सामग्री पर जाएँ

मठग्रामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मठग्रामः

मडगाँव

Margao
हनुमन्मन्दिरम्
मडगाँव
मठग्रामः
देशः भारतम्
राज्यम् गोवाराज्यम्
मण्डलम् दक्षिणगोवामण्डलम्
महानगरविस्तारः ३६ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) १,०६,५२८
Government
  Type परिषद् सर्वकारः
  Body मडगाँव नगरपालिकापरिषद्
  प्रमुखः देउल्कर दयानन्द भास्कर
  मुख्यप्रबन्धकः दीपालि नैक
Time zone UTC+५:३० (भारतीयमानकसमयः)
पत्रसङ्केतसङ्ख्या
४०३ ०XX
Area code(s) ०८३२
Vehicle registration जीए-०२, जीए-०८
साक्षरता ९२.०२%
भाषाः कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website egov.goa.nic.in

मठग्रामः अथवा मडगाँव ( /ˈmədəɡɑːvə/) (कोङ्कणी/हिन्दी: मडगाँव; आङ्ग्ल: Margao) इति नगरं गोवाराज्यस्य दक्षिणगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं सालनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य द्वितीयं बृहत्तममेतन्नगरम् अस्ति । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् क्रमेण अस्य मोरगांव, मरगांव इत्येते नामान्तरे स्तः । प्रशासनिकनाम मडगांव तु संस्कृतापभ्रंशशब्द एव । मठ, ग्राम इति द्वाभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः मठग्राम इति मूलशब्दः अस्ति । तयोः शब्दयोः अर्थः मठ = the hut of an ascetic, ग्राम = Village च भवति ।

इतिहासः

[सम्पादयतु]

मडगाँव इत्यस्य नगरस्य इतिहासः बहु पुरातनोऽस्ति । मठग्राम इति नाम्नः एका पौराणिकी कथा वर्तते । पुरा भगवान् परशुरामः एकविंशतिवारं क्षत्रियान् पराज्य ब्राह्मणेभ्यः नवनगरनिर्माणस्य सङ्कल्पम् अकरोत् । भारतस्य पश्चिमभागस्थं समुद्रमग्नं भूभागं समुद्रात् बहिः निष्कास्य, तस्मिन् भागे ब्राह्मणेभ्यः नवनगरम् अस्थापयत् सः । तस्य नगरस्य नाम परशुरामक्षेत्रम् आसीत् । परशुरामः उत्तरभारतात् भिन्नगोत्रजब्राह्मणान् आहूतवान् । भरद्वाज-कौशिक-वत्स-कौण्डिन्य-कश्यप-वसिष्ठ-गौतमगोत्रजब्राह्मणाः अत्र आगत्य निवासं कृतवन्तः । तेषां ब्राह्मणानां मुख्यनिवासस्थानानि मठग्राम-गोमाञ्चल-पञ्चकोशी-कुशस्थलीत्यादिनगराणि आसन् । गोवापुर्याः एकस्मिन् भागे बहूनां मठानां स्थापनां कृतवान् परशुरामः । अतः तस्य भागस्य नाम मठग्राम इति अभूत् । कालान्तरे अपभ्रंशे सति तस्य नाम मडगांव अस्ति । मठग्रामे बहवः पवित्रदेवालयाः आसन् । तेषु मुख्यदेवालयः आसीत् दामोदरदेवालयः । केवलं मठग्रामवासिनाम् एव न, अपि तु गोवापुर्याः हिन्दुजनानामपि धर्मभावनायाः मुख्यकेन्द्रम् आसीत् एषः देवालयः । १५७९ तमे वर्षे देवालयं ध्वस्तं कृत्वा 'चर्च' निर्माणं कृतवन्तः क्रैस्त-जनाः । ततः गोवापुर्यां, मठग्रामे च पुरातनभारतीयसंस्कृतेः क्षयः प्रारभत । परन्तु भारतीयसंस्कृतेः मूलानाम् उन्मूलनम् असम्भवमेव । इदानीमपि मठग्रामे बहवः देवालयाः, मठाः च सन्ति । तेषां देवालयानां, मठानां च गणना वीक्षणीयस्थलेषु भवति । तेषु देवादयेषु मूलभारतीयसंस्कृतेः पोषणं भवति ।

