सामग्री पर जाएँ

सन्त शिशुनाळ शरीफ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



कृपया एषः लेखः शिशुनाळ शरीफ-लेखेन सह संयोज्यताम् ।


सन्त शिशुनाळशरीफः

[सम्पादयतु]

सन्तशिशुनाळशरीफमहोदयः १६ तमे शतके भूतेषु अनुभाविषु प्रमुखः।जानपद प्रतिनिधिः एषः योगकविः यथा सामान्यमनुष्येभयः अपि अर्थम् भवेत् तथा मानवतायाः तत्त्वबोधनम् कृतवान् अस्ति।धर्मपरिपालनं तथा तत्त्वसौरभम् आस्वादयितुं एकैकः जनः अपि अर्हः इति सन्तशिशुनाळशरीफमहोदयः उक्तवान् अस्ति। यथा तस्य नाम एव वदति तथा सन्तशिशुनाळशरीफमहोदयः 'शिशुनाळ' इति ग्रामे जन्म प्राप्तवान्।शिशुनाळः धारवाड मण्डले शिग्गाव् उपमण्डलस्य एकः लघुग्रामः, 'गुडगेरि' धूमशकटनिस्स्थानात् प्रायः चत्वारि मैल् अन्तरमस्ति।एतस्य लघुग्रामस्य सात्विक मुसल्मानकुटुम्बे शरीफः १८१९ तमे वर्षे मार्च् ७ तमे दिने जन्म प्राप्तवान्।तस्य सम्पूर्णनाम मोहम्मद् शरीफः इति।परन्तु ग्रामे तथा तत् ग्रामं परितः ग्रामान्तरेषु शरीफमहोदयः इत्येव प्रसिद्धः आसीत् सः। एतस्य पिता हजरत् इमाम् महोदयः,मातुः नाम हाजुम् इत्यासीत्।वृत्त्यां कृषिकः असीत् एषः हजरत् इमाम् महोदयः सात्विकजीवी तथा अल्लादेवस्य आदर्शभक्तः।समाजसेवा तथा समाजकल्याणम् एतस्य जीवनस्य ब्रुहत् लक्ष्याण्यासन्।निर्धनकुटुम्बे सति सुखेन जीवनं यापयन्ति स्म।एतस्य पिता हजरत् इमाम् महोदयः,मातुः नाम हाजुम् इत्यासीत्।वृत्त्यां कृषिकः असीत् एषः हजरत् इमाम् महोदयः सात्विकजीवी तथा अल्लादेवस्य आदर्शभक्तः।समाजसेवा तथा समाजकल्याणम् एतस्य जीवनस्य ब्रुहत् लक्ष्याण्यासन्।निर्धनकुटुम्बे सति सुखेन जीवनं यापयन्ति स्म।हजरत् इमाम् महोदयाय बहुकाल पर्यन्तम् सन्ततिः नासीत्।अतः दम्पती हुलुगूरु इति ग्रामस्य सन्त खादर् षाह् वलेः स्मारकम् अनन्यभक्त्या सन्ततिफलापेक्षया प्रार्थनम् अकरोत्।कतिचन वर्षेषु एव एतस्य प्रार्थना खादर् षाहं प्राप्तम् वा इति हाजुं पुत्ररत्नाय जन्म दत्तवती। विरले जन्म प्राप्तवतः कुलदीपकस्य मोहम्मद् शरीफः इति नामकरणं कृतवन्तः।तदनन्तरम् एतदेव नाम शिशुनाळ शरीफ महोदय: इति प्रख्यातः अभवत्। शरीफः बाल्यं शिशुनाळ ग्रामे एव अयापयत्।प्राथमिक शिक्षणस्य विद्याभ्यासम् अत्रैव अभवत्।प्रथमतः सः कन्नडं कूलिमठे पठितवान्।दरिद्रतायाः कारणात् शरीफस्य विद्याभ्यासं केवलं कन्नडे सप्तमकक्षा पर्यन्तमभवत्।