छन्दांसि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

छन्दांसि

संस्कृतवाङ्मयस्य शेवधिः वेदाः। भारतीयानां समष्टिदर्शनस्य पूर्णफलं वेदेषु वरीवर्ति । वेदाङ्गानि विना वेदाध्ययनं अशक्यम् । वेदाङ्गानि षडेव हि । ते -

१) शिक्षा । २) व्याकरणम् । ३) कल्पः । ४) निरुक्तम् ५) ज्योतिषम् । ६) छन्दः

पिङ्गलाचार्याः छन्दश्शास्त्रं निर्ममिरे । शास्त्रेऽस्मिन् वैदिकछन्दसां सलक्षणनिरूपणं दरीदृश्यते ।

छन्दः ॥२।१॥ - इति सूत्रात् शब्दस्यास्य निर्वचनं एवम् प्रदत्तम् -- छन्दः शब्देनाक्षरसंख्यावच्छेदोऽत्राभिदीयते ।

' छन्दो हीनो न शब्दोऽस्ति न छन्दः शब्दवर्जितः ' - अतः शब्दछन्दसोः गतिसादृश्यं स्पष्टम् ।

शब्दानुपयुज्य कविभिः पद्यानि विरच्यन्ते । पद्यं नाम एका छन्दोबद्धरचना ।

परिभाषा[सम्पादयतु]

१) लघुः ( । ) :- > ह्रस्वस्वराः लग्घुर्भवन्ति । [ अ इ उ ऋ लृ ] > ह्रस्वस्वरसहितव्यञ्जनान्यपि लघुरेव भवन्ति । [ क च द ... ]

२) गुरुः ( ऽ ) :- > दीर्घस्वराः गुरुर्भवन्ति । [ आ ई ऊ ॠ ए ऐ ओ औ ] > दीर्घस्वरसहितव्यञ्जनान्यपि गुरुरेव भवन्ति । [ की मू दे ... ]

३) मात्रा / मात्रम् :- मात्रं नाम ह्रस्वस्वरोच्चारणसमयः ।

४) यतिस्थानम् ( caesura ) - " यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया । "

५) गणः :- त्रिवर्णसमूहो नाम गणः ।

गणानां विभजनम् -

१) य : । ऽ ऽ २) म : ऽ ऽ ऽ ३) त : ऽ ऽ । ४) र : ऽ । ऽ ५) ज : । ऽ । ६) भ : ऽ । । ७) न : । । । ८) स : । । ऽ

विशेषनियमाः -

१) अनुस्वारस्य पूर्वं वर्णं गुरुर्भवति । २) विसर्गस्य पूर्वं वर्णं गुरुर्भवति । ३) संयुक्ताक्षरस्य पूर्वं वर्णं गुरुर्भवति ।

छन्दसां वर्गीकरणम् -

छन्दः - अ) वृत्तिः / वृत्तम् ।

      आ) जातिः ।

अ) वृत्तिः त्रिधा -

१) समवृत्तम् । [ उदा० - अनुष्टुप् , उपजातिः ... ]

२) अर्धसमवृत्तम्। [ उदा० - पुष्पिताग्रा , वेगवती .. ]

३) विषमवृत्तम् । [ उदा० - उद्गता , ललितम् ... ]

एकस्मिन् पादे वर्तमानानां वर्णानां संख्यामधिकृत्य ' वृत्तम् ' लक्षणीभूतो वर्तते ।

आ) जातिः - एकस्मिन् पादे वर्तमानानां मात्राणां संख्यामधिकृत्य ' वृत्तम् ' लक्षणीभूतो वर्तते । [ उदा० - आर्या , गीतिः ... ]

प्रचुरछन्दांसि -

१) अनुष्टुप् - प्रतिपादे अष्टाक्षराणि भवन्ति ।

   लक्षणम् - पञ्चमं लघुसर्वत्र सप्तमं द्विचतुर्थयोः ।

गुरु षष्ठं च जानीयात् शेषेष्वनियमो मतः ॥

    उदा० -   वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
            जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥

- कालिदासः ।

२) इन्द्रवज्रा - प्रतिपादे एकादशाक्षराणि भवन्ति ।

          लक्षणम् - स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
     उदा० - चित्रं तदेतच्चरणारविन्दं चित्र तदेतन्नयनारविन्दम् ।	
            चित्रं तदेतद्वदनारविन्दं चित्रं तदेतद्वपुरस्य चित्रम् ॥

- लीलाशुकः।

३) उपेन्द्रवज्रा - प्रतिपादे एकादशाक्षराणि भवन्ति ।

          लक्षणम् - उपेन्द्रवज्रा प्रथमे लघौ सा ।
     उदा० - न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् ।
             न योगसिद्धीरपुनर्भवं वा समञ्जसत्वा विरहय्य काङ्क्षे ॥

- श्रीमद्भागवतम् ।

४) उपजातिः - प्रतिपादे एकादशाक्षराणि भवन्ति ।

         उदा० - अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
             पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥

- कालिदासः ।

५) रथोद्धता - प्रतिपादे एकादशाक्षराणि भवन्ति ।

         लक्षणम् - रात्परैर्नलगै रथोद्धता ।
    उदा० - अन्तराय तिमिरोपशान्तये शान्तपावनमचिन्त्य वैभवम् ।
           तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥

- मल्लिनाथः ।

६) वंशस्थविलम् - प्रतिपादे द्वादशाक्षराणि भवन्ति ।

         लक्षणम् - वदन्ति वंशस्थविलं जतौ जरौ ।
    उदा० - स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
           वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥

- कालिदासः ।

७) भुजङ्गप्रयातम् - प्रतिपादे द्वादशाक्षराणि भवन्ति ।

         लक्षणम् - भुजङ्गप्रयातम् चतुर्भिः यकारैः ।
    उदा० - अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानां ।
           तुरीयं तमःपारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम् ॥

- शङ्कराचार्याः ।

८) तोटकम् - प्रतिपादे द्वादशाक्षराणि भवन्ति ।

         लक्षणम् - वद तोटकमब्धिसकारयुतम् ।
    उदा० - विधिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे ।
          हृदये कलये विमलं चरणं भव शङ्करदेशिक मे शरणम् ॥

- तोटकाचार्याः ।

९) प्रहर्षिणी - प्रतिपादे त्रयोदशाक्षराणि भवन्ति ।

         लक्षणम् - त्र्याशाभिर्मनजरगा प्रहर्षणीयम् ।
    उदा० - स्वच्छन्दं दलदरविन्द ते मरन्दं विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।
           आमोदानथ हरिदन्तराणि नेतुं नैवान्यो जगति समीरणात्प्रवीणः ॥

- जगन्नाथः ।

१०) रुचिरा - प्रतिपादे त्रयोदशाक्षराणि भवन्ति ।

         लक्षणम् - जतौ सजौ गिति रुचिरा चतुर्ग्रहैः ।
    उदा० - उपागतौ मिलितपरस्परोपमौ बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ ।
           विचक्षणौ विविधनरेन्द्रलक्षणौ कुशीलवौ कुशलवनामधारिणौ ॥

- भोजः ।

११) वसन्ततिलकम् - प्रतिपादे चतुर्दशाक्षराणि भवन्ति ।

         लक्षणम् - ज्ञेयं वसन्ततिलकम् तभजा जगौ गः  ।
    उदा० - यात्येकतोस्तशिखरं पतिरोषधीनां आविष्कृतोरुणपुरस्सर एकतोऽर्कः ।
          तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥

- कालिदासः ।

१२) मालिनी - प्रतिपादे पञ्चदशाक्षराणि भवन्ति ।

         लक्षणम् - ननमयययुतेयं मालिनी भोगिलोकैः  ।
    उदा० - वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् ।
           त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥

- शङ्कराचार्याः ।

१३) पञ्चचामरम् - प्रतिपादे षोडशाक्षराणि भवन्ति ।

         लक्षणम् -लघुर्गुरुर्निरन्तरं भवेद्धि पञ्चचामरम्   ।
    उदा० - जटाकलापसम्भ्रमभ्रमन्निलिम्पनिर्झरी विलोलवीचिवल्लरी विराजमानमूर्धनि ।
           धगद्धगद्धगज्ज्वलल्लाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥

- रावणः ।

१४) शिखरिणी - प्रतिपादे सप्तदशाक्षराणि भवन्ति ।

         लक्षणम् - रसैरुद्रैश्छिन्ना यमनसलभा गः शिखरिणी  ।
    उदा० - प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रो प्रलजललवैरर्घ्यरचना ।
         स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तवजननि वाचां स्तुतिरियम् ॥

- शङ्कराचार्याः ।

१५) मन्दाक्रान्ता - प्रतिपादे सप्तदशाक्षराणि भवन्ति ।

         लक्षणम् -  मन्दाक्रान्ताऽम्बुधिरसनगैर्मा भनौ गौ ययुग्मम्   ।
    उदा० - कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येन भर्तुः ।
         यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुशु वसतिं रामगिर्याश्रमेषु ।

- कालिदासः ।

१६) पृथ्वी - प्रतिपादे सप्तदशाक्षराणि भवन्ति ।

         लक्षणम् -  जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ।
    उदा० - करौ शरदिजाम्बुजक्रमविलासशिक्षागुरुः पदौ विबुधपादपप्रथमपल्ल्वलोल्लङ्घिनौ ।
         दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ विलोकय विलोचनामृतमहोमहः शैशवम् ॥

- लीलाशुकः।

१७) शार्दूलविक्रीडितम् - प्रतिपादे नवदशाक्षराणि भवन्ति ।

         लक्षणम् - सूर्याश्वैर्मसजास्ततास्सगुरवः शार्दूलविक्रीडितम्  ।
    उदा० - यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठस्तम्भितबाष्पवृत्तिकलुषः चिन्ताजडं दर्शनम् ।
           वैक्लव्यं ममतावदीदृशमहो स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥

- कालिदासः ।

१८) स्रग्धरा - प्रतिपादे एकविंशत्यक्षराणि भवन्ति ।

         लक्षणम् - म्रम्भैर्यानां त्रयेण त्रिभुनियतियुता स्रग्धरा कीर्तितेयम्  ।
    उदा० - या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणात् या स्थिता व्याप्य विश्वम् ।
         यामाहुः सर्वबीजप्रकृतिरितियया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥

- कालिदासः ।

ग्रन्थसूची -

१) सर्वलक्षणसङ्ग्रहः, चौखाम्बा मुद्रणालयः, वाराणसी।

२) छन्दोवल्लरी, श्री अरविन्दाश्रमः ।

३) छन्दश्शास्त्रम्, चौखाम्बा मुद्रणालयः, वाराणसी।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=छन्दांसि&oldid=427723" इत्यस्माद् पुनः प्राप्तिः