वीक्षणीयस्थलानि

[सम्पादयतु]
शिवरात्रीपर्वणि दामोदरदेवशिवस्य दर्शनम्
  • दामोदरदेवालयः:- मूलभारतीयसंस्कृतेः प्रतीकः एषः देवालयः मडगांव-तः द्वाविंशतिः कि.मी. दूरे जम्बौलीम-पत्तनेऽस्ति । एषः देवालयः कुशवतीनद्याः तीरे अस्ति । अत्रस्थं प्राकृतिकसौन्दर्यं, देवालयस्य पवित्रवातावरणं च भक्तानां मनसि नूतनोर्जायाः सञ्चारं कारयति । दामोदरदेवः गौड-सारस्वतब्राह्मणानां कुलदेवता अस्ति, मठग्रामस्य (मडगांव) स्थानदेवताप्यस्ति । अत्र श्रीलक्ष्मीनारायण-श्रीमहाकाली-श्रीमुरवी-श्रीगोमेश्वरादिदेवानां देवालयाः सन्ति ।
  • श्रीशान्तादुर्गादेवालयः:- एषः देवालयः मठग्रामात् विंशतिः कि.मी. दूरे पोण्डा-पत्तनस्य कवलेम-नामके स्थलेऽस्ति । पुरा एषः देवालयः मठग्रामे एवासीत् । १५६४ तमे वर्षे मठग्रामे पुर्तगाली-जनानां देवालयध्वंसयोजनायाम् अस्य देवालयस्य ध्वंसः जातः आसीत् । ततः एतस्य देवस्थानस्य स्थानान्तरं पोण्डा-पत्तनम् अभूत् । 'शाहु राजे' इत्यस्य मराठाराज्ञः काले १७२८ तमे वर्षे नवदेवालयस्य निर्माणम् अभूत् । अत्र श्रीशान्तादुर्गादेवीप्रतिमायाः हस्तयोः सर्पौ स्तः । तौ सर्पौ भगवतः विष्णोः, शिवस्य च प्रतिनिधी स्तः इति जनमान्यतास्ति । अस्य देवालयस्य स्तम्भ-छत्र-प्राङ्गणादीनि स्थापत्यकलायाः अभूतपूर्वोदाहरणानि सन्ति ।
  • श्रीचन्द्रनाथदेवालयः:- एषः देवालयः एकोनषष्ठ्यधिकैकशतं मी. उन्नते चन्द्रनाथपर्वते स्थितः अस्ति । भोजवंशीयः कश्चन राजा चन्द्राधिपतिशिवस्य भक्तः आसीत् । अतः सः एतस्य देवालयस्य निर्माणं कारितवान् । अत्र वीक्षणीयमस्ति, पुरातनहस्तकलायाः उपयोगेन निर्मितः काष्ठरथः । आकर्षककाष्ठस्योपिर कृतं सुन्दरहस्तकलाकार्यम् अद्भुतमस्ति । अत्र गणेश-पार्वत्योः देवालयौ स्तः । देवालयं परितः देवानां मूर्तयः अपि कलायाः उत्तमोदाहरणमस्ति ।

अत्र प्रख्याताः समुद्रतटाः अपि सन्ति । यथा - मजोर्दा, उत्तोरदा, कोल्वा, वेल्साओ, वर्का, बैटुल इत्यदयः ।

मार्गाः

[सम्पादयतु]

विमानमार्गः

[सम्पादयतु]

वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकं मडगांव-तः चतुर्विंशतिः (२४) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।

धूमशकटमार्गः

[सम्पादयतु]

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः मडगांव-नगराय धूमशकटयानानि सन्ति । मुख्यतः पणजी-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः

[सम्पादयतु]

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः मडगांव-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः पणजी-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यानुबन्धः

[सम्पादयतु]

https://plus.google.com/104404145793240917860/about?gl=in&hl=en

http://www.mapsofindia.com/maps/goa/margao.htm

http://www.mmcmargao.gov.in/searchBirth.aspx Archived २०१३-०७-२५ at the Wayback Machine

http://www.mmcmargao.gov.in/ Archived २०१४-०३-०६ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=मठग्रामः&oldid=481711" इत्यस्माद् प्रतिप्राप्तम्