स्म ताः । यतः ताः विवेकमतयः आसन्, सम्यक् पाकविद्यां च जानन्ति स्म । सामान्यतया जायमानस्य ज्वरस्य, पीनसस्य, अजीर्णस्य, वमनस्य, शरीरवेदनायाः, शिरोवेदनायाः वा औषधं गृहे विद्यमानं शुण्ठीं, मरीचं, हरिद्रां, मधु, घृतं वा आहारपदार्थम् एव उपयुज्य निर्मान्ति स्म पूर्वम् । इदानीं तत्सर्वम् अपि विपरीतं जातम् अस्ति । लघु लघु विषयार्थम् अपि वैद्यान् एव पश्यन्ति, गुलिकाः द्रवरूपम् औषधं वा सेवन्ते । एतत् किमपि शुभलक्षणं न । “भारतस्य आहारसम्पत्तिः विशिष्टा” इति ज्ञानं सर्वेषां भवेत् अस्माकम् । तदर्थम् एव नित्योपयोगीनां प्रमुखाणां सात्त्विकानाम् आहारपदार्थानां काञ्चित् आवलीं वयम् एवं सज्जीकर्तुं शाक्नुमः ।

राष्ट्रनायकस्य गृहं परितः सुभद्रा रक्षणव्यवस्था भवति, अन्ये अन्तः न प्रविशेयुः इति । तथैव अस्माकं शरीरनामकस्य राष्ट्रस्य नायकः आत्मा । आत्मनः हानिकारकाणि वस्तूनि आहाररूपेण अपि अन्तः न प्रविशेयुः । तदर्थम् आत्मरक्षणस्य व्यवस्था अपि अस्माभिः कल्पनीया । जिह्वायाः चापल्यस्य वशीभूत्वा आत्मनः हानिकारकाः अपि आहाराः रुचिकराः इति यदा चिन्त्यते तदा एव अनर्थपरम्परा आरप्स्यते । भारतीयपरम्परायाम् आदर्शभूतः आहारक्रमः आत्मना इन्द्रियैः च सम्मतः आहारक्रमः एव । अस्माकं जीवने मुख्यं पात्रं वहतः आहारस्य विषये अस्माभिः दीयमानं महत्त्वम् अपर्याप्तम् एव । जिह्वायाः चापल्यस्य वशीभूताः वयं सर्वोत्कृष्टं भारतीयम् आहारज्ञानं परित्यज्य राजसं तामसं वा आहारं सेवमानाः दैवत्वात् दानवतायाः दिशि गच्छन्तः स्मः । भारते जन्म प्राप्य अपि वयं भारताः न जाताः एव । अस्माकं पितृपितामहैः अनुसृतः प्रशस्तः आहारमार्गः अस्माभिः अपि अनुसरणीयः । तदा एव वयमपि ते इव महान्तः भवामः । विभिन्नेषु प्रदेशेषु विभिन्नाः आहारपदार्थाः वर्धन्ते । वातावरणम् अपि विभिन्नेषु प्रदेशेषु विभिन्नम् एव भवति । अतः तत्तत् वातावरणानुगुणं तत्र तत्र ये अहारपदार्थाः वर्धन्ते तेषाम् उपयोगः क्रियते । अतः एतानि विहाय इतोऽपि आहारपदार्थाः सन्ति एव । एषा आवली न परिपूर्णा ।

षड्रसयुक्तः आहारः[सम्पादयतु]

आहारे रसाः षड्प्रकारकाः भवन्ति । भोजने यथाप्रमाणं रसानां ग्रहणं करणीयम् भवति । यथा – मधुरः, अम्लः, लवणः, कटुः, तिक्तः, कषायः च षड्रसाः सन्ति ।

मधुररसः[सम्पादयतु]

शुक्राभिवर्धनं, आयुष्यम्, षडिन्द्रियप्रसादनम्, बलवर्णकरः, पित्तविषमारुत्तघ्नः, त्वच्यः, केश्यः, कण्ठ्यः, बल्यः, प्रीणनः, जीवनः, तर्पणः, बृंहणः, स्थैर्यकरः, क्षीणक्षतसन्धानकरः, घ्राणमुखकण्ठौष्ठजिह्मप्रह्लादनः, दाहमूर्च्छाप्रशमनः, पिपीलिकानांज् इष्टतमः स्निग्धः गुरुः शीतः इत्यादयः गुणाः मधुररसाहारे भवन्ति[३७]

