मडगांव

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मठग्रामः
मोडगांव
Margao
—  हनुमन्मन्दिरम्  —
मडगांव
मठग्रामः
देशः भारतम्
राज्यम् गोवाराज्यम्
मण्डलम् दक्षिणगोवामण्डलम्
महानगरविस्तारः ३६ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) १,०६,५२८
सर्वकारः
 • प्रकारः नगरप्रमुखः(Chairperson-council government)
 • अङ्गः मडगांव म्युनिसिपल् काउन्सिल्
 • प्रमुखः देउल्कर दयानन्द भास्कर
 • मुख्यप्रबन्धकः दीपालि नैक
भारतीयमानसमयः(IST) (UTC+५:३०)
पीनकोड ४०३ ०XX
क्षेत्रसूचीसङ्ख्या ०८३२
वाहनपञ्जीकरणम् जीए-०२, जीए-०८
साक्षरता ९२.०२%
भाषाः कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
जालस्थानम् egov.goa.nic.in

मडगांव(हिन्दी: मडगांव, आङ्ग्ल: Margaoआङ्ग्लः) इति नगरं गोवाराज्यस्य दक्षिणगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं सालनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य द्वितीयं बृहत्तममेतन्नगरम् अस्ति । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् क्रमेण अस्य मोरगांव, मरगांव इत्येते नामान्तरे स्तः । प्रशासनिकनाम मडगांव तु संस्कृतापभ्रंशशब्द एव । मठ, ग्राम इति द्वाभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः मठग्राम इति मूलशब्दः अस्ति । तयोः शब्दयोः अर्थः मठ = the hut of an ascetic, ग्राम = Village च भवति ।

इतिहासः[सम्पादयतु]

मडगांव इत्यस्य नगरस्य इतिहासः बहु पुरातनोऽस्ति । मठग्राम इति नाम्नः एका पौराणिकी कथा वर्तते । पुरा भगवान् परशुरामः एकविंशतिवारं क्षत्रियान् पराज्य ब्राह्मणेभ्यः नवनगरनिर्माणस्य संकल्पम् अकरोत् । भारतस्य पश्चिमभागस्थं समुद्रमग्नं भूभागं समुद्रात् बहिः निष्कास्य, तस्मिन् भागे ब्राह्मणेभ्यः नवनगरम् अस्थापयत् सः । तस्य नगरस्य नाम परशुरामक्षेत्रम् आसीत् । परशुरामः उत्तरभारतात् भिन्नगोत्रजब्राह्मणान् आहूतवान् । भरद्वाज-कौशिक-वत्स-कौण्डिन्य-कश्यप-वसिष्ठ-गौतमगोत्रजब्राह्मणाः अत्र आगत्य निवासं कृतवन्तः । तेषां ब्राह्मणानां मुख्यनिवासस्थानानि मठग्राम-गोमाञ्चल-पञ्चकोशी-कुशस्थलीत्यादिनगराणि आसन् । गोवापुर्याः एकस्मिन् भागे बहूनां मठानां स्थापनां कृतवान् परशुरामः । अतः तस्य भागस्य नाम मठग्राम इति अभूत् । कालान्तरे अपभ्रंशे सति तस्य नाम मडगांव अस्ति । मठग्रामे बहवः पवित्रदेवालयाः आसन् । तेषु मुख्यदेवालयः आसीत् दामोदरदेवालयः । केवलं मठग्रामवासिनाम् एव न, अपि तु गोवापुर्याः हिन्दुजनानामपि धर्मभावनायाः मुख्यकेन्द्रम् आसीत् एषः देवालयः । १५७९ तमे वर्षे देवालयं ध्वस्तं कृत्वा 'चर्च' निर्माणं कृतवन्तः क्रैस्त-जनाः । ततः गोवापुर्यां, मठग्रामे च पुरातनभारतीयसंस्कृतेः क्षयः प्रारभत । परन्तु भारतीयसंस्कृतेः मूलानाम् उन्मूलनम् असम्भवमेव । इदानीमपि मठग्रामे बहवः देवालयाः, मठाः च सन्ति । तेषां देवालयानां, मठानां च गणना वीक्षणीयस्थलेषु भवति । तेषु देवादयेषु मूलभारतीयसंस्कृतेः पोषणं भवति ।

