वेदाङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

वेदाङ्गं वेदाध्यनस्य अधिकारप्राप्त्यै अध्येतव्यांशः। वेदाङ्गानि षड् सन्ति। अङ्गमित्यस्य पदस्य व्युत्पत्तिः " अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरूहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव - "षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः ।

"शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।

ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥

इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं च वेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि सन्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बोधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते ।

"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।

पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" ।

इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥

वेदोपि कश्चित्पुरुषकल्पः । अतः तस्य वेदपुरुषस्य किमङ्गं किमु शास्त्रमिति उच्यते यथा-

"छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं चक्षुषी च ।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्येवमाहुर्मुनीन्द्राः ॥"
एवं साङ्गवेदज्ञानम् एव पूर्णत्वं पूज्यत्वं च ददाति ॥

व्याकरणं वेदस्य मुखं इतिवत् ज्योतिषं वेदस्य चक्षुः इति स्तूयते।

वेदाङ्गस्यार्थः[सम्पादयतु]

अङ्गशब्दस्य व्युत्पत्तिलभ्यः अर्थोऽस्ति - 'उपकारकः’ - 'अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानि॥' अर्थाद् येन कस्याऽपि वस्तुनः स्वरूपज्ञाने साहाय्यं प्राप्यते तदेव अङ्गमिति कथ्यते ।

वेदः स्वयमेवैकः दुरूहो विषयोऽस्ति । तदर्थज्ञाने, तस्य कर्मकाण्डस्य प्रतिपादने यानि उपयोगीनि शास्त्राणि सन्ति, तान्येव वेदाङ्गानि भवन्ति ।

आवश्यकता[सम्पादयतु]

वेदस्य यथार्थज्ञानलाभाय षण्णां विषयाणां ज्ञानमपेक्षितं भवति । वेदमन्त्राणाम् अवितथोच्चारणमेव प्रथममावशयकं भवति। शब्दमयमन्त्राणां यथार्थोच्चारणाय प्रवर्तमानं वेदाङ्गं 'शिक्षा' इत्यभिधीयते । वेदस्य मुख्यप्रयोजनं वैदिककर्मकाण्डस्य यज्ञयागस्य च यथार्थानुष्ठानमस्ति । अस्मिन्नर्थे प्रवृत्तमङ्गं 'कल्प' इति कथ्यते । वेदानां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात् प्रकृतिप्रत्ययोपदेश-पुरःसर-पदस्वरूप-प्रतिपादकत्वादर्थनिर्णयनकृत्साधनेष्वन्यतमसाधनत्वेन प्रयुक्तत्वाद् व्याकरणं नाम वेदाङ्गं नितान्तमेव महनीयं श्रेष्ठञ्च अङ्गमङ्गेषु स्मृतम् । निरुक्तस्यास्ति विषयः — वैदिकपदानां व्युत्पादनम् । निरुच्यते निश्शेषेणोपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तन्निरुक्तमिति कथ्यते । वेदाः – सन्ति छन्दोबद्धाः । अतः तेषाम् उच्चारणनिर्मित्ताय छन्दोज्ञानं नितरामपेक्षितम् । वरुणस्य विषये शुनःशेपऋषेः प्रख्यातोऽयं मन्त्रोऽस्ति—

'निषाद घृतव्रतो वरुणः पस्त्यास्वा॥ साम्राज्याय सुक्रतुः॥'

यज्ञभागाः बहुविधाः सन्ति। केचन यज्ञाः एवंविधा विधाने नीताः, ये संवत्सरसम्बन्धिनः सन्ति । केचन क्रतुसम्बन्धिनो वर्तन्ते । केचन च तिथि-मास-पक्षनक्षत्रपरकाः सन्ति । तस्माज्ज्यौतिषं नाम वेदाङ्गमपि नैजं वैशिष्ट्यं निदधाति ।

संक्षेपेण वैदिकमन्त्राणामुचितोच्चारणाय शिक्षायाः, कर्मकाण्डस्य यज्ञीयानुष्ठानस्य च निमित्ताय कल्पस्य, शब्दानां रूपज्ञानाय व्याकरणस्य, अर्थज्ञानाय निर्वचनाय च निरुक्तस्य, वैदिकच्छन्दसां ज्ञानलाभाय छन्दसः, अनुष्ठानस्योचितकालनिर्णयार्थं च ज्योतिषशास्त्रस्य प्रयोजनमस्ति ।

आधुनिकानामितिहासकाराणां कथनमिदं यत् षण्णामपि वेदाङ्गानां निर्माणं वैदिकयुगस्य उत्तरार्द्धभागेऽभवत् । शिक्षा, व्याकरणं, कल्पः, निरुक्तं, छन्दः, ज्यौतिषं इत्येतानि वेदाङ्गानि सन्ति। पाणिनीयशिक्षा प्राह -

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।

ज्योतिषामयनं चक्षुर्निरुक्तं श्रौतमुच्यते।।

शिक्षा घ्रणां तु वेदस्य मुखं व्याकरणं स्मृतम्।

तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते।।[१]