तथापि उर्दु तथा मोडिं स्वप्रयत्नेन अधीतवान्।बाल्यैव एषः रामायणं,महाभारतं तथा च अल्लम्मा प्रभोः बहिप्राङ्गणनाटकेषु पात्रं कृत्वा प्रेक्षकाणां नेत्रानन्दं कृतवान्।तद्विहाय महोत्सवेषु सर्वज्ञः,निजगुण शिवयोगी,सर्पभूषण शिवयोगी इत्यादीनाम् अनुभावकवीनां काव्यवाचनमपि करोति स्म।सः मुसल्मानकुटुम्बे जन्म प्राप्ते सति,हिन्दू परम्परया साकं शरीफस्य बाल्यं अन्तर्गता अभूत्।अन्यत्र मोहरम्,अलावि,कर्बला इत्यादिषु मुसल्मानमहोत्सवेष्वपि भागं वहन्ति स्म।इत्थं भक्तिः,ज्ञानं,दासोहं इत्यादि कार्येषु एषः नेता भवति स्म। शरीफमहोदयः यौव्वने शिशुनाळ ग्रामस्य पार्श्वग्रामे कतिचन दिनपर्यन्तं कन्नड उपाध्यायः आसीत्।परन्तु सः तस्मिन् उद्योगे बहुदिनपर्यन्तं नासीत्।यदा सः उपाध्यायः आसीत् तदा तस्य विवाहः कुन्दगोळस्य फकीर महोदयस्य ज्येष्ठपुत्री फातिमया सह अभवत्।कश्चन कालानन्तरं तयोः एका पुत्री सञ्जाता।सा कालरा रोगेण मरणं प्राप्तवती।शरीफस्य मध्यमवयसि एव तस्य पत्नी फातिमा अपि मृतवती।एवं पुत्री तथा च भार्यायाः मरणात् शरीफस्य न सह्यम् आघातः अभवत्। तथापि असम्भ्रान्तः,निर्भीतः शिशुनाळ शरीफः तस्य सांसारिक दुःखं साधु-सन्तानां सहवासेन न्यूनं कृतवान्।तस्य गृहस्य अनति दूरे अन्यत् गृहमासीत्।तस्य गृहस्य पार्श्वे एका वितर्दिः आसीत्।तस्याः उपरि अध्यात्म-सुबोध-धर्म-नीति बोधनस्य हव्यासं एधनरीत्या तस्य दुःखं दूरीकरोति स्म।तथा च तन्मूलकं तस्य अध्यात्मज्ञानं ग्रामस्य जनानां कृते प्रयोजनाय अपि प्रयोगः कृतवान्।अद्यापि शिशुनाळे एतत् बोधनपीठमस्ति।इदं जनाः पूजामपि कुर्वन्ति।शरीफः साधु-सन्तानां,विद्वत्पुरुषाणां कृपां प्राप्तुं मठ-मन्दिराणि गच्छन्ति स्म।व्रत-मौन-पूजा-अनुष्ठानेषु, जप-याग-यज्ञ-प्रार्थना-भजनासु कालं यापयति स्म। आहत्य देवस्य ध्याने तथा च उपासनायां तस्य कौटुम्बिकाघातं विस्मर्तुं प्रयत्नं करोति स्म। शरीफः गुरोः कृपां प्राप्तुं मठ-मन्दिरं गत्वा नमस्कृत्य,तस्य एकम् उत्तमम् आदर्शगुरुं ददातु इति देवं प्रार्थयति स्म।एवं गुर्वर्थं अन्वेषणं कुर्वन् आसीत् सः।तस्मै देवः फलं नूनं दत्तवान्। सः किञ्चिदेव काले ’गुरु श्री गोविन्द भट्ट’ इति आदर्शगुरुं प्राप्तवान्।गोविन्द भट्ट: कळस ग्रामस्य निवासी।सः ब्राह्मणकुलीनः,तथा ज्ञानी,विद्यावान्,आदर्शगुणी इति विख्यातः आसीत्।उन्नतः,रक्तवर्णीयः,दिगम्बर: चरमूर्तिः गोविन्द भट्ट: स्मितवदनः,प्रसादवाणी,दिव्यव्यक्ती आसीत्।