सामग्री पर जाएँ

सायणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सायण इत्यस्मात् पुनर्निर्दिष्टम्)
सायणः
जननम् सायणः
आध्रप्रदेशम् (विजयनगरसाम्राज्यम्)
मरणम् १३७८ अब्दे (अनुमानितः)
वृत्तिः प्रधानमन्त्री, वेदव्याख्याकारः
भाषा संस्कृतम्
राष्ट्रीयता भारतीयः
कालः १३६४ - १३७८
प्रमुखकृतयः सर्वेषां वेदनां, ब्राह्मणानां, अरण्यकानां च भाष्यं प्रणीतवान्।
भागी मायणः (पिता), श्रीमती (माता)
बान्धवाः माधवाचार्यः

सायणः भाष्यकारत्वेन प्रसिद्धः। सः विजयनगर-संस्थापकमहाराजबुक्कस्य, महाराजहरिहरस्य च अमात्यः, सेनानीः चासीत् । विद्यारण्यस्वामी इति सायणाचार्यस्य अपरं नाम।

परिवारः, कालश्च

[सम्पादयतु]

सायणः आन्ध्रप्रदेशीयः आसीत्। तस्य पितुः नाम मायणः इति । मातुः नाम श्रीमती । एतस्य एकः अनुजः आसीत् तस्य नाम भोगनाथः इति । अस्य अग्रजस्य नाम माधवाचार्यः । सायणावार्यकृतवेदभाष्याणां बहिरंगान्तरङ्गसाधनैः तस्य समयस्य निर्द्धारणं कर्त्तुं शक्यते । सायणाचार्यः बुक्कमहीपतेः राजसभायामासीत्तथा च तदादेशेनैव सः वेदं लिखितुं प्रयत्नं चकार इति तदीयभाष्यादेव ज्ञायते । यथा ऋग्भाष्यपुष्पिकायां –

“इति श्रीमद्राजाधिराजपरमेश्वर – वैदिकमार्गप्रवर्तक- श्रीवीरबुक्कसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीयवेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके प्रथमोऽध्यायः” इति ।

तस्मात् ज्ञायते यत् सायणाचार्यं बुक्कमहाराजस्य (१३६४ ई. तः १३७८ ई. यावत्) समकालीनः आसीत् । तथा च सायणाचार्यः हरिहरस्य राजसभायामपि मन्त्रिकार्यं सम्पादितवान् इति ज्ञायते । महाराजबुक्कस्य प्रधानामात्यपदम् अनेन १३६४ ख्रीष्टाब्दतः १३७८ ख्रीष्टाब्दपर्यन्तम् अलङ्कृतम्। तदनन्तरं १३७९ ख्रीष्टाब्दतः १३८७ ख्रीष्टाब्दपर्यन्तं महाराजहरिहरद्वितीयस्य अमात्यपदमनेन मृत्युपर्यन्तम् अलङ्कृतम् इति।

भाष्यरचनायाः प्रेरणा

[सम्पादयतु]

सायणाचार्यस्य वैदिकभाष्यनिर्माणप्रशंसायां विद्वांसः कुर्वन्ति।[] आचार्यसायणो विजयनगरसंस्थापकमहाराजबुक्कस्य महाराजहरिहरस्य चामात्यः सेनानीश्चासीत् । सायणो वैदिकसम्प्रदायस्य यथार्थतया वेत्ताऽसीत् ।

महाराजबुक्कराय: संस्कृतसाहित्यस्यार्यधर्मस्य च संस्कर्ताऽऽसीत् । वेदानां प्रामाणिकव्याख्यार्थं तस्य मनसि सङ्कल्पः समजनि । तदर्थं तेन निजाध्यात्मिकं गुरुं तथा राजनीतिज्ञोऽमात्यं माधवाचार्यः तस्मिन् कर्मणि प्रतिनियोजितः । माधवाचार्यस्तु वेदार्थस्य मर्मज्ञः मीमांसक अासीत् । जैमिनीयन्यायमालायाः रचनां कृत्वाऽसौ निजमीमांसाज्ञानस्य प्रकृष्ट-परिचयं दत्तवान् । किञ्च माधवः नृपस्य नियोगोऽयं न स्वीचकार । तेन निवेदितम्-‘राजन् ! मम कनिष्ठभ्राता सायणो वेदार्थतत्त्वज्ञस्तथा वेदार्थोन्मीलनकारिषु विद्वत्सु वैदिकसम्प्रदायस्य यथार्थतया वेत्ता मूर्धन्यश्चास्ति। अतस्तमेवाऽस्मिन् कर्मणि नियोजय इति।' माधवाचार्यस्य वचनं श्रुत्वा महीपतिबुक्कः वेदार्थप्रकाशनार्थं सायणाचार्यं समादिशत् । नृपाज्ञया सायणाचार्यः अपि वेदभाष्यं प्रणीतवान् । प्रौढवेदज्ञत्वेन सायणोऽनेकवैदिकग्रन्थेषु टीकां भाष्यं च कृतवान्।

