समावर्तनसंस्कारः
द्वादशवर्षाणि वेदग्रहणान्तं वा गुरुकुले ब्रह्मचर्यं चरित्वा ततः प्रतिनिवृत्तेन समावर्तनाख्यः संस्काराः अनुष्ठेयः । तत्र प्रधानभूतं कर्म स्नानम् । तच्च तस्य ब्रह्मचर्यप्रक्षालनोद्देशेन क्रियते । तेन स स्नातकाख्यो भवति । अत आश्रमाद् गृहगमनं समावर्तनम् इति गम्यते ।
अस्मिन्नवसरे एषः संस्कारह् सम्पाद्यते । संस्कारे अस्मिन् गुरोः उपदेशः भवति । एष उपदेशो ब्रह्मचारिणः जीवनयात्रां सुखदां सरलां च कर्तुं सारगर्भितो भवति । उपदेशवाक्यानि श्रद्धा-विश्वास-प्रेम-भक्ति-ज्ञान-वैराग्यादीनि ऐहिक-पारलौकिककल्याणानि वर्षन्तीव भान्ति ।
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् ।
नापरीक्षितचारित्रे विद्या देया कथञ्चन
न नियोज्याश्च वा शिष्यो अनियोगे महाभये ॥
यथामति यथापाठं तथा विद्या फलिष्यति
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् ।
वेदमनूच्याचार्यः अन्तेवासिनम् अनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।
स्वाध्याय प्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि । यान्यस्माकं सुचरितानि तानि त्वया उपास्यानि नो इतराणी । ये केचास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वया आसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया अदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमार्शिनः । युक्ताः आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः एष उपदेशः । एषा वेदोपनिषत् तदनुशासनम् । एवमुपासितव्यम् । एवं चैतदुपास्यम् ।
इति । तैत्तिरीयोपनिषत् । द्वितीयः अनुवाकः ।
एवमुपदेशैः स्नातकस्य जीवनविन्यासः समाजस्यादर्शः स्यादिति उद्दिष्टम् । समावर्तनमनु स्नातकस्य गृहस्थाश्रमप्रवेशः ।