हस्ते ताम्रकलशः,स्कन्धे वेष्टिः,कट्यां कौपीनम्,एतत् सर्वं तस्य वेश-भूषणमासीत्।गुरु गोविन्द भट्टः प्रापञ्चिकः,सौ॥उमाभाई तस्य भार्या।गुरु गोविन्द भट्टः शक्तेः उपासकः आसीत्।लीलापुरुष: इति तस्य ख्यातिः।उदारहृदयी एतस्य मनुकुलम् एकमेव इति उदात्तम्,उदारं च मनोभावः आसीत्।जाति-मतयोः भेदं सः न सहिष्णोति स्म।अन्यजातीयं मुसल्मानं शिष्यं शरीफं सः मुक्तहृदयेन विद्यादानम् अकरोत्।गुरुशिष्यौ एकमेव स्थालिकायां भोजनं कुर्वन्तौ आस्ताम्।एतेन तयोर्मध्ये अन्योन्यता कथम् आसीत् इति ऊहां कर्तुं शक्यते। एतेन ज्ञानपिपासया भ्रमितस्य जीवस्य इदानीं गुरुकृपया तृप्तिमभवत्।गुरुशिष्यौ,विशेषेण द्वावपि सदा आहत्य एव भवतः स्म।गुडगेरि ग्रामस्य कुम्बकारवृद्धस्य गृहं विशेषेण आगमनं,तत्रैव आवासनं,भोजनादयः तत्रैव कर्तुम् अभ्यासः आसीत् ताभ्याम्।शरीफस्य अनुभाववाचं कुम्भकारवृद्ध: एव लिखति स्म।शरीफः आनन्दलहर्यां नादब्रह्मेण सह एकीभूत्वा,आत्मविस्मृतिम् अनुभूय गायति स्म।तदा ताः गीताः कुम्भकारवृद्धः लिखति स्म।कुम्भकारस्य एका पुत्री आसीत्।तस्याः नाम ’बसम्मा’ इति।सुन्दरबालिका सा शरीफस्य क्रीडनार्थं पाञ्चालिका आसीत्।सा सम्भ्रमेण गृहं सर्वं अटति स्म।शरीफस्य,तस्य गुरोः गोविन्द भट्टस्य च आदरातिथ्यं करोति स्म।यदा शरीफः दिव्यस्फूर्तिं प्राप्नोति स्म,तदा सः बसम्माम् आहूय “हे बाले,आगच्छतु,अत्र शृणोतु.एतां गीतां गायतु” इति वदति स्म।अशिक्षिता सा शरीफस्य शताधिका: गीता: अन्यूनातिरिक्तेन एतावत् दिनानि पर्यन्तं गायति स्म।शरीफस्य दिव्यव्यक्तित्वं सा यथा आसीत् तथैव वदति स्म। गुडगेरि तथा शिशुनाळ ग्रामे शरीफमहोदयं दृष्टवन्ताः जनाः बहवः लभ्यन्ते।सुन्दरप्रतिमायाः सदृशं शरीफस्य देहरचना आसीत्।तैलरक्तवर्णं,गोलवदनं,निरातङ्कवदनस्योचिता नासिका,विशालौ कर्णौ,विशाले नेत्रे,विशालं ललाटम्,एतैः सर्वैः गुणैः शरीफ: बहु आकर्षकव्यक्तिः आसीत्।पादौ आच्छादनरीत्या ऊर्मीं कृत्वा वस्त्रं धारयति स्म।श्वेतवर्णीयं युतकं सुव्यवस्थया धारयति स्म।शिरसि गोलाकारं उष्णीषं धारयति स्म।कण्ठे चक्राकारं हारम् उन्नयति स्म।तस्य वेश-भूषणं सुव्यवस्थितं भवति स्म।इस्लां पद्दतिसदृशं तस्य श्मश्रुः नासीत्।पादौ काष्टस्य पादरक्षां धारयति स्म।यद्यपि शरीफः जन्मतः मुसल्मानः आसीत्,तथापि सः मांसहारी अभूत्वा केवलं सात्विकाहारं स्वीकरोति स्म।