कदलीफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कदलीफलानि
कदलीवृक्षे लम्बमानं कदलीगुच्छम्
कदलीपुष्पम्
अपक्वस्य कदलीफल्स्य पक्वकरणक्रमः कश्चन
कर्तितम् अपक्वं कदलीफलम्
बहुविधानि कदलीफलानि

एतत् कदलीफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् सस्यजन्यः आहारपदार्थः । कदलीफलम् आङ्ग्लभाषाया Banana इति उच्यते । अस्याः कदल्याः फलं, काण्डं, पुष्पं चापि आहारत्वेन उपयुज्येते । भारतदेशे कदलीपर्णस्य पवित्रं स्थानं वर्तते । धार्मिककार्येषु कदलीपत्राग्रभगस्य उपयोगः अनिवार्यः अस्ति । भारते अस्मिन् भागे भोजनं तु शास्त्रविहितम् । कदलीफलम् अकृष्टपच्यम् अपि । कदलीफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । भारतस्य सर्वेषु राज्येषु कदली वर्धते । अधिकतया करर्णाटके, केरले, असमराज्ये, तमिळ्नाडुराज्ये, आन्ध्रप्रदेशे, पश्चिमबङ्गालप्रदेशेषु च वर्धयन्ति । यूरोप् जनेषु अलेक्साण्डर् प्रथमतया कदलीफलं खादितवान् । सः स्वदेशे कदलीफलं परिचायितवान् । लघुकदली अथवा नञ्जनगूडुरसकदलीफलं तु प्रसिद्धम् । लघुकदली अथवा देवस्य कदली, पच्चकदलीफलानि अधिकतया सर्वत्र उपयुज्यन्ते । एलाकदली, रसकदली च मैसूरुनगरे अधिकतया संवर्धयन्ति । नेन्द्रकदली मलेनाडुप्रदेशे अस्ति । आफ्रिका-ईजिप्त्-तः अरब्-वर्तकाः समग्रे विश्वे कदलीविक्रयणेन एव प्रसिद्धाः अभवन् ।

आहारसंशोधनालयस्य इतिवृत्तानुगुणं ज्ञायते यत् ९० निमेषाणां श्रमयुक्तकार्यार्थं या शक्तिः अपेक्ष्यते सा शक्तिः कदलीफलद्वयेन लभ्यते । एतस्मिन् कदलीफले शक्त्या सह वल्कलांशः, सुक्रोस्, फ्रक्टोस्, ग्लूकोस् इति त्रिविधाः प्राकृतिकशर्कराः च सन्ति ।

प्रतिदिनं कदलीफलस्य सेवनेन अनेकाभ्यः समस्याभ्यः दूरे भवामः । नित्यजीवने कदलीफलस्य उपयोगेन उत्तमम् आरोग्यं प्राप्तुं शक्नुमः अपि ।

