सामग्री पर जाएँ

वर्गः:संयोजनीयाः लेखाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 *मानसिकस्वास्थ्यस्य           सम्प्रत्ययः उद्देश्यानि च

[सम्पादयतु]

        मानसिकस्वास्थ्यविज्ञानस्य शाब्दिकं अर्थं अस्ति - मस्तिष्कं स्वस्थं कर्तुं यत् विज्ञानं वर्तते, तत् मानसिकस्वास्थ्यविज्ञानम् अस्ति। यथा- शारीरिकस्वास्थ्यविज्ञानस्य सम्बन्धः शरीरेण सह अस्ति तथैव मानसिकस्वास्थ्यविज्ञानस्य सम्बन्ध: मस्तिष्केन सह वर्तते । अतः अयं वक्तुं शक्नुमः यत्, मानसिकस्वास्थ्यविज्ञानं तत्  विज्ञानं अस्ति यः मानसिकस्वास्थ्यं स्थापनाय मानसिकरोगाणां निवार्णार्थं उपायं  ददाति।

[सम्पादयतु]

             मानसिकस्वास्थ्य: शब्दस्य जन्म: 'येल विश्वविद्यालयस्य' स्नातक: क्लिफोर्ड बीयर्सस्य स्वजीवनस्य घटनायाः सम्बद्धोऽस्ति। यदा तेन स्वस्य गृहस्य चतुर्थः हर्म्यात् कुर्दित्वा आत्महननस्य असफलं प्रयासं कृतम्। तदा तेन स्वानुभवेन "A mind that found it self" नामकं पुस्तकं लिखितम्। एतेन पुस्तकेन माध्यमेन          क्लिफोर्डबीयर्स मनोवैज्ञानिकः विभिन्नान् मनोवैज्ञानिकान् मानसिकस्वास्थ्यस्य सम्बन्धे चिंतनं कर्तुं बाधितवन्तः।

                  मनसः स्वरूपस्य विवेचनाया: आधारे, भिन्नः- भिन्नः प्रकारेण भारतीय- पाश्चात्येषु च सिद्धान्तेषु मानसिकस्वास्थ्यं परिभाषितं कृतम्। मनोविकारै: युक्त: मानसिकावस्थामेव मानसिकस्वास्थ्यं अमन्यत् । परञ्च आधुनिकाः नैदानिकाः मनोविज्ञानं समायोजनस्य क्षमता, मानसिकस्वास्थ्यस्य च आधारशिला मन्यन्ते। केचन आधुनिकाः  मनोविश्लेषका: इदम् मानसिकं तथा भावनात्मकं आवेगानां समायोजनक्षमता कथ्यन्ते।

*मानसिक-स्वास्थ्यस्य अर्थं स्पष्टतया ज्ञानाय काचित् परिभाषा सन्ति। यथा -

क्रो एवं क्रो = महोदयानुसारेण - मानसिकस्वास्थ्यविज्ञानमस्ति ।यस्य सम्बन्धः मानवस्य कल्याणेन सह अस्ति। यत् च मानवसम्बन्धानां सर्वान् क्षेत्रान् प्रभावितं करोति।

जेम्स ड्रेवर = महोदयानुसारेण - मानसिकस्वास्थ्यविज्ञानस्य अर्थमस्ति । मानसिक स्वास्थ्यस्य नियमानां अन्वेषणं ,तस्य च संरक्षणाय उपायं कुर्युः।

बी.एफ.स्किनर = महोदयानुसारेण - मानसिकस्वास्थ्यविज्ञानस्य मुख्यसम्बन्धः वर्तते अत्यधिकस्वस्थ: मानवस्वास्थ्यस्य सम्बन्धस्य  विकासात् अस्ति। तात्पर्योऽयम् अस्ति मानवव्यवहारस्य सम्बन्धे अर्जितज्ञानं दैनिकजीवने प्रयोगं करणीयम् ।

लडेन:महोदयानुसारेण-मानसिकस्वास्थ्यविज्ञानस्य अर्थमस्ति - वास्तविक्तायाः धरातले वातावरणात् पर्याप्तं समायोजनं कर्तुं योग्यता।

कुप्पुस्वामी महोदयानुसारेण- दैनिकजीवने भावनासु, वाञ्छासु, महत्त्वाकांक्षासु, आदर्शेषु च संतुलनस्थापनं योग्यता।तात्पर्योऽयं जीवनस्य वास्तविकतानां प्रत्यक्षं कर्तुं तान्च स्वीकरणाय योग्यता भवेत् ।

*इताभिः परिभाषाभिः  अस्माभिः इदं ज्ञातम्। यत् मानसिकस्वास्थ्यं किम्  अस्ति ,सम्प्रति मानसिकस्वास्थ्यस्य केचन बिन्दवः अपि सन्ति । येषां वर्णनं बी.एफ.स्कीनर: महोदयानुसारेण एवं अस्ति।

1. सकारात्मकं बिन्दुः-  प्रारम्भिकावस्थायां मानसिकरोगाणां अन्वेषणं, तथा रोगनिर्वारणस्य उपायं कर्तुं व्यवस्था भवेत्।तया समाजस्य मनुष्याणां स्वस्थजीवनस्य व्यवस्था करणम्।

