नलः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
दमयन्ति
दमयन्ति
दमयन्ति
दमयन्ति, नल महराजस्य प्रियतमा
दमयन्ति, नल महराजस्य प्रियतमा
दमयन्ति, नल महराजस्य प्रियतमा


निषधेषु परमधार्मिकः नलो नाम राजा अभवत् । स कदाचित्स्नातुं सरो गतो हंसानपश्यत् । अथ तेष्वेकं राजहंसं स कुतूहलादगृह्णात् । भूभृता गृहीतो राजहंसो मनुष्यवाचा तमवदत्, " राजन् मुञ्च मां शरणागतम् । तवोपकारं न कदाचिदहं विस्मरिष्यामि विदर्भाधिपस्य भीमकस्यः राज्ञः विनयादिगुणसंपन्ना सुरैरपि स्पृहणीया दमयन्ती नाम कन्या तव सदृशी भार्था, त्वं च तस्याः अनुरुपो भर्ता, युवयोस्तुल्यसंयोगार्थमहं दौत्यं करिष्ये" इति । तथेति राज्ञा नलेन मुक्तो राजहंसो विदर्भदेशं प्राप्य, दमयन्त्या नलस्य गुणानाश्रावयत् । ‘नलादन्यं नाहं पतिं वुण्वे’ इति प्रतिवचनं गृहीत्वा नलमभ्येत्य तस्मै दमयन्तीगतं वृत्तान्तं श्रावयित्वा यथाकामं वियति समाचरत् ।

अथ समारब्धे दमयन्त्याः स्वयंवरे नैक राजानः दिक्पालाश्च् चत्वारः नलरूपधारिणः भीमकराजधानीं प्राप्नुवन् । तानाऽलोक्य जातसंदेहा नलं जिज्ञासमाना दमयन्ती दिक्पालान् शरणं गता । मोदं तन्वानास्तेऽपि स्वं स्वं रुपमदर्शयन् । ततः सा सुमुखी करधृतां पुष्पमालां नलकण्ठे न्यवेशयत् । विवाहमड्ग्लादनन्तरं नलोऽपि तया साकं धर्माचरणेन कालम् अनयत् । कदाचिन्नलः अक्षालितचरण एव सन्ध्यामुपास्य अस्वपीत् । अशुचिनानेनाचारेण लब्धावसरः कलिः प्राविशत् । तेन विलुप्तमतिर्नलो धर्म्यमाचारं विहाय यथेष्टमाचरत् । परिणामतः पुष्करेण भ्रात्रा द्यूते जितो नलः दमयन्त्या सह वनमगच्छत् । तत्रापि कलिना बहुविधैश्छलैः पीडितो नलः दमयन्तीमेकाकिनीमुत्सृज्य वनान्तरमाश्रयत । गच्छन् स महान्तं दारुणं दावमैक्षत । दावे तस्मिन् कर्कोटको नाम सर्प आसीत् । तेन प्रार्हितो नलः वनानलात् कर्कोटकममोचयत् । तस्य प्रसादेन पपात्मनः कलेर्मुक्तो नलः समार्थः शाश्वतीः समाः पृथिविमशात् ।

"https://sa.wikipedia.org/w/index.php?title=नलः&oldid=391348" इत्यस्माद् पुनः प्राप्तिः