१ खिन्नता - 'मैण्ड्” इति संस्थया सद्यः कृतस्य सर्वेक्षणस्य अनुगुणं ये खिन्नाः भवन्ति ते कदलीफलं खादन्ति चेत् स्वस्थतां प्राप्नुवन्ति इति । एतस्य कारणं 'ट्रिप्टोप्यान्’ इति प्रोटीन् अंशः यः कदलीफलॆ अस्ति सः एव तत्र कारणीभूतः इति । अस्माकं देहः एतं प्रोटीनंशं ”सेरोटिन्”रूपेण परिवर्तयति । एतस्मिन् उद्वेगशमनस्य प्रफुल्लचित्तस्य च अंशाः सन्ति इति । खिन्नतानिमित्तं गुलिकायाः स्वीकरणस्य स्थाने यदि प्रतिदिनम् एकं कदलीफलं खाद्यते तर्हि रोगस्य उपशमनं भवति इति । कदलीफले विद्यमानः बि-६ इति अंशः रक्ते विद्यमानस्य ”ग्लूकोस्” अंशस्य समस्थितिं रक्षन् अस्माकं मनस्स्थितौ अपि परिणामं जनयति इति ।
२ रक्तहीनता - कदलीफले अयसः अंशः अत्यधिकप्रमाणेन अस्ति । तस्मात् कारणात् इदं कदलीफलं देहे रक्तवर्णस्य रक्तकणानाम् उत्पादनं प्रचोद्य रक्तहीनतां निवारयति ।
३ रक्तनिपीडः - कदलीफले पोटाषियं, लवणं च अस्ति । लवणांशः बहु न्यूनः अस्ति इति कारणेन रक्तनिपीडं निवारयति ।
४ बुद्धिमत्ता - अध्ययनेन ज्ञातं यद् कदलीफले विद्यमानः पोटाषियम् अंशः बुद्धिमत्तां जागरयति ।
५ मलबद्धता - एतस्मिन् कदलीफले पर्याप्तमात्रेण वल्कलांशः अस्ति इति कारणात् कृतकवीरेचकानां विनापि मलबद्धतां निवारयितुं शक्यते ।
६ जडत्वम् आलस्यं च - मधुना सह कदलीफलस्य 'मिल्क् शेक्’ इति यत् क्रियते तत् किञ्चन दिव्यं पानीयम् । कदलीफलं शरीरं शीतलं करोति चेत् मधु शर्करायाः प्रमाणस्य समतोलनं करोति ।
७ वक्ष्स्थलस्य ज्वलनम् - जठरे सहजतया प्रत्याम्लीयपरिणामं करोति इदं कदलीफलम् । तस्मात् कारणात् वक्षस्थलस्य ज्वलनस्य निमित्तम् अपि कदलीफलम् उत्तमम् औषधम् ।
८ प्रातःकालीनस्य अनारोग्यम् - भोजनद्वयस्य मध्ये कदलीफलस्य एकस्य खादनेन गर्भवतीनां वमनस्य वमनशङ्कायाः च निवारणं भवति । एतेन फलेन प्रातःकालीनस्य आरोग्यस्य समतोलनं रक्ष्यते ।
९ मशकदशनम् - अस्य कदलीफलस्य शिम्बायाः अन्तर्भागं मशकदशनस्थाने सम्यक् लेपनीयम् । तेन मशकदशनेन जायमानः "अलर्जि”रोगः निवारितः भवति ।
१० नाडीव्यूहः - अस्मिन् कदलीफले 'बि’ विटमिन् पर्याप्तमात्रेण अस्ति । तस्मात् कारणात् नाडीव्यूहस्य शान्ततायाः रक्षणं करोति ।
११ स्थौल्यम् - अतीवचिन्तायाम् ये कार्यं कुर्वन्ति तेषामेव एषा स्थौल्यस्य समस्या भवति इति ५,००० रोगीणां समीक्षातः ज्ञातमस्ति । एतेभ्यः भोजनं न रोचते इति कारणेन ते 'जङ्क् फुड्’ (सिद्धभर्ज्यानि खाद्यानि) इत्युक्ते चिप्स्, चाकोलेट् इत्यादीनि खाद्यानि खादन्ति । एतेन स्थौल्यम् अधिकं भवति । कार्बोहैड्रेट्-युक्तस्य अस्य फलस्य सेवनेन रक्ते विद्यमानायाः शर्करायाः प्रमाणस्य समतोलनं भवति । एतेन एतादृशानां खाद्यानां वाञ्छातः मुक्ताः भवितुं शक्यते ।
११ अल्सर् - अस्य कदलीफलस्य सेवनेन आम्लीयता न्यूना भवति । जठरस्य निर्मोकं पुनर्लेपयति अपि इदं क्दलीफलम् । तस्मात् कारणात् 'अल्सर्’समस्या निवारिता भवति ।
१२ उष्णनियन्त्रकम् - इदं कदलीफलं शरीरे लेखनत्वं जनयति इति विश्वे बहुत्र विश्वासः अस्ति । थाय्ल्याण्ड्प्रदेशे गर्भिणिस्त्रियः सामान्यतया कदलीफलं खादन्ति एव । एतेन तासां शरीरस्य, मनसः औष्ण्यं न्यूनं भवति । शिशोः अपि शरीरं मनः च शान्तं भविष्यति इति ते विश्वसन्ति ।
१३ धूम्रपानं तमाखुसेवनं च - बि-६, बि-१२ विटमिन्, पोटाषियं, मेग्नीषियम् अंशाः च अस्मिन् कदलीफले सन्ति । ते अंशाः "निकोटिन्” आकर्षणेन बहिः आगमने शरीरस्य साहाय्यं कुर्वन्ति ।

निपीडः (Pressure) - अस्मिन् फले पोटाषियं प्रमुखः खनिजः । सः हृदयकम्पनस्य नियन्त्रणं करोति । मस्तिष्कं प्रति आम्लजनकस्य पूरणं करोति । शरीरे जलस्य प्रमाणं समतोलयति । प्रपञ्चे श्रेष्ठक्रीडापटोः प्रथमाद्यता सेवफलम् । तदनन्तरस्थाने अस्ति कदलीफलम् । एतेषु ४ गुणितं प्रोटीन्, २ गुणितं कार्बोहैड्रेट्, ३ गुणितं फास्फरस्, ५ गुणितं विटमिन् ए, अयसांशः च, २ गुणितम् अन्यविटमिन्, खनिजाः च सन्ति । अतः यदाकदापि यत्किमपि खादनस्य अपेक्षया कदलीफलस्य सेवनेन देहस्य सुस्तितिः भवति इति वैद्याः वदन्ति ।

