ऊटी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऊटि

उदगमण्डलम्

ऊति
उधगै
हिल स्टेशन
Skyline of ऊटि
Nickname(s): 
पर्वतस्थानकानां राज्ञी
देशः भारत
राज्यम्‌ तमिलनाडु
जनपद नीलगिरिः
Government
 • Type विशेष श्रेणी नगरपालिका
 • Body उडागमण्डलम नगरपालिका निगम
Elevation २२४० इति m
Population
 (२०११)[२]
 • Total ८८,४३०
भाषाः
 • कार्यालययी तमिल
Time zone UTC+५:३० (आई एस टी)
पिन्
६४३ ००१
Tele ९१४२३
Vehicle registration TN ४३
Civic agency उदागममण्डलम नगरपालिका
जलवायुः उपोष्णकटिबंधीय उच्चभूमिः (कोप्पेन्)
वृष्टि 1,238 मिमी (49 इंच)
माध्यम्‌ वार्षिकं तापमानम् 14.4 °से (58 °फ़ै)
Batchmates.com इत्यस्मात् तापमानम्[३]

गिरिधामसु अत्यन्तं प्रसिद्धम् एतत्। एतस्य अपरं नाम उदकमण्डलम् (सरोवराणां स्थानम्) इति नीलगिरिपर्वतप्रदेशे स्थितेषु सर्वगिरिधामसु अतीव जनप्रियम्। सागतस्तरतः ७५०० पादपरिमितोन्नतस्थाने अस्ति एतत् गिरिधाम। अत्र वातावरणं सदा शीतलं भवति ल। ग्रीष्मकालेऽपि अधिका उष्णता न भवति। निसर्गरमणीये अस्मिन् गिरिधाम्नि ग्रीष्मसमये जनानामागमनं बहु भवति। उदकमण्डलप्रदेशे अनेकानि रमणीयानि स्थानानि सन्ति। पाटलपुष्पोद्यानम् ( Rose Garden) मुकुर्तीसरोवरं, राजगृहाणि, दोड्डबेट्ट, रेसकोर्स, टैगर हिल् इत्यादीनि प्रसिद्धानि सन्ति।

मुकुर्तिसरोवरम्[सम्पादयतु]

मुकुर्तिसरोवरम्

मुकुर्तीसरोवरे नौकाविहारः अतीव मोदाय भवति । स्वयञ्चालितनौकाविहारः सुरक्षितः सुव्यवस्थितः च अस्ति । सरोवरस्य पार्श्वे एव सुन्दरे उपवने बालानां विनोदाय विविधक्रीडानां व्यवस्था अस्ति ।

पाटलपुष्पोद्यानम्[सम्पादयतु]

पाटलपुष्पोद्यानस्थं पाटलपुष्पम्

अस्मिन् सहस्रसङ्ख्यया विविधवर्णात्मकानि मनोहराणि पाटलपुष्पाणि सन्ति । पाटलपुष्पेषु विरलानि यथा हरितानि कृष्णानि च पुष्पाणि अत्र द्रष्टुं शक्यानि । नयनानन्दकरे अस्मिन् उद्याने पुष्पसस्यानि सुचारुरूपेण आरोपितानि सन्ति ।

दोड्डबेट्ट[सम्पादयतु]

अत्युन्नतप्रदेशः इत्यतः दोड्डबेट्ट (महापर्वतः) इति प्रसिध्दः । दक्षिणभारते तृतीयः उन्नतः पर्वतः एषः ।अस्योन्नतिः सागरतीरस्तरतः ६४० पादपरिमिता अस्ति । अत्र अश्वारोहणं कर्तुं शक्यते ।

बोटानिकल् गार्डन्[सम्पादयतु]