सायणस्य तारुण्यं कम्पन-सङ्गमयोः मन्त्रित्वसम्पादने व्यतीतमभवत् । नल्लूरस्य पार्श्ववर्तिनः क्षेत्रस्यायं शासकः प्रबन्धकश्चासीत् । विजयनगराद् बहिरन्यैः भूपालैः सह सायणोऽपि राज्यप्रबन्धे संलग्नः आसीत् । तेनैव कारणेनास्य विजयनगरस्य प्रशासकेन हरिहरेण महाराजबुक्केन सह च घनिष्ठपरिचयाभावः आसीत् । महाराजबुक्कोऽपि अस्य वैदुष्येन सर्वथा अपरिचित एवासीत् । तेन हि माधवाचार्यस्य प्राप्तया प्रत्यभिज्ञया च अन्तःसन्तोषम् अवाप्य एव वैदिकभाष्यग्रन्थलेखनरूपकर्मणि चेतो दधौ । विवरणमिदं तैत्तिरीयसंहिताभाष्यस्यारम्भे दत्तं सायणाचार्येण। –

तत्कटाक्षेण तद्रूपं दधत् बुक्कमहीपतिः ।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥
स प्राह नृपतिं राजन् ! सायणार्थो ममानुजः ।
सर्वं वेत्त्येष वेदानां व्याख्यातृत्वे नियुज्यताम् ॥
इत्युक्तो माधवार्येण वीरो बुक्कमहीपतिः ।
अन्वशात् सायणाचार्यं वेदार्थस्य प्रकाशने ।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुः सायणाचार्यो वेदार्थं वक्तुमुद्यतः॥

भाष्याणां रचनाकालः

[सम्पादयतु]

वेदभाष्यरचनाकालस्य निर्णयः नितान्तं महत्त्वपूर्णकार्यमस्ति । सायणाचार्येण कदा कस्य भाष्यस्य रचना कृता ? तदा तस्यावस्था का आसीत् ? इत्यादीनां प्रश्नानां समुचितमुत्तरम् अत्यन्तमहत्त्वपूर्णमस्ति ।

वडोदरा-महानगरस्य केन्द्रीयपुस्तकालये ऋग्वेदभाष्यस्यैका हस्तलिखिता प्रतिलिपिः सुरक्षिताऽस्ति । अस्यां हस्तलिप्यां ऋग्वेदस्य चतुर्थाष्टकस्यैव सायणभाष्यमस्ति । अस्याः प्रतिलिपेः लिपिकालः विक्रमस्य द्वापञ्चाशदधिकचतुर्दशशतमस्ति । एतस्याः प्राचीनतरा न काऽप्यन्या पाण्डुलिपिः अद्यावधि सम्प्राप्ता । सायणाचार्यस्यावसानकालः विक्रमस्य चतुश्चत्वारिशदधिकचतुर्दशशतं कथ्यते । सायणस्य विषये उक्तादधिकं न किमपि कुत्रापि समुपलभ्यते । सायणस्य अवसानकालादष्टमे वर्षे सम्भवतः अस्य भाष्यस्य स्वरूपं निश्चित्य तस्य लिपिबन्धोऽक्रियत । तस्य अवसानकालाद् अष्टवर्षानन्तरमेवेयं लिपिः लिखिता इति ।

सायणः स्वकीयभाष्येषु ग्रन्थरचनाकालस्य कुत्राऽपि निर्देशं नाकरोत् । किञ्च कालनिर्देशाभावेऽपि स्वग्रन्थे निजाश्रयदातुः नृपस्य चर्चा कृता सायणेन । तेनैव तस्य ग्रन्थस्य रचनाकालोऽपि सुष्ठुतया अवबुद्धो भवति । तैत्तिरीयादिचतसृणां संहितानाञ्च तैतिरीयब्राह्मणाद्युपरि-निर्दिष्टानां द्वादशब्राह्मणानां भाष्यस्यारम्भे बुक्कनरेशस्याज्ञया भाष्यमिदं लिखितं सायणेनेति, एवं घटनायाः उल्लेखः कृतः ग्रन्थकारेणेति । तद्यथा —

तत्कटाक्षेण तद्रूपं दधत् बुक्कमहीमतेः।

आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने।। (सायणभाष्यस्योपोद्घातः)

एतेषां भाष्याणां पुष्पिकायां सायणेन स्वात्मानं वैदिकमार्गप्रवर्तकस्य राजाधिराजवीरबुक्कस्य साम्राज्यधुरन्धरं लिखितम्। यथा -

'इति श्रीमद्राजाधिराजपरमेश्वर-वैदिकमार्गप्रवर्त्तक-श्रीवीरबुक्कसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते-माधवीयवेदार्थप्रकाशऋक्संहिताभाष्ये प्रथमाष्टके प्रथमोऽध्यायः।'

अथर्वसंहितायाः भाष्यावतरणिकायां सायणः श्रीबुक्कनृपतेः तनयस्य महाराजाधिराज-धर्मब्रह्माध्वन्यस्य षोडशमहादानकर्तुः विजयिनः श्रीहरिहरद्वितीयस्योल्लेखं कृतवान् ।

‘तत्कटाक्षेण तद्रूपं दधतो बुक्कभूपतेः ॥

अभूद् हरिहरो राजा क्षीराब्धेरिव चन्द्रमा ।' - वे० भा० सं० पृ० ११९

शतपथब्राह्मणस्य भाष्यारम्भेऽस्यैव हरिहरस्य नामोल्लेखः प्रायः एतेष्वेव शब्देषु प्राप्तोऽभवत् । यथा -

‘तत्कटाक्षेण तद्रूपं दधतो बुक्कभूपतेः ॥

कृतावतरणः क्षीरसागरादिव चन्द्रमाः ॥ ३ ॥

विजितारातिव्रातो वीरः श्रीहरिहरः क्षमाधीशः ॥

धर्मब्रह्मध्वन्यः समादिशत् सायणाचार्यम् ॥ ४ ॥ (शतपथब्राहणभाष्यस्य उपोद्घातः)