पतञ्जलिना अपि उक्तम् - 'ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' (पस्पशाह्निके)।

षण्णामप्येतेषां वेदाङ्गानाम् उल्लेखो गोपथब्राह्मण-बौधायनधर्मसूत्र-गौतमधर्मसूत्र-रामायणसमेषु प्राचीनग्रन्थेषूपलभ्यते । बुद्धावतारात्प्राग्वर्त्तीकालात् उत्तरवैदिककालत्वेन अनुमीयते। वेदानां भाषा भावश्च उभावपि दुरूहौ स्तः तस्माद् वेदार्थावगमनाय वेदाङ्गानामपेक्षा भवति । 

शिक्षा[सम्पादयतु]

मुख्यलेखः : शिक्षा

शिक्षानाम तच्छास्त्रं येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । वेदे स्वरस्य प्राधान्यं वर्तते, स्वरज्ञानं च शिक्षाऽऽयत्तम्, अत एवेदं शिक्षाशास्त्रं वेदाङ्गम् । शिक्षाशास्त्रप्रयोजनं तैत्तिरीयोपनिषदारम्भे उक्तं, यथा —

'अथ शिक्षा व्याख्यास्यामः - वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तान इत्युक्तः शिक्षाध्यायः॥'

तत्र वर्णोऽकारादिः, स्वरोदात्तादिः, मात्रा ह्रस्वादिः, बलं स्थानप्रयत्नौ, साम निषादादिः, सन्तानो विकर्षणादिः । एतदवबोधनमेव शिक्षायाः प्रयोजनम् ।

यथा वैदिकविधीनां सम्पादनार्थं ब्राह्मणग्रन्थाः उपयुज्यन्ते, तथैवोच्चारणप्रयोजनेन शिक्षायाः उपयोगो वाञ्छच्यते । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वरवर्णाद्युच्चारणानि केन प्रकारेण कर्त्तव्यानीत्येतस्मिन् विषये उपदिशति । सायणस्य ऋग्वेदभाष्यभूमिकायामुक्तम् -

'स्वरवर्णायुच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षेति'

वेदपाठावसरे शुद्धमुच्चारणं स्वरक्रिया च युक्ता काम्येते। अशुद्धोच्चारणयुक्तो भ्रष्टस्वरश्च वेदपाठो महद् दुष्फलं जनयति । यज्ञयागोपासनादिकं यत्कार्यमिष्टलाभाय क्रियते, तस्माद्विशिष्टलाभो न कदापि अशुद्धेनोच्चारणेन समवाप्तः सञ्जायते । तद्विधमशुद्धोच्चारणयुतं कार्यं तु विपदां महतीम् उत्पादयति। श्रूयते यत् पुरा 'इन्द्रशत्रुर्वधस्व' इत्यस्य मन्त्रस्य अशुद्धोच्चारणं कृतमभूत्, तेन यजमानम्प्रति तदनिष्टकारकमसिद्धयत् । पाणिनीयशिक्षायामुक्तम् --

'मन्त्रो हीनः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह।

स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात्॥'

कल्पः[सम्पादयतु]

मुख्यलेखः : कल्पः

कल्पः वेदानां द्वितीयमङ्गमस्ति । ब्राह्मणकाले यागस्य तावान् प्रचारः जातः यत्, तेषां यथावज्ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानाम् आवश्यकता अनुभूयते स्म, तामेव आवश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि । वेदविहितानां कर्मणां व्यवस्थापनं क्रमपूर्वकं कल्पशास्त्रे कल्पितम्। उत्तञ्च - 'कल्पो वेदविहितानां कर्मणामानुपूष्येण कल्पनाशास्त्रम्।'

व्याकरणम्[सम्पादयतु]

मुख्यलेखः : व्याकरणम्

व्याकरणं नाम वेदानां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात्, प्रकृति-प्रत्यय-उपदेश-पुरस्सरपदस्वरूप-प्रतिष्ठापकत्वाद् अर्थनिर्णयनकृत्साधनेषु अन्यतमसाधनत्वेन प्रयुक्तत्वाद् वेदाङ्गस्य किञ्चन अङ्गम्। 

निरुक्तम्[सम्पादयतु]

मुख्यलेखः : निरुक्तम्

निरुक्तं निघण्टोर्महत्त्वपूर्णा टीकाऽस्ति । निरुच्यते निश्शेषेण उपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तत् निरुक्तमिति कथ्यते । निरुक्तं यस्मिन्नाधारे प्रवृत्तं भवति — अर्थात् प्रत्येकं संज्ञापदं धातुना व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘भाषाविज्ञानम्' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं प्राग् वैदिकाः ऋषयः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपणं कृतवन्तः । भाषाशास्त्रस्य इतिहासे भारतवर्षे एव अस्य मूलोद्गमस्थानमस्ति । निरुक्तस्य आरम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनं समुपलब्धं भवति, तत्तु विशेषरूपेण महनीयमस्ति।

छन्दः[सम्पादयतु]

