कोच्ची

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोच्ची-‘समुद्रसुन्दरी”

कोच्चीनगरस्य स्थाननिर्देशः

दक्षिणभारते अतिसुन्दरनगरेषु कोच्ची अन्यतमम् अस्ति । सागरपूर्वजलात् अस्य नगरस्य ‘अरेबियन् समुद्रसुन्दरी’ इति नाम आगतम् अस्ति । अत्र नौकानिस्थानं वाणिज्यकेन्द्रं सागरतीरं च विशिष्टानि सन्ति । एकत्र एर्णाकुलम्, अन्यत्र मट्टम्चेरी(प्राचीनविभागः , ऐतिहासिकः प्रदेशः च ), परितः अरेबियन् सागरः च अस्ति । अत्र समीपे सागरे लघु द्वीपाः सन्ति , वेल्लिङ्गटन्, बोलघट्टि, गुण्डु वैपिन इत्यादयः । एतत् पुरातनं स्थानम् अस्ति । अत्र अनेकदेशेभ्यः आगताः जनाः निवसन्ति स्म । यहूदीयाः चीनादेशीयाः अरब्बदेशीयाः इत्यादयः जनाः अत्र प्रार्थनामन्दिराणि (चर्च- मसीदि इत्यादीनि) निर्मितवन्तः सन्ति । जनाः वाणिज्यार्थम् अपि अत्र आगच्छन्ति स्म । नौकानिस्थानं, दुर्गं, राजगृहम् इत्यादिनां पुरातनं वैभवम् अत्र पश्यामः । कोच्चीनगरम् अतः एव एतिहासिकं नगरम् इति प्रसिद्धम् अस्ति । इदानीन्तनम् एर्णाकुलं कोच्चीनगरस्य विस्तरणम् इति वक्तुं शक्यते । प्रवासोद्यमनिगमेन इतः नौकायानेन प्रवासिजनाः वेल्लिङ्गटन् द्वीपाय नीयन्ते । सागरप्रवासस्य आरम्भस्थलमेतत् । अत्र डच्चजनानां राजगृहम् अस्ति । डच् भवनमिति तत् कथ्यते । आदौ पोर्तुगालदेशीयाः एतत् राजगृहं निर्मितवन्तः आसन् । अनन्तरम् डच्चजनाः अभिवृद्धिकार्यं कृतवन्तः । अग्रे केरलराजः वीरकेरळवर्मा अत्र वासं कृतवान् । अत्र राजगृहे भित्तिषु रामायणमहाभारतादि पौराणिक चित्राणि निर्मितानि सन्ति । महाराजस्य शयनगृहभित्तिषु श्रृङ्गारप्रधानचित्राणि सन्ति । अत्र समीपे यहूदीयानां पार्थनामन्दिरम् अस्ति । अत्र अष्टादशशतकीया काचित् घण्टा विशिष्टा अस्ति । अत्र चीनादेशीयाः मीनजालाः इदानीमपि उपयोगे सन्ति । चीनादेशीयः कब्लायखान् प्रथमतया एतज्जालं मीनसङ्ग्रहणाय उपयुक्तवान् । एर्णाकुलं प्रदेशे सन्त फ्रान्सिस् चर्च (प्रार्थना मन्दिरम्) क्रिस्ताब्दे १४१८ तमे वर्षे निर्मितम् । एतद् वैभवोपेतं भवनमस्ति । कोच्चीप्रदेशे अन्यदेकं सान्ताक्रूस् चर्च (प्रार्थनामन्दिरम्) अपि अस्ति । चेरुतुरुत्तिप्रदेशे केरल कलामण्डळं दर्शनीयम् अस्ति । महाकविः नारायण मेनन् एताम् नृत्यशालां संस्थापितवान् ।

वेल्लिङ्ग्टन् द्वीपतः दृश्यमानं कोच्चीनगरस्य समुद्राभिमुखप्रदेशः

बोलघट्टिदीपं प्रति प्रवासिजनाः अवश्यं गच्छन्ति । अत्र स्थितं राजगृहम् इदानीम् उपहारगृहं सञ्जातमस्ति । गुण्डुद्वीपः, परिक्षित् तम्पुरान् वस्तुसङ्ग्रहालयः, हिलप्यालेस् वस्तुसङ्ग्रहालयः इत्यादयः अत्र प्रेक्षणीयाः सन्ति ।

विमानमार्गः[सम्पादयतु]

भारतस्य अतिसम्मर्दविमाननिस्थानकेषु अन्यतमं कोच्ची-अन्ताराष्ट्रियविमाननिस्थानकम्

बेङ्गळूरु-चेन्नै-गोवा-तिरुवनन्तपुरंदेहली इत्यादिभ्यः स्थानेभ्यः विमानयानानि सन्ति । कोच्चीनगरे विमाननिस्थानम् अस्ति ।

वाहनमार्गः[सम्पादयतु]

मैसूरुतः ३८८ कि.मी. । बेङ्गळूरुतः ५४६ कि.मी

धूमशकटमार्गः[सम्पादयतु]

एर्णाकुलं’ धूमशकटनिस्थानम् अस्ति । प्रवासार्थं सर्वकारीया व्यवस्था अस्ति । वसत्याः कृते अनेकानि वसतिगृहाणि कोच्चीनगरे सन्ति । केरलसर्वकारस्य प्रवासि-सूचनाकेन्द्रम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=कोच्ची&oldid=370560" इत्यस्माद् प्रतिप्राप्तम्