परन्तु मादकपेयं तथा तमाखुं सेवते स्म।एतदेव कारणात् शरीफ: तथा च तस्य गुरुः गोविन्द भट्टः तस्मिन् कालस्य समाजेन बहिष्कारम् अभ्युत्थानं कृतवन्तौ आस्ताम्।तद्विहाय केचन अपवादाः अपि तयोः उपरि उन्नयनं कृत्वा बहु पीडितवन्तः ग्रामस्य जनाः।विशेषेण गोविन्दभट्ट: शरीफस्य कृते उपवीतं धारणं कृतवान्।अत: ब्राह्मणवर्गः तयोः उपरि कुपितः आसीत्।एवं द्वेषसाधनं कृतवन्तः बहवः जनाः तेषां प्रमादं ज्ञात्वा पश्चात्तापेन शरणागतिं कृत्वा शरीफमहोदयं तथा गोविन्द भट्ट महोदयं क्षमां याचितवन्तः।सामान्यतया जीर्णा: देवालयाः तथा सार्वजनिक मठ-मन्दिराणि एव शरीफस्य वासस्थानानि आसन्।तुर्यावस्थायां शरीफः शरीरस्य स्मृति-प्रज्ञा-ज्ञानादयान् परित्यज्य देवोन्मादे लीनः भवति स्म।सः निष्ठुरस्वभावी आसीत्,अतः क्स्यापि दया,दाक्षिण्यस्य भागी न भवति स्म।समाजस्य दोषं तीक्ष्णरीत्या परिष्कारं कृत्वा शरीफ महोदयः मानवकुलस्य हितं सदा आशयति स्म।अत एव शरीफस्य स्फटिकसदृशः स्वभावः।प्रपञ्चस्य लौकिकव्यवहारेषु पारदर्षकः आसीत् सः।यदि याचनं कृत्वा खादामि तर्हि अन्यस्य ऋणे बन्धितः भवामि इति चिन्तयित्वा कदाचित् उपवासस्य प्रसङ्गे अपि किमपि न खादित्वा सः आग्रहं करोति स्म।गृहे तस्य प्रसूतिका पत्नी उपवासा अस्ति चेदपि शरीफः कस्मादपि धनम् अथवा एका मुष्ठि: आन्नमपि न याचते स्म।सः स्वाभिमानस्य खनिः आसीत्।परन्तु यः कोऽपि प्रेम्णा आहूय दत्तवान् चेत् तदेव प्रसादमिति स्वीकरोति स्म।गुडगेरि कुलकर्णिः शरीफ महोदयस्य उपरि विशेष पूज्यभावनया तस्य कृते धानयादीनि प्रेषयति स्म।प्रारब्धकर्मणि शरीफस्य बहु विश्वास: आसीत्।गुडगेरि कुलकर्णि म्होदयः इतोऽपि अस्ति।शरीफस्य गीतास् समकालीन वृद्धेषु बालकेषु च उल्लेखाः सन्ति।सः पादस्पर्शं कृता भूमिः तथा पवित्रस्नानं कृतं जलं,एतत् सर्वं सः मुक्तकण्ठेन श्लाघितवान्। शरीफ: जनपदकवी आसीत्।सम्भाषणभाषा तस्य गीतासु बह्वी दृश्यते।धर्मसमन्वयदृष्टिः,एकोभावः एतासु गीतासु दृश्यते।अतः एताः गीताः अनुभावगीतापरम्परायां भाषा तथा साहित्यशास्त्रज्ञाः योजनं कृतवन्तः।शरीफम् अनुभावी इति उक्त्वा शिवशरण-हरिदासपङ्क्त्यां योजनं करणमुचितम्।जीवनस्य प्रति लघु घटनायां शरीफः दैवीस्वरूपं वीक्षितवान्।अनुभवविषये एकैकं वचनमौक्तिकं दत्तवान् अस्ति।एतत् मौक्तिकं कदापि विनाशं न भवति,तस्य मौल्यस्य वर्णनं कर्तुमसाध्यम्।