अम्लरसः[सम्पादयतु]

अम्लरसः देहं बृंहयति, अग्निं दीपयति, भुक्तं रोचयति, मनः बोधयति, इन्द्रियाणि दृढीकरोति, बलं वर्धयति, वातम् अनुलोमयति, हृदयं तर्पयति, आस्यम् आस्रावयति, भुक्तं अपकर्षयति च । स्निग्धः, लघुः, उष्णः च अम्लरसस्य गुणाः सन्ति[३८]

लवणरसः[सम्पादयतु]

लवणरसः क्लेदनः, वातहरः, आस्यम् आस्रावयति, कफं विष्यन्दयति, मार्गान् विशोधयति, शरीरावयवान् मृदूकरोति, आहारं रोचयति च [३९]

कटुरसः[सम्पादयतु]

कटुरसः अग्निं दीपयति, भुक्तं शोषयति, घ्राणम् आस्रावयति, चक्षुः विरेचयति, इन्द्रियाणि स्फुटीकरोति, अशनं रोचयति, कण्डुः विनाशयति, व्रणान् अवसादयति, क्रिमीन् हिनस्ति, श्लेष्माणं शमयति च । लघुः उष्णः रुक्षः च कटुरस्य गुणाः सन्ति [४०]

तिक्तरसः[सम्पादयतु]

विषघ्नः, कृमिघ्नः, ज्वरघ्नः, दीपनः, मांसयोः स्थिरीकरणम्, पाचनम्, स्तन्यशोधनम्, लेखनम्, रुक्षः शीतः लघुः इत्यादयः तिक्तरसस्य गुणाः सन्ति [४१]

कषायरसः[सम्पादयतु]

संशमनः, पीडनोरोपणः, शोषणः, स्तम्भनः, श्लेष्मरक्तपित्तप्रशमनः, शरीरक्लेदस्योपयोक्ता, रुक्षः, शीतः, गुरुः इत्यादयः कषायरस्य गुणाः सन्ति [४२]

एतेषु षड्रसेषु “गुरुः, लघुः, शीतः उष्णः, स्निग्धः, रुक्षः, मन्दः, तीक्ष्णः, स्थिरः, सरः, मृदुः, कठिनः, विशदः, पिच्छलः, श्लक्ष्णः, स्वरः, सूक्ष्मः, स्थूलः, सान्द्रः, द्रवः एते विंशतिः गुणाः भवन्ति[४३] । सर्वे रसाः पाञ्चभौतिकाः भवन्ति । अर्थात् षड्रसानां प्रकृतिः पृथ्वीजलवाय्वाकाशाग्निभिः निर्मिता भवति ।

आहारः षड्रसैः युक्तः भवेत् इति शास्त्रे निहितम् अस्ति । तेन स्वास्थ्ये लाभः भवति । भोजनस्य प्रारम्भे नित्यं लवणार्द्रकः भक्ष्यः । तदनन्तरं भोजने सर्वप्रथमं द्रवरूपं ग्राह्यं, मध्ये कठोररूपं, अन्ते च पुनः द्रवरूपं ग्राह्यम् । पूर्वं मधुररसीयाः पदार्थाः ग्राह्याः, मध्ये अम्ललवणयुताः पदार्थाः, अन्ते च कटुतिक्तकषायाः पदार्थाः ग्राह्याः इति शास्त्रे नियमः[४४]

षड्रसानां पाञ्चभौतिकी प्रकृतिः[४५][सम्पादयतु]

  1. मधुररसः – पृथ्वीजलयोः संसर्गेण मधुररसः उत्पद्यते ।
  2. अम्लरसः – पञ्चमहाभूतेषु अग्निपृथ्व्योः संसर्गेण अम्लरसः भवति ।
  3. लवणरसः – पञ्चमहाभूतेषु अग्निजले लवणरसे निहिते भवतः ।
  4. कटुरसः – अग्निवाय्वाख्ये तत्त्वे कटुरसे प्राप्येते ।
  5. तिक्तरसः – वाय्वाकाशतत्त्वे तिक्तरसे प्राप्येते ।
  6. कषायरसः – कषायरसः पृथ्वीवायुतत्त्वयुतः भवति ।

सामान्याहारे विभिन्नतत्त्वानां प्रमाणम्[सम्पादयतु]

प्रोभूजनं, कार्बोजः, वसा, खानिजलवणं, जलं, जीवनीयतत्त्वानि एतानि तत्त्वानि आहारेषु सप्रमाणं भवेयुः । तदर्थं तेषां तत्त्वानां प्रमाणमपि ज्ञातव्यं भवति [४६]