एताभ्यः पुष्पिकाभ्यः एतेषां भाष्याणां रचनाकाले सायणः हरिहरद्वितीयस्य प्रधानमन्त्री आसीत् । तस्यैवादेशेन भाष्याणां रचना कृता तेनेति । एभिर्निदेशैः एतेषां वेदभाष्याणां रचनाकालस्य निर्धारणं भवति। अयं सायणः ख्रीष्टस्य चतुःषष्ट्यधिकत्रयोदशशतकाद् (१३६४) आरभ्य अष्टसप्तत्यधिकत्रयोदशाब्दपर्यन्तं (१३७८) श्रीबुक्कमहीपतेः प्रधानमन्त्रिपदम् अलञ्चकार । तत्पश्चाद् उनाशीत्यधिकत्रयोदशशतकात् स्वमृत्युकालपर्यन्तम् अर्थात् सप्ताशीत्यधिकत्रयोदश ईशवीयपर्यन्तं हरिहरद्वितीयस्य प्रधानामात्य अासीत् । अनेन प्रतीतो भवति १३६४ ई० तः १३७८ ई० पर्यन्तं प्रायः चतुर्दशवर्षपर्यन्तमुभयोः नृपयोः राज्यभारं सः प्रधानामात्यपदेन दधार । एतावद्दीर्घकालपर्यन्तं सायणः वेदानां भाष्यमरचयत् ।

सायणाचार्यः स्वजीवनस्य अन्तिमविंशतिः, चतुर्विंशतिवर्षाणि वा अस्मिन्नेव महत्त्वपूर्णकार्यें व्यतीतवान् । पूर्वोत्तकथनानुसारेण वेदभाष्याणां रचनाकालोऽपि तथैवेति । विजयनगराधिपस्य राज्ञः बुक्कस्य तत्पुत्रस्य श्रीहरिहरद्वितीयस्य च राज्यकालः १३६४ ख्रीष्टाब्दमारभ्य १३७८ ख्रीष्टाब्दपर्यन्तम् इति तन्महामात्यस्य सायणाचार्यस्य वैदिकभाष्यस्याऽपि स एव समयः।

माधवीयनाम्नः रहस्यम्

[सम्पादयतु]

सायणाचार्यस्य कतिपयेषु ग्रन्थेषु 'माधवीय'-शब्दस्य प्रयोगो दृश्यते। तद्यथा - सायणनिमिता ‘धातुवृत्तिः’ माधवीयाधातुवृत्तिरिति नाम्ना ख्याताऽस्ति । सायणविरचितम् ऋक्संहिताभाष्यमपि माधवीयम्, इति नाम्ना एव ख्यातमस्ति। इदं माधवीयं प्रयोगं दृष्ट्वा भ्रमः समुद्भवति। एतेषां ग्रन्थानामारम्भिकभागस्य अन्तिमांशस्य च परीक्षणेन ज्ञातो भवति यद् एतेषां ग्रन्थानां रचयिता असन्दिग्धरूपेण सायणाचार्य एवासीत् इति। माधवीयशब्दप्रयोगस्य कारणमपि स्पष्टमेवाऽस्ति । एतेषां ग्रन्थानां रचनायाः अादेशः तत्कालिकविजयनगराधीशेन बुक्कनरेशेन श्रीमाधवाचार्यार्य एव प्रदत्तः । माधवाचार्योणाऽस्मिन् कार्ये नियोजनार्थं स्वानुजस्य सायणाचार्यस्य तत्सन्मुखे प्रशस्ता प्रशंसा कृता । तेन प्रभावितेन भूत्वा बुक्कनरेशेन अस्य महत्त्वपूर्णकार्यस्य सम्पादनार्थं सायणाचार्यो नियुक्तः । अनेन प्रकारेण वेदभाष्यरचनायां माधवस्य प्रोत्साहनं नितान्तमावश्यकमासीत् । अत एव अग्रजस्य उपकारभारेण अवनतेन भूत्वा सायणेन एतेषा ग्रन्थानां माधवीयनामकरणं कृतमिति । अतः माधवीय-नाम्ना माधवस्य ग्रन्थकर्त्तृत्वेन न किमपि सम्बन्धः प्रतीयते । सायणेन स्वग्रन्थो वेदार्थप्रकाशनाम्नाऽभिहितः । एते ग्रन्थाः श्रद्धया तेन स्वगुरवे विद्यातीर्थाय समर्पिताः । यथा -

'वेदार्थस्य प्रकाशेन तमो हार्दै निवारयन् ।

पुमर्थाश्वतुरो देयाद् विद्यातीर्थमहेश्वरः ।।'

वेदभाष्याणामेककर्तृत्वम्

[सम्पादयतु]

सर्वेष्वपि भाष्येषु प्रस्तावनायां सायणस्य नाम स्मर्यते । एतेनैषां भाष्याणामेककर्तृत्वं सिद्धम् । सर्वेषां ग्रन्थानां पुष्पिकायां समानः परिचयः प्रदत्तः ग्रन्थानामारम्भक्रमः सुसदृशः शैली च समाना, वर्णनक्रमस्यापि सादृश्यं चेति सर्वं मिलित्वा सर्वेषामपि भाष्याणामेककर्तृत्वं व्यवस्थापयति ।