एतस्य सर्वासु गीतासु “शिशुनाळदीश” अथवा “शिशुनाळेश” इति अङ्कितः अस्ति। एवं शरीफस्य साहित्यलोकः श्रीमान् अस्ति।एकैका गीता अपि तस्यैव भाववैखर्या योजनं कृतमस्ति।तासु जानपदस्पन्दनं अस्ति।शरणानां बोधनकार्यस्य महत्त्वं सर्वेषां पद्यानां कशेरुकम् अस्ति।जीवनस्य परिशुद्धता,चारित्र्यनिर्माणं,सात्विकता,एते सर्वे शरीफस्य नीतिबोधस्य साराः सन्ति।शरीफस्य स्त्रीनीतिबोधनं मार्मिकमस्ति।एतेन महायोगिना,जनपदानुभावकविना शिशुनाळे ग्रामस्य मौल्यं आगतमस्ति,अपि च समस्तराज्ये शरीफमहोदयस्य भक्तेभ्यः पवित्रक्षेत्रमिति परिणामः अभूत्।लेखकानां,रसिकानां,कलोपासकानां यात्रास्थलं अस्ति।पद्यानां राग-तालादयः यथा जनाः अद्य गायन्ति तथैव सन्ति।अत एव शरीफः जनसामान्यानां वरकविः अस्ति।तस्य अनुभवान् अतिपरिचयेन प्रेम्णा च उक्तिं करणं शरीफमहोदयस्य गीतासां वैशिष्ट्येषु एकमस्ति।निराकारं साकरं करणीया कला शरीफस्य सुप्रयोगः आसीत्।एतत् तस्य पद्येषु एव वयं ज्ञातुं शक्नुमः।शरीफस्य वाणी निराडम्बरा सरला च,परन्तु तथैव मार्मिका।शरीफः पद्यरचनायाः पाकं सम्यक् एव ज्ञातवान् आसीत्।गृहेऽपि कुन्दगोळस्य नाडगेर.गौडसान्यां मुक्तमनसा,अतिपरिचयेनैव भोजनं-वसनं करोति स्म।यदा तस्य ऋणस्य क्लेष: अधिकः अभवत्,तदा शिशुनाळे ग्रामे यानि गृहाणि-क्षेत्राणि आसन् तानि सर्वाणि क्रि.श.१८८८ वर्षे विक्रयणं कृतवान्।शिशुनाळ ग्रामं परितः ये ग्रामाः आसन् तत्र गत्वा जनानां विवेकस्य प्रमाणं ज्ञात्वा तेभ्यः यथा अर्थं भवति तथा सरलकन्नडभाषायां नीतेः उपदेशं कृत्वा,तस्य प्रति यदन्नम्-आहारं ग्रामस्य जनाः यच्चन्ति तदेव खादित्वा जीवनं यापयन्ति स्म। शरीफः पावनक्षेत्राणि,मठ-मन्दिराणि,यवनप्रार्थनामन्दिराणि,वेदिकाः राज्याद्यन्तं प्रवासं कृत्वा सन्दर्शितवान्।तत्र प्रचलितेषु उत्सव-रथोत्सवेषु उत्साहेन सहभागी भवति स्म।उळवि,एल्लम्मन गुड्ड,मुक्तिमन्दिरं,हुलुगूरु,हुब्बळ्ळि इत्यादीन् मठान् क्षेत्रान् च वीक्षितवान्।नूल्वी ग्रामे तस्य गुरोः गोविन्दभट्टस्य स्मारकः तथा गुर्लहोसूर,मुरगोड इत्यादिषु क्षेत्रेषु परमपूज्य चिदम्बरदीक्षितः यानि यज्ञ-यागादीनि करोति स्म,तानि नियमितकाले वीक्ष्य आगच्छति स्म।