  • शरीरस्य सञ्चालनाय शक्तेः, उष्मायाः आवश्यकता वर्तते । अतः कार्बोजेन, वसया, प्रोभूजेन च शक्तिः, उष्मा च प्राप्यते ।
  • प्रोभूजनेन, खानिजतत्त्वेन, जलेन च शरीरस्य स्नायूनां वृद्धिः, क्षतिपूर्तिः च भवति ।
  • जीवनीयतत्त्वैः, खानिजतत्त्वेन, जलेन च शरीरे शक्तिसञ्चारः भवति[४७]
क्रमांक तत्त्वम् प्रमाणम्
प्रोभूजनम् ७५.१०० ग्राम्
कार्बोजः ४००.५०० ग्राम्
वसा ७५.१०० ग्राम्
लवणम् ७५.१०० ग्राम्
फास्फोरस् १.५ ग्राम्
जीवनीयतत्त्वम् १.५ ग्राम्
लोहतत्त्वम् १.५ मि. ग्राम्
आयोडीनतत्त्वम् १५० मि. ग्राम्
ताम्रांशतत्त्वम् १०५ मि. ग्राम्
जीवनीयतत्त्वानि
ए (A) ५०००
डी (D) १०००
बी -१ (B-1) १.२ मि. ग्राम्
बी -२ (B-2) २.० मि. ग्राम्
निकोटिक् एसिड् १.२ मि. ग्राम्
सी (C) ५०० मि. ग्राम्
जलम् २.४ प्रतिशतं परिमितम्

आहारस्य लाभः[सम्पादयतु]

यदि आहारः विचारपूर्वकः क्रियते तर्हि सः सर्वदा लाभकरः, आनन्दकरः, सुखदः, मनः प्रसन्नताधायकः, वीर्यदः, बलदः, पुष्टिदः, सन्तोषप्रदः, हर्षदः, संस्कारदः, वातहरः, अस्थिसन्धानकरः, श्लेष्मरक्तपित्तप्रशमनः, विषघ्नः, कृमिघ्नः, अग्निप्रदीपकः, शरीरावयवान् मृदुकरः च भवति[४८]

अतः उक्तं च – “देहः आहारसम्भवः” इति । आहारः बलकारकः अपि अस्ति । आहारेण आयुः, तेजः, उत्साहः, स्मृतिः, ओजः, अग्निः च विवर्धते ।


प्राणाः प्राणभृतामन्नम् अन्नं लोकोभिधावति ।
वर्णः प्रसादः सौस्वर्यं जीवितं प्रतिभासुखम् ॥

अपरम् अपि उक्तं च - “यच्चाप्रियमपथ्यं च नियतं तन्न भक्षयेत्” अर्थात् यः आहारः अप्रियः, अनित्यः भवेत् सः आहारः न भक्ष्यः । अतः हितभुक्, मितभुक्, ऋतभुक् इत्यनेन नियमेन एव आहारः भक्ष्यः । तदैव मानवः लाभान्वितः भवति । अजीर्णे भोजनं वर्ज्यम् अस्ति । सः अहिताहारः अपि कथ्यते । अहिताहारः भक्षणे हानिकारकः भवति[४९]

आहारस्य नियमाः[सम्पादयतु]

मानवजीवनैः आहारस्य आवश्यकता सर्वदा भवति । आहारेण शरीरस्य विकासः, मानसिकविकासः च शक्यः भवति । आहारेण एव जठराग्निः अपि प्रदीप्तः भवति[५०]

आहारभक्षणे बहवः नियमाः भवन्ति । तेषु केचित् नियमाः अत्र प्रदत्ताः सन्ति ।

करौ पादौ च प्रक्षाल्य एव भोजनं करणीयम् इति सर्वप्रथमः नियमः । कारणं करपादप्रक्षालनेन स्वच्छता भवति । तेन आयुष्यवृद्धिः अपि जायते [५१]। तदनन्तरं कस्मिन् पात्रे भोजनं कर्त्तव्यम् इति अपि चिन्तनीयम् । अतः सुवर्णपात्रे, पलाशपत्रे, पद्मपत्रे च आहारः स्वीकर्त्तव्यः । किन्तु मृत्तिकायाः पात्रे, लोहपात्रे, ताम्रपात्रे च भोजनं न करणीयं । एतानि पात्राणि शास्त्रे निषिद्धानि सन्ति [५२]। एतेषु वर्ज्यपात्रेषु भोजनेन मनुष्यः नरकं प्राप्नोति ।