यच्च केचिद्राजकार्यासक्तस्य तस्य ग्रन्थप्रणयनेऽक्षमसमयाऽलाभं हेतुमुपस्थापयन्तः तद्रचितग्रन्थान् न स्वीकुर्वन्ति। यदि वर्त्तमानयुगस्य प्रधानमन्त्रिणो ग्रन्थान् लेखितुं समयं लभन्ते, तदा तस्य युगस्य प्रधानमन्त्री समयं न लभेतेति कथनस्यामूलकत्वात् । तस्मात्ते ग्रन्थास्तत्कृता एव । यदि ते ग्रन्था नारायणवाजपेययाजीरचिता अभविष्यंस्तदा तदतिरिक्ता काचन नारायणकृतिरवश्यं प्रथिताऽभविष्यत् । पण्डरिदीक्षितेन यदि ते ग्रन्था रचिता अभविष्यंस्तदा तस्य शैली तेषु ग्रन्थेषु प्राप्स्यत । अतः ते सर्वेऽपि ग्रन्थाः सायणप्रणीता एवेति ।

ख्रीष्टस्य षडशीत्यधिकत्रयोदशाब्दे लिखितः कश्चन शिलालेखः प्राप्यते। तदनुसारेण वैदिकमार्गप्रतिष्ठापक-धर्मब्रह्माध्वन्य-महाराजाधिराजश्रीहरिहरो विद्यारण्यश्रीपादस्वामिनः समक्षे चतुर्वेदभाष्यप्रवर्तकेभ्यो नारायणवाजपेयी-नरहरिसोमयाजी-पण्डरिदीक्षितनामभ्यः ब्राह्मणेभ्योऽग्रहारं दत्त्वा सम्मानितान् कृतवान् । विद्यारण्यस्वामी तु सायणाचार्यस्य एवापरनाम आसीत्। अनेन प्रमाणितो भवति यद् उपरिनिर्दिष्टब्राह्मणैः मिलित्वा भाष्यलेखने सायणस्य साहाय्यं कृतम् । अस्यैव शिलालेखस्याधारे नरसिंहाचार्यः एतान् विदुषः वेदभाष्यनिर्माणे सायणस्य सहायकाः मन्यन्ते । डा० गुणोऽपि भाष्याणाम् एककर्तृत्वे सन्दिहानोऽस्ति । नारायणाय नरहरये दीक्षिताय च महाराजहरिहरो बहुधनं दत्तवान्, इति कथनेन तदीयं विद्वत्प्रियत्वमात्रं सिद्धयति न सायणकृतिकर्तृत्वम् । कतिपयैरैतिहासिकसाक्ष्यैः च विद्यारण्यश्रीपादापरनामकस्य श्रीसायणाचार्यस्यैव तत्कर्तृत्वं सिद्धयतीति वृथैव कल्पनान्तरमिति ।

भाष्याणां क्रमः

[सम्पादयतु]

सायणाचार्येण निजभाषाणाम् आरम्भे कतिपयानि पद्यान्युपोद्घातरूपेण लिखितानि । एतेषां पद्यानां परीक्षणेन भाष्याणां रचनाक्रमस्य सुष्ठु प्रतिपादनं भवति।

तैत्तिरीयसंहितायां भाष्यम्

[सम्पादयतु]

सायणभाष्यात्पूर्वमपि बहुशो विद्वासः व्याख्याग्रन्थान् रचयामासुः । तेषां भाष्यानि अनुपलब्धान्येव । सायणपूर्वभाष्यकारेषु भट्टभास्करमिश्रस्य व्यक्तित्वमेव विशेषरूपेण परिस्फुटमस्ति। ख्रीष्टस्य चतुर्दशशताब्देः उत्तरार्द्ध एवास्य भाष्यस्य रचनाकालः मन्तुं शक्यते ।

सायणाचार्यः सर्वप्रथमकृष्णयजुर्वेदीयतैत्तिरीयसंहितायाः भाष्यमलिखत् । अयं हि सायणाचार्यः तैत्तिरीयशाखाध्यायी आन्ध्रब्राह्मणः आसीत् । अस्य सर्वाधिकोपयोगित्वेनाऽपि अस्य भाष्यस्य रचना कृता अनेन सर्वप्रथमम् । अस्य प्रमाणन्तु-

‘एवं सति अध्वर्युसम्बन्धिनि यजुर्वेदे निष्पन्नं यज्ञशरीरमुपजीव्य तदपेक्षितौ स्तोत्रशस्त्ररूपौ अवयवौ इतरेण वेदद्वयेन पूर्येते, इत्युपजीव्यस्य यजुर्वेदस्य प्रथमतो व्याख्यानं युक्तम्'।[]

सायणेन स्वयमस्य ग्रन्थस्यारम्भे पूर्वोत्तरचनाक्रमस्य स्पष्टतया प्रतिपादनं कृतम् । तद्यथा -

'व्याख्याता सुखबोधाय तैत्तिरीयकसंहिता ।

तद्बाह्मणं व्याकरिष्ये सुखेनार्थविबुद्धये।'

'व्याख्याता सुखबोधार्थं तैत्तिरीयकसंहिता ।

तद्ब्राह्मणञ्च व्याख्यातं शिष्टमारण्यकं ततः ॥'

 ऋग्भाष्यम्

[सम्पादयतु]

तैत्तरीयसंहितायाः भाष्यनिर्माणानन्तरमेव अयं ऋग्वेदस्य भाष्यमलिखत् । अध्वर्योः कार्यानन्तरं होतुः कार्यस्य महत्त्वमस्ति । ऋग्वेदस्य भाष्यारम्भे एव सायणेन तथ्यमिदं स्वीकृतम् । यथा-