सस्योद्यानस्य दृश्यम्

उदकमण्डलनगरे स्थितेषु प्रेक्षणीयस्थलेषु बोटानिकल् गार्डन् (सस्योद्यानम्) अतीव सुन्दरम् अस्ति । राजगृहस्य समीपे एतदस्ति । क्रिस्ताब्दस्य १८४३ तमे वर्षे अस्य निर्माणं कृतमस्ति । उद्यानस्य विस्तारः २२ हेक्टेरमितः अस्ति । अत्रत्यानि पुष्पाणि सस्यानि च अतीव सुन्दराणि सन्ति । लण्डननगरे स्थितम् के.ई.डब्ल्यु-उद्यानमिव एतदस्ति । विविधभागेषु इटालियन्, जपानीस् पुष्पसस्यानि सन्ति । कश्चन प्राचीनवृक्षकाण्डम् उद्याने अस्ति । एतत् अतीवप्राचीनम् अत्यद्भुतम् इति कथयन्ति ।यतः एतस्य कालः कतिचनकोटीवर्षप्राचीनः । उद्याने सहस्त्रसङ्ख्यया विविधजातीयाः वृक्षाः सन्ति । आलङ्कारिकाणि सस्यानि, प्राणिरुपेण व्यवस्थितानि सस्यानि सन्ति ।अत्र सस्यमयूरः, सस्यचिक्रोडः मिक्कीमौस्, कुब्जसस्यानि च आकर्षणीयानि सन्ति । विविधवर्णानां सस्यानि अत्र सन्ति । तृणावृतां भूमिं विविधाकृतौ संस्कृतानां सस्यानां वैभवम् अत्र पश्यामः । प्रतिवर्षम् अत्र फलपुष्पप्रदर्शनं भवति । आर्किड् सस्यानि औषधीसस्यानि विदेशीयसस्यानि अपि सन्ति । भारतमातुः सुन्दरं कृतकचित्रम् अत्रास्ति । तथैव सस्यैः निर्मितम् राज्यसीमावैभवम् अत्र दृष्टुं शक्नुमः । उदकमण्डलसमीपे कलहतीजलपातः, पौकारजलबन्धः, डाल्फिननोस् (१० कि.मी) सिम्सपार्क, कोयागिरि (२६ कि.मी) गाल्फ् क्रीडाङ्गणम्, लोज जलपातम्, कूनूरु गिरिधाम (२९ कि.मी) इत्यादीनि च दर्शनीयानि सन्ति । उदकमण्डले सर्वस्थानानां दर्शनाय स्वायत्तवाहनव्यवस्था कर्तुं शक्यते । रात्रौ सदा शैत्यम् भवति। दिने ग्रीष्मकालेऽपि अधिका उष्णता न भवति । समीपे ‘टी एस्टेट्स्’(चायोद्यानानि) सुन्दररुपेण विराजन्ते ।

मार्गः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

कोयम्बत्तूरुसमीपे स्थितं विमाननिस्थानम् ।

धूमशकटमार्गः[सम्पादयतु]

नीलगिरि एक्स्प्रेस् ( ब्ल्यू मौण्टन् एक्स्प्रेस्)

चेन्नैतः नीलगिरि एक्स्प्रेस् ( ब्ल्यू मौण्टन् एक्स्प्रेस्) यानम् । ऊटीनगरे धूमशकटनिस्थानम् अस्ति ।

भूमार्गः[सम्पादयतु]

हासन, मैसूरु, मेटुपाळ्यं, चेन्नैतः वाहनसौलभ्यम् अस्ति । मैसूरुतः एकदिनप्रवासव्यवस्था अस्ति । ऊटीदृश्यवैभवस्य वीक्षणार्थं सर्वकारीयव्यवस्थापि अस्ति ।

व्यवस्थाः[सम्पादयतु]

ऊटीनगरे वसतिगृहाणि उपहारगृहाणि दासप्रकाशहोटेल, होटेल् तमिळ्नाडु इत्यादीनि सन्ति ।

  1. "About Municipality". municipality.tn.gov.in. Archived from the original on 15 January 2008. आह्रियत 5 September 2016.  Unknown parameter |access-date= ignored (help)
  2. "Census 2011". GOI. 
  3. "Ooty: In the Lap of the Nilgiris". batchmates.com.  Unknown parameter |access-date= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=ऊटी&oldid=480019" इत्यस्माद् प्रतिप्राप्तम्