दधि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बङ्गालस्य मिष्टि-दधि

एषः आहारपदार्थः प्रायः जगति सर्वत्र अस्ति एव । क्षीरेण निर्मीयमाणम् एतत् दधि आङ्लभाषायां Curd इति उच्यते । अयम् आहारपदार्थः न सस्यजन्यः, अपि तु प्राणिजन्यः आहारः एव । यद्यपि दधि दुग्धस्य रूपान्तरं तथापि गुणे दधि-दुग्धयोः महान् भेदः अस्ति । देवपूजासु नैवेद्यरूपेण अपि उपयुज्यते दधि । पायसेषु, पञ्चगव्ये, पञ्चामृते च दधि योजयन्ति । “श्रीखण्ड”नामकं भक्ष्यम् अपि निर्मीयते दध्ना । नवरात्रावसरे देवतापूजासु दध्यन्नस्य एव नैवेद्यं भवति । ललितासहस्रनाम्नि “काकिनीरूपधारिणी माता दध्यन्नम् अपेक्षते” इति उक्तम् अस्ति ।

“स्वादिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा । शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४ ॥

मेदोनिष्ठा मधुप्रीता बन्दिन्यादिसमन्विता । दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५ ॥“ इति ।

दधि कस्य न प्रियम् । विना दधि विशिष्टं भोजनं न भवति ।

रोचनं दीपनं वृष्यं स्नेहनं बलवर्धनम् ।
पाकेम्लमुष्णं वातघ्नं मङ्गल्यं बृह्मणं दधि ॥
पीनसे चातिसारे च शीतके विषमज्वरे ।
अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते॥

इति दध्न: गुणा: उक्ता: । (किन्तु दध्न: उपयोगे नियन्त्रणं नियमश्च विहित: इति न विस्मर्तव्यम् । उक्तं च - ‘कफपित्तकरं दधि ।’ भा. प्र) दधि शोफं जनयति

न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ।
नामुद्गसूपं नाक्षौद्रं नोष्णं च नामलैर्विना ॥
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वातामया भ्रमान् ।
प्राप्नुयात् कामलां चोग्रां विधिं हित्वा दधिप्रिय: ॥ (च.चि. 2)

आयुर्वेदस्य अनुसारम् अस्य दध्नः स्वभावः[सम्पादयतु]

जलांशं निष्कास्य दृढीकृतं दधि

एतत् दधि पचनार्थं जडम् एव । किञ्चित् प्रमाणेन उष्णवीर्यम् अपि । वातं शमयति, रक्तवर्धकं च । शरीरे शुक्रधातुं, मेधस् च वर्धयति, बलं वर्धयति, शोथम् उत्पादयति च । रक्तपित्तकारकम् एतत् दधि जीर्णानन्तरम् आम्लं भवति ।

१. अस्माकं शरीरे विद्यमानेषु सप्तधातुषु मांसं मेधस् च वर्धयति दधि ।
२. शीतपूर्वके विषमज्वरे दधि हितकरं भवति ।
३. वातशामकम् इति कारणात् वातबाधा अस्ति चेत् उपयोक्तुं शक्यते ।
४. पात्रस्य अधोभागे विद्यमानं दधि पीनसबाधायां, जीर्णक्रियायाः दोषात् जातायां “ग्रहिणी” रोगबाधायां च हितकरम् ।
५. गुडं योजयित्वा सेवनेन शरीरे नैर्यास्यम् उत्पादयति । गुडयोजितं दधि तृप्तिकरं, हृदयस्य हितकरं, वातशामकं च ।
६. पर्याप्तमात्रेण जलं लवणं च योजितं दधि रात्रौ उपयोक्तव्यम् । पित्तसम्बद्धेषु रोगेषु, रक्तपित्ते, विसर्पे, चर्मरोगे, पाण्डुरोगे च अस्य दध्नः उपयोगः हितकरः भवति ।
निम्बूकदधि
७. दधि रात्रौ उष्णैः आहारैः सह न उपयोक्तव्यम् ।
८. दधि उष्णीकृत्य अपि न उपयोक्तव्यम् ।
९. दधि वसन्ते, ग्रीष्मे, शरदृतौ च न उपयोक्तव्यम् ।
१०. प्रतिदिनं दधि न उपयोक्तव्यम् । प्रातः उपहारेण सह अपि न उपयोक्तव्यम् ।
११. श्वासोच्छ्वासस्य सम्बद्धेषु रोगेषु, अपस्मारे, पीनसे अथवा “सैनसैटिस्” रोगे वा दध्नः उपयोगः सर्वथा अहितः एव ।
१२. पूर्णतया दृढं न जातम्, पूर्णतया दधि अपि न जातं (सम्यक् आतञ्चनं न जातम्), तादृशं दधि विषसमानं भवति ।
१३. अत्याम्लं दधि अग्निदीपकं, कफवर्धकं च । तत् पित्तप्रकोपं जनयति ।
१४. दध्ना निर्मितं “श्रीखण्ड”नामकं भक्ष्यम् अत्यन्तं वृष्यम् । तत् पचनार्थं जडम् । नैर्यास्यम् अपि वर्धयति शरीरे ।
१५. दृढस्य दध्नः उपरि स्थितं जलमयं दधि देहे विभिन्नान् स्रोतान् शोधयति, उदरस्य सम्बद्धान् दोषान् निवारयति, जीर्णकारि च ।
१६. महिषीणां वा इतरेषां वा प्राणिनां दुग्धस्य दध्नः अपेक्षया गोदधि एव श्रेष्ठम् ।‎
"https://sa.wikipedia.org/w/index.php?title=दधि&oldid=445734" इत्यस्माद् प्रतिप्राप्तम्