‘ऋचात्वः पोषमास्ते पुपुष्वान् होतृनामकः एकः ऋत्विक् यज्ञकाले स्वकीयवेदगतानाम् ऋचां पुष्टिं कुर्वन्नास्ते। भिन्नप्रदेशेषु अाम्नातानां ऋचां सङ्घातमेकत्र सम्पाद्यैतावदिदं शास्त्रमिति क्लृप्तिं करोति सेयं पुष्टिः'[]

ऋग्भाष्यारम्भे सायणेन स्वयं लिखितम्—

‘अाध्वर्यवस्य यज्ञेषु प्राधान्यात् व्याकृतः पुरा ॥

यजुर्वेदोऽथ होत्रार्थमृग्वेदो व्याकरिष्यते ॥'

सायणेन ऋग्वेदभाष्यात् प्रागेवास्य वेदस्य ऐतरेयब्राह्मणस्य, ऐतरेय-आरण्यकस्य च भाष्यं लिखितम् । ऋग्वेदभाष्यस्यारम्भे एव सायणेन तथ्यमिदं स्वीकृतम्।

'मन्त्रब्राह्मणात्मके वेदे ब्राह्मणस्य मन्त्राण्याख्यानोपयोगित्वात् आदौ ब्राह्मणमारण्यकाण्डसंहितं व्याख्यातम्। अथ तत्र तत्र ब्राह्मणोदाहरणेन मन्त्रात्मकः संहिताग्रन्थो व्याख्यातव्यः॥'

सायणेन स्वकीयवेदभाष्यस्य नाम वेदार्थप्रकाशं लिखितम्, तथा भाष्यमिदं विद्यातीर्थाय गुरवे समर्पितम् ।

'वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयात् विद्यातीर्थमहेश्वरः ॥'

सम्पूर्णऋग्भाष्यस्य प्रथमं संस्करणं डा० मैक्समूलरेण १८४९-७४ ख्रीष्टाब्दे षट्सु खण्डेषु सम्पादितं प्रकाशितञ्चेति। कालान्तरे तिलकविद्यापीठ-पूनातः अस्य भाष्यस्य विशुद्धसंस्करणं चतुर्षु खण्डेषु प्रकाशितम्।

सामभाष्यम्

[सम्पादयतु]

होतुः अनन्तरं उद्गातृ-नामकस्य ऋत्विजः कार्यं भवति । उद्गाता उच्चस्वरेण साममन्त्रान् उद्गापयति ।

गायत्रं त्वः गायति शक्वरीषु उद्गातृनामक एक ऋत्विक् गायत्रशब्दाभिधेयं स्तोत्रं शक्वरीशब्दाभिधेयासु ऋक्षु उद्गायति ।[]

सामवेदस्य गायकस्तस्य कार्यमिदं ‘औद्गात्र'-शब्देन व्यवह्रियते । अनेनैव कारणेन सामवेदस्य आवश्यकता भवति । ऋचामुपरि सामगानं भवति । अतः ऋग्वेदस्य पश्चात् सामवेदस्य व्याख्या युक्तिसङ्गता अस्ति । यजुर्वेदेन यज्ञस्वरूपस्य निष्पत्तिर्भवति । यथा समुत्पन्ने शरीरेऽस्य कटकादिविभूषणं भवति, तदाश्रितं मणिमुक्तादिकटकादौ शोभते, तथैव वेदादीनां क्रमिकस्थानं भवति -

'जाते देहे भवत्यस्य कष्टकादिविभूषणम् ।

आश्रितं मणिमुक्तादिकटकादौ यथा तथा॥ १२ ॥

यजुर्जाते यज्ञदेहे स्यादृग्भिस्तद्विभूषणम् ॥

सामाख्या मणिमुक्ताद्या ऋक्षु तासु समाश्रिताः' ॥ १३ ॥

व्याख्यायाः क्रमः वर्णितः, यथा -

‘यज्ञं यजुर्भिरध्वर्युर्निमिमीते ततो यजुः ।

व्याख्यातं प्रथमं पश्चादृचां व्याख्यानमीरितम्॥ १० ॥

साम्ना मृगाश्रितत्वेन सामव्याख्याय वर्त्तते ।

अनुतिष्ठासु जिज्ञासावशाद् व्याख्याक्रमो ह्ययम्' ॥ ११ ॥[]

अष्टमवंशब्राह्मणस्य व्याख्यानारम्भे संहितात्रयाणामेव पश्चात् सामब्राह्मणभाष्यस्य निर्माणमभवत् । भाष्यकारेण स्वयं उक्तम् -

‘व्याख्याता ऋग्यजुर्वेदौ सामवेदोऽपि संहिता ।

व्याख्याता ब्राह्मणस्याय व्याख्यानं सम्प्रवर्त्तते ॥' (वंशब्राह्मणभाष्यम्)

सर्वप्रथमं ताण्ड्यब्राह्मणस्य तत्पश्चात् सर्वान्ते वंशब्राह्मणस्य व्याख्या कृता सायणेन

'प्रौढानि ब्राह्मणान्यादौ सप्तव्याख्याय चान्तिमम् ।

वंशाख्यं ब्राह्मणं विद्वान् सायणो व्याचिकीर्षति ॥"

काण्वभाष्यम्

[सम्पादयतु]

