अक्षरं ब्रह्म परमं...
[[Category:]]
श्लोकः[सम्पादयतु]

श्री भगवानुवाच -
- अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
- भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य तृतीय:(३) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अक्षरं ब्रह्म परमं स्वभावः अध्यात्मम् उच्यते भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः ॥ ३ ॥
अन्वयः[सम्पादयतु]
परमम् अक्षरं ब्रह्म, स्वभावः अध्यात्मम् उच्यते । भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः ।
शब्दार्थः[सम्पादयतु]
- अक्षरम् = विनाशरहितः परमात्मा
- परमम् = अत्युत्तमम्
- ब्रह्म = ब्रह्म (उच्यते)
- स्वभावः = जीवरूपेण देहे भवनम्
- अध्यात्मम् = अध्यात्मम्
- उच्यते = कथ्यते
- भूतभावोवकरः = भूतानाम् उत्पत्तेः वृद्धेः च कारणम्
- विसर्गः = यज्ञः
- कर्मसंज्ञितः = कर्मनामकः ।
अर्थः[सम्पादयतु]
अत्युत्तमं विनाशरहितं सर्वव्यापकं च ब्रह्म इत्युच्यते । तादृशस्य ब्रह्मणः जीवरूपेण शरीरे अवस्थानम् अध्यात्मं कथ्यते । सर्वेषां भूतानाम् उत्पत्तौ वृद्धौ च कारणीभूतः यज्ञः (देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य विसर्जनम्) कर्म इति उच्यते ।