मलैमहादेश्वराद्रिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

[[Category:]]

मलैमहदेश्वरपर्वतः[सम्पादयतु]

महदेश्वरस्वामिनः पादन्यासाङ्कितम्

कर्णाटकराज्यस्य चामारनगरमण्डले अयं पर्वतप्रदेशः विराजते । कन्नडभाषया ’मले’ नाम पर्वतः इति अर्थः तमिळुभाषया मलै इति वदन्ति । पर्वतप्रदेशे विद्यमानः स्वामी महदेश्वरः इति भावः । कोळ्ळेगालतः ८०कि.मी दूरे मैसूरुतः १५०कि.मी. दूरे विस्तृता पर्वतश्रेणी एव मलैमहदेश्वरपर्वतः । मादेशनबेट्ट, मलैमहदेश्वरबेट्ट, एं.एं हिल्स्, इत्यादिभिः नामभिः ख्यातम् एतत् श्रद्धालूनां पवित्रं यात्रास्थलम् । विशालस्य पर्वतस्य मस्तके महदेश्वरस्वामिनः देवालयः अस्ति । पर्वतस्य आरोहणार्थं उरगपथः वृषभपथः इति मार्गद्वयम् अस्ति । अस्य पर्वतस्य मालिकायां आनेमले जेनुमले कानुमले पष्पेमले, पवळमले, पोन्नाचिमले, कोङ्गुमले, इत्यादीनि ७७ शिखराणि सन्ति । एतेषु पर्वतेषु महदेश्वरस्वामिनः मन्दिरस्य पर्वतशिखरम् एव पवित्रतमम् इति भक्तजनानां भावः । गिरिजनाः सोलिगजनाः इत्यादयः ये पर्वतं परितः वसन्ति तेषां कुलदैवं श्री मलेमहदेश्वरः । अयं महदेश्वरः स्वामी इति कश्चित् महाजनः क्रि.श.१५ अस्मिन् प्रदेशे अवसत् इति पुराणगाथा वदति । लोकमाङ्गल्यार्थं श्रीमहदेश्वरस्वामी देशसञ्चारं कृत्वा बहूनां साधकानां कष्टपरिहारं कृत्वा चमत्कारी महापुरुषः इति प्रसिद्धः अभवत् । अयं महापुरुषः हरदनहळ्ळि मठस्य तृतीयः पीठाधीशः इत्यपि इतिहासः । एषः पर्वतः ३२०० पादपरिमितोन्नतः पर्वतपङ्क्तियुक्तः । अस्य स्थलस्य श्रीमलेमहदेश्वरः मुख्यः देवः अस्ति । एषः लिङ्ग्गाकारः। शासनानाम् आधारेण एतस्य नाम महदेश्वर इति । श्रेष्ठयोगिनः १४-१५ शतकेषु अस्मिन् प्रदेशे आसन् । एते परशिवस्य अवतारपुरुषाः इति जनानां विश्वासः अस्ति । एते अत्र तपः कृत्वा सिद्धपुरुषाः इति नाम प्राप्तवन्तः । एतेषां सिद्धपुरुषाणां वनवासिनः अजपालकाः व्याधाः च भक्ताः आसन् । एतेषां स्मरणार्थं देवस्थानं निर्मितम् अस्ति । ते सर्वे अत्रैव लिङ्गैक्यतां प्राप्तवन्तः इति इतिहासः अस्ति । एतत् तीर्थस्यानं प्रति कर्णाटक-तमीलनाडुराज्यतः सहस्रशः भक्ताः आगच्छन्ति । दर्शनं कुर्वन्ति । टिप्पुसुल्तान् मैसूरुओडेयर प्रभृतयः देवालयाय अपरिमितं दानं दत्तवन्तः सन्ति । मार्गसूची-मैसूरुतः २६० कि.मी । मेट्टूरुतः ४० कि.मी।

"https://sa.wikipedia.org/w/index.php?title=मलैमहादेश्वराद्रिः&oldid=367287" इत्यस्माद् प्रतिप्राप्तम्