सामवेदानन्तरं काण्वसंहितायाः भाष्यं लिखितं सायणेन । कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायाः भाष्यं तु पूर्वमेव लिखितमनेन । शुक्लयजुर्वेदस्य द्वे शाखे स्तः -माध्यन्दिनीसंहिता, काण्वसंहिता चेति । सायणात् त्रीणि शतवर्षाणि प्रागेव राजाभोजस्य शासनकाले एव आनन्दपुरवास्तव्येन आचार्येण उव्वटेन माध्यन्दिनसंहितायाः भाष्यं निरमायि । एतस्य अवशिष्टभागस्य काण्वसंहितायाः भाष्यं सायणेन निरमायि इति । तत्र पूर्वविंशतेः भाष्यस्य प्रकाशनं चौखम्बा-संस्कृतग्रन्थमालातः प्रागेवाऽभवत् । उत्तरविंशतेः भाष्यस्य प्रकाशनं तु संस्कृतविश्वविद्यालय-काशीतः १९७८ ख्रीष्टाब्देऽभवत् ।

अथर्वभाष्यम्

[सम्पादयतु]

संहिताभाष्ये अथर्वभाष्यस्य रचना सर्वान्तेऽभवत् । अथर्वभाष्यस्योपोद्घाते सायणेन लिखितं पारलौकिकफलदायकं वेदत्रितयं प्रथमं व्याख्याय तत्पश्चात् लोककल्याणप्रदम् अथर्ववेदस्य भाष्यं लिखितम्। तद्यथा -

'व्याख्याय वेदत्रितयं आमुष्मिकफलप्रदम् ।

ऐहिकामुष्मिकफलं चतुर्थं व्याचिकीर्षति ॥'

अथर्ववेदोपरि सायणाचार्यस्य एव एकं भाष्यं प्राप्यते। किञ्च अद्याऽपि तस्य सम्पूर्णकोषोऽनुपलब्ध एवाऽस्ति । अंशोऽयमद्याऽपि त्रुटित एवाऽस्ति । अस्य भाष्यस्य प्रथमसंस्करणं बम्बईनगरीतः पण्डितकाशीनाथपाण्डुरङ्गेन चतुर्षु खण्डेषु ख्रीष्टस्य १८९५-१८९८ ईशवीये प्रकाशितम् । अस्याथर्ववेदस्य विंशतिः काण्डेषु मात्रद्वादशकाण्डोपरि ( १, २, ३, ४, ६,८, ११, १७-२०) एव सायणभाष्यं लभते। तेषु अवशिष्टानि अन्यानि अष्टकाण्डानि ('५, ९, १०, १२१६ ) सायणभाष्यं विनैव प्रकाशितानि सन्ति । किश्च श्रूयतेऽस्य भाष्यस्य सम्पूर्णहस्तलिखितप्रतयः अपि ग्वालियरनगरे सन्ति।

शतपथभाष्यम्

[सम्पादयतु]

सायणाचार्यस्य भाष्येषु शतपथब्राह्मणस्य भाष्यमुत्तरकालिकमस्ति । वेदत्रितयभाष्यं तथाऽन्यब्राह्मणानां भाष्यञ्च सायणाचार्यः वीरश्रीबुक्कनृपतेः राज्यकाले एव निबबन्ध । अथर्ववेदस्य शतपथब्राह्मणस्य च भाष्यमयं हरिहरद्वितीयस्य राज्यकाले प्रणीतवान् । सायणस्तु सम्पूर्णशतपथब्राह्मणोपरि भाष्यं लिलेख, किञ्चाद्य तदुपलब्धं नाऽस्ति । अस्य भाष्यस्य संस्करणत्रयं प्रकाशितम्। डा० वेवरस्य संस्करणे वेवरस्य भाष्यमपूर्णमेवाऽस्ति । स्थाने स्थाने च हरिस्वामिनः भाष्यं प्राप्यते। कोलकाता-महानगरस्य 'एशियाटिक सोसायटी' नामक-संस्थायाः संस्करणमपि अपूर्णमेवाऽस्ति । इतः वेङ्कटेश्वरयन्त्रालयात् "शतपथब्राह्मणभाष्यम्" पञ्चसु खण्डेषु प्रकाशितम् अभवत् । ग्रन्थेऽस्मिन् यस्य काण्डस्योपरि सायणभाष्यमनुपलब्धमस्ति तत्र हरिस्वामिनः भाष्यमस्ति । स्थाने स्थाने उभयोर्भाष्ययोः सङ्गतेन अद्य सम्पूर्णग्रन्थोऽयं समुपलब्धो भवति । बृहदारण्यकोपरि वेवरमहोदयेन द्विवेदगङ्गस्य भाष्यं प्रकाशितम् । वेङ्कटेश्वरसंस्करणे ‘वासुदेवब्रह्म'-भगवतः भाष्यमस्ति । वेदानुशीलनार्थमस्य संस्करणस्य प्रकाशनं परमोपयोगि इति कथ्यते । 

ऐतरेयब्राह्मणे भाष्यम्

[सम्पादयतु]

अाचार्यसायणस्य टीका अानन्दाश्रमपूनातः प्रकाशिताऽस्ति तथा च भरतस्वामिनः सामविधानब्राह्मणोपरि गुणविष्णोः छान्दोग्यब्राह्मणोपरि तथा द्विजराजभट्टस्य संहितोपनिषद्ब्राह्मणोपरि प्रकाशितानि भाष्याणि सन्ति ।

भाष्यग्रन्थाः

[सम्पादयतु]

सायणाचार्येण पञ्चसंहितानां भाष्यग्रन्थानां निर्माणं कृतं तथा च त्रयोदशब्राह्मणारण्यकयोः व्याख्या च निरमायि । सायणकृत-वेदभाष्याणां नामोल्लेखेन स्पष्टतः प्रतीतो भवति, यदयं चतुणां वेदानां संहितायामुपरि स्वभाष्यम् अलिखत् । शुक्लयजुर्वेदस्य सामवेदस्य च समग्रब्राह्मणग्रन्थोपरि सायणाचार्यः भाष्यग्रन्थं जग्रन्थ।