भोजनसमये दिग्विचारः अपि करणीयः । पूर्वाभिमुखम्, उत्तराभिमुखं वा उपविश्य एव भोजनं करणीयम् । पात्रे भोजनं कथं कुत्र वा परिवेषणीयम् इत्यपि विचारणीयं भवति । यथा पात्रस्य मध्ये घृतयुक्तम् अन्नं, पात्रस्य वामतः भक्ष्यं भोज्यं चाहारः, पात्रस्य दक्षिणे पायसं, पात्रस्य पुरतः शाकानि च परिवेषणीयानि भवन्ति[५३]

यत् भोजनं केशैः, नखैः वा दूषितं भवेत् , तत् भोजनं न स्वीकर्त्तव्यम् । “अति सर्वत्र वर्जयेत्” इति नियमानुसारम् अति भोजनम् अपि न कर्त्तव्यम्[५४] । लवणादीनि व्यञ्जनानि हस्तदत्तानि न भक्षयेत् इति नियमः अपि अनुसरणीयः । जलं वामहस्र्ते धृत्वा दक्षिणमणिबन्धे निधाय पिबेत् ।

बुभुक्षायां सत्याम् एव भोजनं ग्राह्यम् । बुभुक्षायाः तृप्तिपर्यन्तम् एव भक्ष्यम् । एकाग्रचित्तेन, शान्त्या च भोजनं कुर्यात् । भोजने खाद्यपदार्थानां मात्रा अधिका मा भवेत् इति चिन्तनीयम्[५५] । सामान्यभोजनं, अल्पाहारः च स्वीकर्त्तव्यः । भोजनसमये जलं न पिबेत् । भोजनस्य ३० निमिषेभ्यः पूर्वं, ५० निमिषेभ्यः पश्चात् वा जलं पिबेत् ।

अपच्यं भोजनम् अपि न कुर्यात् । भक्ष्यपदार्थाः प्रक्षाल्यैव उपयुज्याः । मौनेन एव भोजनं करणीयम् । अत्युष्णं, अतिशीतलं वा भोजनं न ग्राह्यम् । तेन भोजनेन जठराग्निः प्रभावितः भवति [५६]। पाचने अपि दुष्करं भवति । भोजनसमये चलचित्रं, दूरदर्शनं वा मा पश्येत् ।

उष्णं भोजनं स्वादिष्टं भवति । उष्णभोजनेन पाचने सहाय्यं भवति । आहारे ७०% कठोरं, ३०% द्रवं च भोजनं भवेत् । भोजनानन्तरं होरात्रयानन्तरम् एव शयनं करणीयम्[५७] । तेन पाचने सारल्यं भवति । अन्यथा अजीर्णता भवितुं शक्यते ।

अस्माकं शरीरस्य पाचनशक्तिः निर्धारिता भवति । मनुष्यजीवने मांसाहारः वर्ज्यः अस्ति । अतः मांसाहारः न भक्ष्यः । शाकाहारेण शरीरस्य बलं वर्धते । तण्डुलाः, मुद्गाः इत्यादयः उपाहारः कथ्यन्ते [५८]। उपाहारः अधिकमात्रायां स्वीकर्त्तव्यः ।

चरकसंहितानुसारं भोजनस्य दशनियमाः[५९][सम्पादयतु]