2. नकारात्मकं बिन्दु :- मानसिकरूपेण अस्वस्थव्यक्तिनां उदारकुशलतयाभ्यां चिकित्सा करणम्।

अन्येषां विदुषां मते-----

1. उपचारात्मकं बिन्दु: - मानसिकरोगान् दुरीकरणाय उपायः कथनम्।

2.निरोधात्मकं बिन्दुः - मानसिकरोगाणां निदानस्य उपायः कथनम्।

3.संरक्षणात्मकं बिन्दुः -मानसिकस्वास्थ्यं स्थापनाय  विधिः कथनम्।

*मानसिकस्वास्थ्यस्य उद्देश्यानि---

* मानसिकस्वास्थ्यस्य आवश्यकतानुसारम् अनेकानि उद्देश्यानि सन्ति यथा-

1.शाफिर: महोदयानुसारेण- एषः स्वास्थ्यः मनुष्यं अत्यधिका पूर्णता ,अत्यधिकं सुखं , अतिसामंजस्यं,  अतिप्रभावपूर्णं जीवनं प्राप्तुं सहायतां करोति।

2.बोरिंग लेंगफेल्ड: एवं बेल्ड:- महोदयोः अनुसारं चिन्तानां कुसमायोजानाञ्च अन्तं कृत्वा मनुष्यान् सरलं संतुष्टयुक्तं अत्युत्पादकञ्च जीवनं यापितुं सहायतां करोति।प

3. क्रो एवं क्रो महोदयो अनुसारं---

(1).स्वस्थव्यक्तित्वस्य  विकास:, जीवनस्थः अनुभवान् ज्ञात्वा मानसिकाव्यवस्थानां निर्वाणम्।

[सम्पादयतु]

(2). व्यक्ते: तथा तस्य समुहस्य स्वास्थ्यस्य संरक्षणं भवेत्।

[सम्पादयतु]

(3).मानसिकरोगाणां समापयितुं उपायानां अन्वेषणं तथा तेषां जीवने अनुप्रयोगः करणीयम्।

[सम्पादयतु]

मानसिकरुपेणस्वस्थव्यक्तेःविशेषताः

               मनोवैज्ञानिकः कुप्पुस्वामिना अनुसारेण मानसिकरुपेण स्वस्थव्यक्तेः  एताः विशेषताः भवन्ति ।यथा-

1.सहनशीलता- यस्मिन् मनुष्ये सहनशीलतायाः गुणं  भवति तस्य जीवने निराशायाः अपि आभावः भवति, एवं सः प्रकृत्या सरल: भवति तथा सरलस्वाभावेन समस्यानां निवारणं करोति।

2.आत्मविश्वास: येषु मनुष्येषु आत्मविश्वासस्य गुणं वर्तते ।ते यत् जानन्ति यत्,स्वकीयया योग्यतया इदं कार्यं कर्तुं शक्तः न वा। तेन कारणेन ते प्रत्येकं कार्यं उचितरीत्या कुर्वन्ति। एते मनुष्याः स्वकीयेन प्रयासेन स्वकीयाना समस्यानां समाधानं कुर्वन्ति।

3.सांमजस्यस्य योग्यता - यः मनुष्यः मानसिकरुपेण स्वस्थोऽस्ति। तस्मिन् सामंजस्यस्य योग्यता अपि भवति  अभिप्रायोऽयं- सः अपराणां ,विचाराणां ,समस्यानाञ्च  ज्ञात्वा तया प्राप्तविभिन्नतां   स्वाभाविकाः वार्ताः मन्यते।

4.आत्ममूल्याङ्कनस्य क्षमता- मनुष्ये आत्ममूल्याङ्कनस्य क्षमता भवति । तया तं  स्वगुणानां  विचाराणां वाच्छानां च ज्ञानं भवति। तथैव सः निष्पक्षरुपेण स्वस्य व्यवहारस्य  औचित्यानौचित्यश्च निर्णयं करोति । सः स्वः गुणान् प्रकटयति दोषान् च सहजभावेन स्वीकरोति।

5. शारीरिकस्वास्थ्यं प्रति ध्यानं- इत्थं मनुष्य:  शारीरिकस्वास्थ्यं प्रति पूर्णं अवधानं ददाति। सः  स्वास्थ्यार्थं नियमितदिनचर्या युक्तं जीवनयापनं करोति। स: स्वास्थ्यसंवर्धनार्थं व्यक्तिगतस्वच्छतायाः कृते  सम्यक् वातावरणस्य निर्माणं करोति।

                   एवं अनेका: विशेषताः सन्ति, यस्य मानसिकस्वास्थ्यः सम्यक् भवति। इत्यादिनां विशेषतानां धारणं कृत्वा  प्रत्येकमनुष्यः मानसिकरुपेण स्वस्थः भूत्वा मानसिकस्वास्थ्यस्य निर्माणं करोति।

        $$धन्यवादः$$