अनेन विरचितासु शुक्लयजुर्वेदस्यैका एव शतपथब्राह्मणस्य वृत्ति) अद्य समुपलभ्यते । विपुलकायग्रन्थोऽयं शताध्यायेषु विभक्तः अस्ति। माधवेन प्रेरितः सायणः सकलस्यास्य ग्रन्थस्य सुष्टु व्याख्यानं निबबन्ध । सामवेदस्याद्याऽपि अष्टौ ब्राह्मणाः एव प्राप्यन्ते । समुपलब्धेषु अष्टसु ब्राह्मणग्रन्थेषु उपरि भाष्यं प्रणीतमनेन विदुषा । ऋग्वेदस्य द्वौ ब्राह्मणौ तथा द्वौ आरण्यकौ स्तः - ऐतरेयब्राह्मणम्, ऐतरेयारण्यकः, कौषीतकि-ब्राह्मणम्, कौषीतकि-आरण्यकश्चेति । एतेषु पूर्वोल्लिखितग्रन्थद्वयोः एव व्याख्यानं सायणेन कृतम् । कार्यमिदम् एतावन्महत्त्वपूर्णम् अभवत्, यस्य समत्वं न केनाऽपि प्राचीनाचार्येण सह भवितुं शक्यते, नाऽपि केनाऽपि परवर्त्तिना आचार्येण सहैव । आचार्यः सायणो माधवाचार्यस्य अनुरोधेन प्रथमं वेदभाष्यानि अलिखत् । ततश्च तस्मिन् शास्त्रे स्वप्रतिभां तेषां वेदानां व्याख्याने प्रदर्श्य गुरुप्रदशितां वेदशाखां व्याचख्यौ ।   

संहिताभाष्याणि

[सम्पादयतु]
  • तैत्तिरीयसंहिता (कृष्णयजुर्वेदस्य)
  • ऋग्वेदसंहिता
  • सामवेदसंहिता
  • काण्वसंहिता (शुक्लयजुर्वेदस्य)
  • अथर्ववेदसंहिता ।

ब्राह्मणारण्यकभाष्याणि

[सम्पादयतु]
  • कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणं
  • कृष्णयजुर्वेदीय तैत्तिरीयारण्यकं
  • ऋग्वेदीयैतरेयब्राह्मणं
  • ऐतरेयारण्यकञ्चेति

सामवेदीयानि

[सम्पादयतु]
  • ताण्ड्यब्राह्मणं
  • षड्विशब्राह्मणं
  • सामविदानब्राह्मणं
  • आर्षेयब्राह्मणं
  • देवताध्यायब्राह्मणं
  • उपनिषद् ब्राह्मणं

अथर्ववेदीयभाष्यम्

[सम्पादयतु]
  • संहितोपनिषद्ब्राह्मणं वंशब्राह्मणञ्च, ।

सायण-भाष्यस्य विशेषाः -

[सम्पादयतु]
  • १ अल्पाक्षरा परं स्पष्टा भाषा
  • २ प्रसादगुणयुक्ता भाषा
  • ३ अप्रचलितशब्दानां वर्जनम्
  • ४ पूर्वोत्तरपक्षयुता रचना
  • ५ संवादरूपा शैली
  • ६ समर्पकाः दृष्टान्ताः

सायणाचार्येण रचिताः ग्रन्थाः-

[सम्पादयतु]
  • १ वेदार्थप्रकाशः
  • २ सुभाषितसुधानिधिः
  • ३ प्रायश्चित्तसुधानिधिः
  • ४ पुरुषार्थसुधानिधिः
  • ५ आयुर्वेदसुधानिधिः
  • ६ यज्ञतन्र्ससुधानिधिः
  • ७ माधवीया धातुवृत्तिः

सायणाचार्यस्य महत्त्वम्

[सम्पादयतु]