इत्थं शरीफः उत्तरकन्नडस्य अनेकानि पुण्यक्षेत्राणि दृष्टवान् तथा प्रवासानन्तरं प्रत्यागत्य तस्य प्रवासस्य अनुभवकथनं अपि च सर्वाणां क्षेत्राणां महिमां तस्य पद्येषु बन्धितवान्। गुर्लहोसूरु ग्रामस्य श्री चिदम्बरदीक्षितः,श्री बाललीला महान्तशिवयोगी,गुडगेरि कल्मठस्य सङ्गमेश्वरः,अङ्कलगि ग्रामस्य श्री अडवि स्वामी,अगडि श्री शेषाचल स्वामी,गदगु उपमण्डलस्य श्री शिवानन्दः,गरग ग्रामस्य श्री मडिवाळेश्वर महास्वामी,विश्वकर्मस्य प्रभुस्वामी,हुब्बळ्ळी मण्डलस्य श्री सिद्धारूढः इत्यादि सन्तश्रेष्ठाः शिशुनाळे शरीफ महोदयस्य समकालिनः सन्ति। एवं सत्पुरुषाणां सहवासे प्रौढं भूत्वा,दिव्यमानवः बभूव एषः महोदयः।शिशुनाळ शरीफ महोदयः तस्य जन्मस्थाने शिशुनाळे ग्रामे १८८९ तमे वर्षे मार्च् ७ तमे दिनाङ्के पञ्चत्वं गतः(अवसानं प्राप्तवान्)।तस्य अन्त्यं शान्तियुतमासीत्।मरणस्य पूर्वं शरीफः तस्य गुरुं श्री गोविन्दभट्ट महोदयं ज्येष्ठान् च स्मृतवान्।शिशुनाळेशाय नमो इति उक्तवान्।खादरलिङ्गाय नमो इत्यपि उक्तवान्।अवसानस्य केचन निमेषाः पूर्वं सः दिव्यस्फूर्तिं प्राप्य “ಬಿಡತೀನಿ ದೇಹ ಬಿಡತೀನಿ,ಭೂಮಿಗೆ ಕೊಡತೀನಿ,ದೇಹ ಬಿಡತೀನಿ” इति गीतवान्। अपूर्व अनुभावजीवमेकं परतत्त्वस्य ध्याने एव शिवसान्निध्यं प्राप्तम्।“शरणस्य मरणं मरणे एव पश्यतु” इति उक्तेः सदृशं शरीफः यदा जीवितः आसीत् तदा तस्य मौल्यं कोऽपि न ज्ञातवन्तः।मरणानन्तरं तस्य गौरवं जनाः ज्ञातवन्तः।जानपदानुभावकवये समस्तराज्यं बाष्पाञ्जलिमकरोत्। ’कणाटकस्य कबीरः’ इत्येव प्रख्यातः एषः सन्त शिशुनाळ शरीफ महोदयः यदा कालवशः अभवत् तदा हिन्दू-मुसल्मान स्माजस्य जनाः तस्य तस्य सम्प्रदायरीत्या शवसंस्कारं कर्तुम् आगतवन्तः।एवं अपूर्वस्तिथ्यां शरीफमहोदयस्य पार्थिवशरीरस्य अन्त्यॆष्टि: अभवत्।शवस्य समीपे एकत्र मुसल्मानाः कुरान् ग्रन्थस्य पठनं कृतवन्तः,तथा अन्यत्र हिन्दू जनाः वेदमन्त्रपठनम् अकुर्वन्।एकत्र “अल्ला हो अक्बर्” इति अशृणोत्,अन्यत्र “हर हर महादेव” इति उद्घोषं भवति स्म।एवं परम्परद्वयस्यापि अन्वयेन शरीफस्य अन्त्यसंस्कारम् अभवत्।अन्त्येष्ट्यां बहवः जनाः सहभागिनः भूत्वा,दार्शनिककवये अश्रुतर्पणं कृतवन्तः।हिन्दू-मुसल्मानानाम् ऐक्यस्य सेतुरिति आसीत् शिशुनाळे शरीफ महोदयः।एषः सनातनधर्मस्य उन्नयनं कृत्वा मानवकुलकोटिं उद्धारं कृतवान्।शरीफसदृशाः महात्मानः विकसनं कृतानि तत्त्वकुसुमानि त्रिकालेऽपि सुवासनं प्रसारणं कुर्वन्तः पुष्पाणि सन्ति।

"https://sa.wikipedia.org/w/index.php?title=सन्त_शिशुनाळ_शरीफ&oldid=370001" इत्यस्माद् प्रतिप्राप्तम्