मुख्यलेखः : छन्दः

छन्दो वेदस्य पञ्चमाङ्गमस्ति । वेदाः सन्ति छन्दोबद्धाः, अतः तेषामुच्चारणनिमित्ताय छन्दोज्ञानं नितरामपेक्षितम्। छन्दोभिधेनैतेनाङ्गेन छन्दसा सर्वेषामुच्चारणस्य विधिः, तदगतिप्रकारः, तद्गानरीतिश्च विदिता भवति। तस्माद्वैदिकमन्त्रोच्चारणप्रयोजनेन तदध्ययनं पूर्वमुचितम् । विना छन्दोज्ञानं यो वेदाऽध्ययनयजनयाजनादिकार्याणि करोति, तस्य तानि सर्वाणि कार्याणि न भवन्ति फलदायकानि । स्पष्टतया कात्यायनेन उक्तम् -

'यो ह वा अविदितार्षेयच्छन्दो दैवतब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्त्ये वा पात्यते प्रमीयते वा पापीयान् भवति।'[२]

ज्योतिषम्[सम्पादयतु]

मुख्यलेखः : ज्योतिषम्

ज्योतिषं वेदस्य नैजं ज्यौतिषायत्तमतं ज्यौतिष् ज्योतिषशास्त्रस्य वेदाङ्गत्वं स्वीकृतम् । अयमर्थः उक्तः अार्चज्योतिषे, यथा —

'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः॥

तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान्॥'[३]

इदं कालविज्ञापकं शास्त्रम् । मुहूर्तं शोधयित्वा क्रियमाणाः यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते नान्यथा । तन्मुहूर्तज्ञानं च ज्योतिषाश्रितम् । अतोस्य ज्योतिश्शास्त्रस्य वेदाङ्गत्वं स्वीकृतम्।

विशेषम्[सम्पादयतु]

वेदाङ्गानि वेदस्य अध्ययनाय सहायकानि इति मन्यते। परन्तु तानि वेदाङ्गानि एव न पर्याप्तानि। श्रौतग्रन्थाः, लक्षणग्रन्थाः, प्रातिशाख्यग्रन्थाः, देवताग्रन्थाः अपि वेदाध्ययने महत्त्वपूर्णं साहाय्यं प्रयच्छन्ति।

प्रातिशाख्यसाहित्यम्[सम्पादयतु]

प्रातिशाख्यग्रन्थः वैदिकवाङ्गमयस्य विचारणीयान् विवेचनीयांश्च विषयान् अधिकृत्य लिखितः वेदस्य लक्षणग्रन्थोऽस्ति। अनेन ग्रन्थेन वेदस्य बाह्यस्वरूपं निर्दिष्टं भवति । चतुर्णां वेदानां चत्वारि प्रातिशाख्यानि सन्ति । तानि च – ऋक्प्रातिशाख्य-वाजसनेयिप्रातिशाख्य-तैत्तिरीयप्रातिशाख्य-सामवेदीयप्रातिशाख्य-अथर्ववेदीयप्रातिशाख्यानि च । एतेषु प्रातिशाख्यग्रन्थेषु ऋग्वेदप्रातिशाख्यं शीर्षस्थानीयमस्ति। विषयप्रतिपादनदृष्ट्या वैदिकशब्दानां वेदमन्त्राणाञ्च व्याकरणप्रक्रियाप्रदर्शनमेव प्रातिशाख्यानामुद्देश्यम् ।

देवताग्रन्थाः[सम्पादयतु]

देवताग्रन्थाः वेदमन्त्राणां देवताः प्रतिपादयितुं लिखिताः । पूर्वमत्र विभागे बहवो ग्रन्थाः आसन्, परं कालान्तरे एक एव प्रसिद्धो बृहद्देवता नामा ग्रन्थः प्राप्यते । वेदेषु देवतानां स्थानम् महत्त्वपूर्णमस्ति। प्रकृतिदेवतायाः लीला बहुविधाः सन्ति । वैदिकऋषयः तस्याः तत्तल्लीला अवधारयितुम् अनेकाः देवताः अकल्पयन्। मानवानाम् अखिलानि कार्याणि आसां देवतानुकम्पयैव सम्पद्यन्ते इति तेषां विश्वासः। घटमानानाम् अखिलानां घटनानामपि संसारे कारणभूताः देवताः एवेति । यास्कमतानुसारेण देवतासु काश्चन पृथिवीस्थानीयाः, काश्चन अन्तरिक्षस्थानीयाः, काश्चन द्युस्थानीयाः च सन्ति । अग्नि-इन्द्र-सूर्य-विष्णुप्रभृतीनां देवतानां स्थाननिर्देशः प्रसिद्धः। वैदिकऋषयस्तां तां देवताविषयकशक्तिं साध्वभिज्ञाय तत्तद्द्वारेण आत्मानम् उपकुर्युरित्येतदर्थं श्रुतिम् आतरस्तासां रूपाणि समुपस्थापयन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. (पा. शि. ४१/४२)
  2. ( सर्वानुक्रमणी १।१ )
  3. ( आर्चज्यौतिषम् ३६ )
"https://sa.wikipedia.org/w/index.php?title=वेदाङ्गम्&oldid=427783" इत्यस्माद् पुनः प्राप्तिः