वीक्षणीयस्थलानि[सम्पादयतु]

शिवरात्रीपर्वणि दामोदरदेवशिवस्य दर्शनम्













  • दामोदरदेवालयः:- मूलभारतीयसंस्कृतेः प्रतीकः एषः देवालयः मडगांव-तः द्वाविंशतिः कि.मी. दूरे जम्बौलीम-पत्तनेऽस्ति । एषः देवालयः कुशवतीनद्याः तीरे अस्ति । अत्रस्थं प्राकृतिकसौन्दर्यं, देवालयस्य पवित्रवातावरणं च भक्तानां मनसि नूतनोर्जायाः सञ्चारं कारयति । दामोदरदेवः गौड-सारस्वतब्राह्मणानां कुलदेवता अस्ति, मठग्रामस्य (मडगांव) स्थानदेवताप्यस्ति । अत्र श्रीलक्ष्मीनारायण-श्रीमहाकाली-श्रीमुरवी-श्रीगोमेश्वरादिदेवानां देवालयाः सन्ति ।
  • श्रीशान्तादुर्गादेवालयः:- एषः देवालयः मठग्रामात् विंशतिः कि.मी. दूरे पोण्डा-पत्तनस्य कवलेम-नामके स्थलेऽस्ति । पुरा एषः देवालयः मठग्रामे एवासीत् । १५६४ तमे वर्षे मठग्रामे पुर्तगाली-जनानां देवालयध्वंसयोजनायाम् अस्य देवालयस्य ध्वंसः जातः आसीत् । ततः एतस्य देवस्थानस्य स्थानान्तरं पोण्डा-पत्तनम् अभूत् । 'शाहु राजे' इत्यस्य मराठाराज्ञः काले १७२८ तमे वर्षे नवदेवालयस्य निर्माणम् अभूत् । अत्र श्रीशान्तादुर्गादेवीप्रतिमायाः हस्तयोः सर्पौ स्तः । तौ सर्पौ भगवतः विष्णोः, शिवस्य च प्रतिनिधी स्तः इति जनमान्यतास्ति । अस्य देवालयस्य स्तम्भ-छत्र-प्राङ्गणादीनि स्थापत्यकलायाः अभूतपूर्वोदाहरणानि सन्ति ।
  • श्रीचन्द्रनाथदेवालयः:- एषः देवालयः एकोनषष्ठ्यधिकैकशतं मी. उन्नते चन्द्रनाथपर्वते स्थितः अस्ति । भोजवंशीयः कश्चन राजा चन्द्राधिपतिशिवस्य भक्तः आसीत् । अतः सः एतस्य देवालयस्य निर्माणं कारितवान् । अत्र वीक्षणीयमस्ति, पुरातनहस्तकलायाः उपयोगेन निर्मितः काष्ठरथः । आकर्षककाष्ठस्योपिर कृतं सुन्दरहस्तकलाकार्यम् अद्भुतमस्ति । अत्र गणेश-पार्वत्योः देवालयौ स्तः । देवालयं परितः देवानां मूर्तयः अपि कलायाः उत्तमोदाहरणमस्ति ।


अत्र प्रख्याताः समुद्रतटाः अपि सन्ति । यथा - मजोर्दा, उत्तोरदा, कोल्वा, वेल्साओ, वर्का, बैटुल इत्यदयः ।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकं मडगांव-तः चतुर्विंशतिः (२४) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः मडगांव-नगराय धूमशकटयानानि सन्ति । मुख्यतः पणजी-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः मडगांव-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः पणजी-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।

बाह्यानुबन्धः[सम्पादयतु]

https://plus.google.com/104404145793240917860/about?gl=in&hl=en

http://www.mapsofindia.com/maps/goa/margao.htm

http://www.mmcmargao.gov.in/searchBirth.aspx

http://www.mmcmargao.gov.in/

"http://sa.wikipedia.org/w/index.php?title=मडगांव&oldid=263594" इत्यस्माद् पुनः प्राप्तिः