अाचार्यसायणः स्वभाष्यलेखनकाले स्मृतिपुराणादिग्रन्थेभ्यो यथेच्छं साहाय्यं गृहीतवान्। तेन परम्परागतार्थः एव अङ्गीकृतः। तत्सम्पुष्ट्यर्थम् आवश्यकतानुसारेण यत्र तत्र पुराण-इतिहास-स्मृति-महाभारतादिग्रन्थैः प्रमाणं सङ्गृह्य समुद्धृतञ्च। ऋग्वेदस्य प्रथमाष्टकस्य व्याख्यायां शब्दानां पर्यालोचने व्याकरणस्य नैपुण्येन निरूपणं कृतमनेन। प्रायः प्रत्येकस्य महत्त्वपूर्णशब्दस्य व्युत्पत्तेः, सिद्धेः, स्वराघातस्य च वर्णनं पाणिनीयसूत्राणां साहाय्येन प्रातिशाख्यसाहाय्येन चाऽपि कृतम्। सावधानतयाऽस्याध्ययनेन समस्तज्ञातव्यविषयाणां सुगमतयाऽवबोधो भवति। निरुक्तस्याप्युपयोगः कृतोऽस्मिन् भाष्ये। यास्केन व्याख्यातमन्त्राणां व्याख्या कृतेति, सायणाचार्यस्तत्तन्मन्त्राणां भाष्यलेखनकाले अविकलरूपेण अलिखत्। एतदतिरिक्तः सायणः ऋग्वेदस्य प्राचीनभाष्यकत्तृृणां स्कन्दस्वामी-माधवादीनामप्यर्थान् यथावकाशे गृहीतवान्। कल्पसूत्राणामप्युपयोगः सविस्तरेण कृतोऽनेन स्वभाष्ये। यज्ञविधाने तु सायणस्य प्रगाढप्रतिभा परिलक्ष्यते। तेन हि कल्पसूत्रविषयगतानाम् आवश्यकतत्त्वानां वर्णनप्रसङ्गे सर्वत्र स्वविशिष्टप्रतिभायाः चाऽपि प्रदर्शनं कृतम्। सूक्तस्य व्याख्यारम्भे एव तस्य विनियोगः, ऋषिः, देवतादिज्ञातव्यतथ्यानां वर्णनं प्रामाणिकग्रन्थानामुद्धरणपुरःसरमकरोत्। सूक्तविषयिणीम् उपलभ्यमानाऽऽख्यायिकामपि सप्रमाणं समुपस्थापयत्। मीमांसायाः विषयस्यापि निवेशं भाष्यारम्भस्योपोद्घाते बोधगम्यभाषायां प्रदत्तमनेन सायणेन वेदविषयकस्य समग्रसिद्धान्तस्य प्रतिपादनं रहस्योद्घाटनञ्चापि कृतम्। अनेनैव कारणेन सायणवेदभाष्यस्य गौरवः इति उच्यते। याज्ञिकपद्धत्यै एव स्वभाष्ये सायणः महत्त्वमददात्। तस्मिन् काले तस्यैवावश्यकता वरीवर्ति। तदा कर्मकाण्डस्य प्राधान्यमासीत्। एतत् खलु सर्वं सायणेन स्वभाष्यं निर्मितम्।

अनेन सविशेषकारणेन वेदार्थानुशीलिनां मध्ये सायणस्य विशिष्टं महत्त्वमस्ति । सायणभाष्यं विना वेदार्थानुशीलनस्य कीदृशी दशा भवेदिति तु कथितुं न शक्यते । भाषाशास्त्रीयाः यथेष्टं व्युत्पत्तिमाश्रित्यैकस्यैवार्थस्य विरुद्धे बहुविधार्थकरणे प्रवृत्तानां पाश्चात्यपण्डितानां मध्ये परमगतार्थस्यैव स्वभाष्ये स्थानदातारं सायणं विहायोचितमार्गं प्रदर्शयितुं कः समर्थो भवति ? सायणो वैदिकसम्प्रदायस्य यथार्थतया वेत्ताऽऽसीत् । तस्मात्तदीयं वेदभाष्यं वस्तुतस्तु वेदार्थोन्मीलनकारिषु भाष्येषु मूर्धन्यतमं भाष्यमस्ति । तद् दुर्गमे वेददुर्गे सरलतयैव प्रवेशयति वेदार्थजिज्ञासुम् । सायणाचार्यस्याऽपि भाष्याणि दोषरहितानि सन्ति, इत्यपि वक्तुं न शक्यते । यतो हि मानवानां कृतिषु निर्दुष्टतायाः कल्पनैव व्यर्थमस्ति तथापि सायणाचार्यः परम्परागतार्थस्य ज्ञाताऽस्ति, नात्र लेशतोऽपि सन्देहः । सायणाचार्यस्य वेदभाष्याणि वेदार्थज्ञानस्य कुञ्जिकारूपेण विलसन्ति ।

ऋग्वेदस्य प्रथमोऽनुवादकस्यांग्लविदुषः विल्सनमहोदयस्येयमुक्तिरविस्मरणीयाऽस्ति —

Sayana undoubtedly had a knowledge of his text far beyond the pretensions of any European scholar, and must have been in possession either through his own learning or that of his assistants, of all the interpretation which have been perpetuated by traditional teaching from the early times. -Translation of Rigveda

सायणभाष्यस्य प्रथमपाश्चात्यसम्पादकस्य डा० मैक्समूलरमहोदयस्यापीयमुक्तिः दर्शनीयाऽस्ति—

We ought to bear in mind that five and twenty years ago, we could not have made even our first steps, we could never atleast have gained a firm footing without his leading stridgs. - Introduction to Rigveda; Edon.

भाषाशास्त्राद्यावश्यकसाधनानां गम्भीरान्वेषणेन सह सायणकृतवेदार्थस्य प्रामाणिकताऽपि प्रमाणितोऽभवत्। अस्मिन् विषये जर्मनीयविद्वांसौ पिशल-गोल्डनर इत्येतौ अतीव महत्त्वपूर्णं कार्यमकुरुताम् । उभौ विद्वांसौ ‘विदिशेस्तूदियन्' (वैदिकानुशीलनम्) नामकग्रन्थस्य त्रिषु भागेषु विविधगूढवैदिकशब्दानाम् अनुसन्धानं कृतवन्तौ । येन सायणाचार्यस्यार्थः सुतरां प्रमाणितोSभवत्।

सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. ‘वेदानां पुण्यप्रकर्ष एव मूक्तों भूत्वा सायणात्मना प्रकटीभूतः'
  2. वेदभाष्यभूमिका, चौखम्बा संस्करणम्, पृ० १४
  3. भाष्यभूमिका, पृ० १३
  4. ( वेदभा० भू० सं० पृo १३ )
  5. ( वेदभा० भू० सं० पृo ६३)
"https://sa.wikipedia.org/w/index.php?title=सायणः&oldid=481082" इत्यस्माद् प्रतिप्राप्तम्