आम्रं पनसं, कदलीफलं च प्रमुखफलत्रयत्वेन परिगण्यन्ते । एवम् एव कदली-आम्र-उदुम्बर तिन्त्रिणीवृक्षाः प्रमुखाः वृक्षाः इति उच्यन्ते । एतान् अधिकृत्य काचित विचित्रा कथा केषुचित प्रदेशेषुश् श्रूयते । एते पञ्च वृक्षाः अपि कस्मिंश्चित् काले मनुष्यरुपेण सहोदर्यः आसन् । बहुकालं यावत् तासां विवाहः न जातः । कदाचित् देवः प्रत्यक्षीभूय ‘विवाहम् इच्छन्ति वा ?’ इति ताः पॄष्टवान् । तदा चतस्रः सहोदर्यः विवाहम अङ्घीकृतवत्यः । किन्तु अन्तिमा सहोदरी न अङ्गीकृतवती । सा सन्तानमात्रं प्रार्थितवती । अनन्तरं देवः ताः सर्वाः वृक्षरुपेण परिवर्त्य - "यः एतान् वृक्षान् आरोहति सः एव पतिः ’ इति उक्तवान् । अतः एव् विवाहम् अङ्गीकृतवतः वृक्षान सर्वे आरोढुं शक्नुअन्ति चेदपि कदलीवृक्षं कोऽपि आरोढुं न शक्नोति । कदली इति संस्कृतभाषया, हिन्दिभाषया केला इति, आंगलभाषया बनाना प्लाण्टन्, आडम्स् आपिल इत्यपि उच्यते । काभिश्चित् भारतीयभाषाभिः कदलीइत्येव उच्यते । तमिळु मलयाळभाषया च वाळ्:ऐ इति, तेलुगुभाषया अरटि इति च उच्यते ।

वृक्षस्थम् अपक्वं कदलीगुच्छम्

बौद्धाः कदलीवृक्षं पवित्रं मन्यन्ते । बौद्धसाहित्ये उक्तं मोचापानं कदलीफलेन एव सज्जीक्रियते । अस्माकं पुराणे श्रूयते यत् -हनुमान् हिमालयप्रान्ते कदलीवने आसीत् इति ।

कर्तितः कदलीकाण्डः

कदलीवृक्षस्य पुष्पं, शलाटुः, फलं च आहररुपेण उपयुज्यते । कदलीवृक्षस्य शलाटुः हरितवर्णीयः भवति । तस्य फलं हरितं ,पीतं, पीतहरितमिश्रितं, रक्तवर्णीयं वा भाति । तदा आकारेण लघु बृहत् चापि भवति । कदल्यां ५,००० प्रभेदाः सन्ति इति श्रूयते । पच्चेकदली, बूदिकदली, वृक्षकदली, रसकदली, एलाकदली, अरण्यकदली इति अष्ट, दश वा विधाः प्रसिद्धाः सन्ति । कदलीपर्णं बृहदाकारकं पञ्चषपादमितदीर्धम्, अधिकविशालं च भवति । दक्षिणाभारते केषुचित स्थलेषु भोजनार्यम् एतस्य उपयोगः क्रियते । जनाः विवाहादिशुभकार्येषु वितानं मण्डपं द्वारं च पुष्पगुच्छसहितेन कदलीवृक्षेण अलङ्कुर्वन्ति । एतं शुभसङ्केतं मन्येन्ते जनाः ।

पक्वानि कदलीफलानि
कदलीपुष्पम्

यदा शलाटुः पक्वं भवति तदा वृक्षं कर्तयन्ति । कर्तितवृक्षस्य प्रकाण्डं परितः स्थितेभ्यः कन्देभ्यः नूतनसस्यानि उत्पद्यन्ते । एवं किदलीसन्तानः वर्धते ।

विशेषौधगुणयुक्तानि चन्द्रकदलीपक्वफलानि
कदलीपत्रे भोजनं भारतीयपम्परा
कदलीवृक्षकः - वाटिकानिर्माणम्

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कदलीफलम्&oldid=480079" इत्यस्माद् प्रतिप्राप्तम्