अत्रिस्मृतिः
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
अत्रिमुनिः प्रजापतेः ब्रह्मणो नेत्रादुत्पन्न आसीदिति पुराणे वर्णितमस्ति । मानवसमाजे तेन प्रणीता स्मृतिः संहिताऽऽकारेण क्षुद्रतरापि भृशं प्रसिद्धा वर्त्तते । मानवसमाजे क्रियमाणानां दैनन्दिनधार्मिककृत्यानां सारः तेन स्पष्टतया निरूपितोऽस्त । श्रुत्यनुमोदिते धर्मशास्त्रे विश्वासं कुर्वाणानां ब्राह्मणानां कर्त्तव्यपालने कथं समाजे श्रेयो भूयात्, तत् पालनं विना अ कथं हानिः उपद्यते, विषयेऽस्मिन् तेन विशेषमहत्ता समारोपिताऽस्ति । तेनोक्तं यत् - श्रुतिः स्मृतिश्च द्वे ब्राह्मणस्य नेत्रे भवतः । श्रुति-स्मृतिरुपाभ्यां नेत्राभ्यां हीनो ब्राह्मणः न कदापि शोभते । द्वयेन च रहितोऽसौ विप्रो जन्मान्धवत् अप्रतिष्ठो भवति । तेन च लिखितमस्ति यत् यो ब्राह्मणः श्रुतिस्मृति-रहितो भवति, स विप्रत्वं हारयन् भृशं निन्दास्पदतां भजते । देवः, मुनिः, द्विजः, राजा, वैश्यः,शूद्रः, निषादः, पशुः म्लेच्छः चाण्डालश्चेति दशविधा ब्राह्मणास्तेन निरुपिता भवन्ति ।
स्व-स्व-स्वभाव-नियतं कर्माचरन् यः कोऽपि जनो मानवसमाजे पूजास्पदं भवेत्, स्वभावनियतेन कर्मणा रहितो विप्रोऽपि पशुतां चण्डालत्वं वा भजन् सर्वथा निन्दास्पदं भवतीति तेन स्पष्टमुक्तम् । मानवसमाजस्य श्रेयसे तेन कृतस्य धर्मशास्त्रस्य महत्त्वं नूनं प्रशंसार्हमिति निःसंशयं वक्तुं शक्यम् । तेनोक्तम्-
- क्रियाहीनश्च मूर्खश्च धर्मशास्त्रविवर्जितः ।
- निर्दयः सर्वभूतेषु विप्रचाण्डाल उच्यते ॥
विषयविवरणम्
[सम्पादयतु]सम्प्रत्युपलब्धात्रिस्मृतौ पञ्चाध्यायाः सन्ति । अत्र प्रथमाध्याये १६ श्लोकाः । तत्रात्मशुद्धिवर्णनं विहितम् । द्वितीयाध्यायेऽपि षोडशशलौकैः सर्वापापविमुक्तिः गायत्रीमन्त्रवर्णनञ्च कृतम् । ततस्तृतीयाध्याये त्रयोविंशतिश्लोकैः वेदाभ्यासस्य पुराणेतिहासयोश्च माहात्म्यं, शतरुद्रिसूक्तानां माहात्म्यम्, दानेषु सुवर्णतिलादीनां माहात्म्यं च प्रतिपादितम् । चतुर्थेऽध्याये दशभिः श्लोकैः रहस्य -प्रायश्चित्तम् अगम्यागमनप्रायश्चित्तञ्च प्रतिपादितम् । तदनु पञ्चमाध्याये पञ्चसप्ततिभिः श्लोकैः भोजन-नियमकालादीनां व्यवस्था, शुद्धिविधानम्, सूतकदिननिर्णयः रजः स्वला-शुद्धि-विधानादिकं प्रतिपादितम् ।