स्मृतयः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

परिचयः[सम्पादयतु]

भारतस्य प्राचीनसंस्कृतेः अवगमनाय अवश्यम् अध्येतव्यम् अस्ति - वेदाः, पुराणानि, उपनिषदः, स्मृतयश्च । एते भारतीयजनजीवनस्य व्यवस्थितमार्गदर्शकाः आसन् । पूर्वं समाजः धर्मश्च मानवस्य द्वे नेत्रे इव आस्ताम् । तस्मात् एते समाजस्य अविच्छिन्नभागाः आसन् । ततः एव भारतीयपरम्परा अद्यत्वे अपि सजीवा आदर्शभूता अस्ति ।

विषयाः[सम्पादयतु]

स्मृतिः नाम पूर्वतनज्ञानस्य स्मरणम् इत्येषः सामान्यः अर्थः । महर्षयः वेदान् गभीरतया अधीत्य हृद्गतान् उपदेशान् लिखितरूपेण अयच्छन् । एवं स्मरणात् प्राप्ताः स्मृतयः । एताः वेदानां सङ्ग्रहरूपाः सन्ति । एतासु धर्म-अर्थ-काम-मोक्षाणां चतुर्णामपि पुरुषार्थाणां विवेचनं कृतं वर्तते । अत्र वर्णाः, अर्थव्यवस्थाः, वर्णाश्रमधर्माः, विशेषावसरेषु करणीयानि कर्माणि, प्रायश्चित्तम्, प्रशासनप्रणालिः, दण्डव्यवस्था, मोक्षसाधनम् इत्यादिषु सर्वेषु विषयेषु विवरणम् उपलभ्यते ।
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । - धर्मशास्त्राणाम् अपरं रूपमेव स्मृतिः इति उच्यते । किन्तु धर्मशास्त्राणां स्मृतीनां च भेदः विद्यते । धर्मशास्त्राणि विस्तृतानि भवन्ति किन्तु स्मृतयः संक्षिप्तरूपयुक्ताः भवन्ति ।
काश्चन स्मृतयः गद्यरूपेण भवन्ति । काश्चन पद्यरूपेण काश्चन चम्पूशैल्या वर्तन्ते ।

विविधाः स्मृतयः[सम्पादयतु]

शताधिकाः स्मृतयः उपलभ्यन्ते । तासु प्रमुखाः - मनु-याज्ञवल्क्य-अत्रि-विष्णु-हारीत-औशनस-आङ्गीरस-यम-आपस्तम्भ-संवर्त-कात्यायन-बृहस्पति-पराशर-व्यास-शङ्ख-लिखित-दक्ष-गौतम-शातातप-नारद-वसिष्ट-प्रजापति इत्यादयः । एतासु अपि मनुस्मृतियाज्ञवल्क्यस्मृती प्रसिद्धे स्तः । किन्तु कलियुगे पराशरस्मृतिः प्रामुख्यं भजते ।

  1. मनुस्मृतिः
  2. याज्ञवल्‍क्‍यस्मृतिः
  3. पाराशरस्मृतिः
  4. विष्णुस्मृतिः
  5. अत्रिस्मृतिः
"http://sa.wikipedia.org/w/index.php?title=स्मृतयः&oldid=225689" इत्यस्माद् पुनः प्राप्तिः