कूटगल्पर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तिम्मप्पस्वामिबेट्ट अथवा कूटगल्पर्वतः
कूटगल्पर्वतस्य मोहकं दृश्यम्
कूटगल्पर्वतस्य मोहकं दृश्यम्
श्री तिम्मप्पस्वामिनः मन्दिरम्
श्री तिम्मप्पस्वामिनः देवालयम्
श्री तिम्मप्पस्वामिनः देवालयम्
कूटगल्पर्वतः
कूटगल्पर्वतः
कूटगल्पर्वतः
कूटगल्पर्वतः
कूटगल्पर्वतः

कूटगल् पर्वतः (Kutagal Hill) अथवा तिम्मप्पस्वामिबेट्ट इति ख्यातः अयं गिरिः कर्णाटकराज्यस्य रामनगरमण्डले अस्ति । बेङ्गळूरुतः मैसूरुगमनमार्गे ४९कि.मी दूरे रामनगरपत्तनमस्ति । ततः मागडिपत्तनगमनमार्गेण ९कि.मी.दूरं गम्यते चेत् अयं पर्वतः दृश्यते । कूटगल् इति ग्रामे अयं पर्वतः अस्ति अतः कूटगल् पर्वतः इति नाम । पर्वतमस्तके श्री तिम्मप्पस्वामिनः मन्दिरम् अस्ति अतः तिम्मप्पबेट्ट (कन्नडभाषया बेट्ट इत्युक्ते गिरिः इति) इति कथयन्ति । पर्वतारोहणार्थं सोपानमार्गः अपि अस्ति । पर्वतशिखरे स्थित्वा परितः रम्यं दृश्यं वीक्षितुं शक्यते ।

इतिहासः[सम्पादयतु]

तत्र किञ्चित् शिलाप्रशसनं प्राप्तं तस्मिन् अश्वयागपद्धतिविषये उल्लिखितम् । अश्वयागः उत्तरवैदिककाले कि.पू.१५००तमवर्षात् पूर्वम् आसीत् । अतः श्री तिम्मप्पस्वामिनः मन्दिरम् अपि प्राचीनतमम् इति ज्ञायते ।

गळगल्लु/नीळगल्लु[सम्पादयतु]

पर्वतस्य वायव्यभागे कूडुगल्लु गळगलु क्यातनकल्लु अगसनकल्लु अथवा मडिवाळे कल्लु(कन्नडे कल्लु इत्युक्ते शिला इति अर्थः) इति कथ्यमानाः तिस्रः शिलाः पङ्क्तौ तिष्ठन्ति ।

कण्णानद्याः जलबन्धः[सम्पादयतु]

पर्वतमस्तके स्थित्वा पश्यति चेत् २०कि.मी.दूरे विद्यमानः कण्णजलबन्धः दृश्यते । परिसस्य पक्षिवीक्षा अपि अतिरमणीयः भवति ।

शासनम्[सम्पादयतु]

कूटगल् ग्रामस्य समीपे प्राचीनं किञ्चित् शिलाप्रशासनम् अस्ति । एतत् ग्रामात् १कि.मी. दूरे एरेहळ्ळिमार्गे अश्वत्थवृक्षस्य मूले तिष्ठति । एतस्य विषये ग्रामीणानाम् अभिप्रायभेदः अस्ति । केचन ग्रामजनाः वदन्ति यत् एतस्मिन् शिलाप्रशासने विद्यमानानि अक्षराणि यः पठति सः मरणं गमिष्यति इति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कूटगल्पर्वतः&oldid=465696" इत्यस्माद् प्रतिप्राप्तम्