  1. उष्णाहारः स्वीकर्त्तव्यः । उष्णाहारेण जठराग्निः अधिकः प्रदीप्तः भवति । तेन शीघ्रतया भोजनं पचति ।
  2. स्निग्धाहारः ग्राह्यः । स्निग्धाहारः शरीरं पोषयति, इन्द्रियाणि दृढीकरोति च ।
  3. मात्रापूर्वकः आहारः ग्राह्यः । शरीरस्य पाचनशक्तेः अनुकूलः आहारः स्वीकर्त्तव्यः । उचितमात्रायाम् आहारेण स्वास्थ्यसंरक्षणं भवति ।
  4. पाचनानन्तरम् एव भोजनं स्वीकरणीयम् ।
  5. अविरुद्धवीर्ययुतः आहारः ग्राह्यः । परस्परविरुद्धवीर्याहारेण रोगाः उत्पद्यन्ते ।
  6. अनुकूलस्थाने आहारः ग्राह्यः । यत्स्थानं प्रियं भवेत्, तत्रैव भोक्तव्यम् । यदाहारः प्रियः भवेत्, तदाहारः एव भक्ष्यः ।
  7. शीघ्रतया न भक्ष्यम् । शीघ्रभक्षणेन पाचने विलम्बः भवति ।
  8. मन्दगत्या न भक्ष्यम् । मन्दभक्षणेन भोजने तृप्तिः न भवति । तेन कारणेन आहारः शीतलः, पाकः विषमश्च भवति ।
  9. एकाग्रचित्तेन आहारः ग्राह्यः । एकाग्रचित्तेन भोजनस्य पाचने सारल्यं भवति ।
  10. आत्मशक्तेः अनुसारम् आहारः स्वीकर्त्तव्यः । आहारः लाभकरः, हानिकरः वा अस्ति इति चिन्तनीयम् । तदनन्तरं शक्तेः अनुसारम् आहारः ग्राह्यः । तादृशः आहारः हितकरः भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६६. 
  2. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५. 
  3. "चरक सहिंता से उद्धृत भोजन करने के दस अनमोल नियम (अखिल विश्व गायत्री परिवार)". hindi.awgp.org. Retrieved २९ जनवरी २०१५. 
  4. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६०. 
  5. वैद्य सुरेश चतुर्वेदी. आहार चिकित्सा. सुबोध पब्लिकेशन्स्. p. ७. ISBN 8170780098. 
  6. वैद्य सुरेश चतुर्वेदी. आहार चिकित्सा. सुबोध पब्लिकेशन्स्. p. ७. ISBN 8170780098. 
  7. वैद्य सुरेश चतुर्वेदी. आहार चिकित्सा. सुबोध पब्लिकेशन्स्. p. ८. ISBN 8170780098. 
  8. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६०. 
  9. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६०. 
  10. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६१. 
  11. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६१. 
  12. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६१. 
  13. राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद् (2010). विज्ञान (कक्षा ६). राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद्. p. १४. ISBN 8174505261. 
  14. राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद् (2010). विज्ञान (कक्षा ६). राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद्. p. ६५. ISBN 8174505261. 
  15. राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद् (2010). विज्ञान (कक्षा ६). राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद्. p. ६६. ISBN 8174505261. 
  16. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६६. 
  17. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६१. 
  18. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६६. 
  19. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२. 
  20. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२. 
  21. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२. 
  22. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२. 
  23. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२. 
  24. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३. 
  25. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३. 
  26. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३. 
  27. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३. 
  28. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३. 
  29. "sushruta sutra sthan". peterffreund.com. Retrieved २० जनवरी २०१५. 
  30. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३. 
  31. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३. 
  32. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४. 
  33. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४. 
  34. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३. 
  35. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४. 
  36. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४. 
  37. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४. 
  38. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४. 
  39. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४. 
  40. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४. 
  41. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५. 
  42. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५. 
  43. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५. 
  44. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५. 
  45. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५. 
  46. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६६. 
  47. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६७. 
  48. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६९. 
  49. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६९. 
  50. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७०. 
  51. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७०. 
  52. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७०. 
  53. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७१. 
  54. आयुर्वेदः (मध्यमा १). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७१. 
  55. "a premier health wikipedia भोजन करने के आवश्यक नियम (Necessary rule of taking FOOD)". maintainbodyfitness.blogspot.in. Retrieved २९ जनवरी २०१५. 
  56. "a premier health wikipedia भोजन करने के आवश्यक नियम (Necessary rule of taking FOOD)". maintainbodyfitness.blogspot.in. Retrieved २९ जनवरी २०१५. 
  57. "Health for all Dr. Vyas – भोजन के नियम, जिन्हे अपना कर सौ वर्ष जियें". healthforalldrvyas.blogspot.in. Retrieved २९ जनवरी २०१५. 
  58. "Health for all Dr. Vyas – भोजन के नियम, जिन्हे अपना कर सौ वर्ष जियें". healthforalldrvyas.blogspot.in. Retrieved २९ जनवरी २०१५. 
  59. "चरक सहिंता से उद्धृत भोजन करने के दस अनमोल नियम (अखिल विश्व गायत्री परिवार)". hindi.awgp.org. Retrieved २९ जनवरी २०१५. 
"http://sa.wikipedia.org/w/index.php?title=आहारः&oldid=295429" इत्यस्माद् पुनः प्राप्तिः