ऋग्वेदः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
ऋग्वेदस्य प्रथमं सूक्तम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ऋग्वेदः सनातनधर्मस्य मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् ।

ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति ॥

ऋग्वेदस्य ऋचायाः लक्षणं जैमिनीयन्यायसूत्रे एवं प्रतिपादितं यथा – “पादेनार्थेन चोपेता वृत्तवद्धा मन्त्राः । “ एतेषां ऋचाणामुत्पत्तिः विराटयज्ञपुरुषाद् वभुव इति पुरुषसूक्ते उच्यते । यथा –

तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् यजु- स्तस्मादजायत ॥

ऋग् वेदस्य समयः – योरुपीय विदुषां मतानुसारं ऋग् वेदस्य रचनाकालः ४००० वर्ष पूर्वमासीत् । परन्तु अस्य कृते किमपिप्रमाणम् नैवउपलभ्यते ऋग्वेदस्य ऋचः पारसीयाणां अर्वेस्ता पुस्तकेन सह समानाः भवन्ति । पारसीयानां धर्मग्रन्थेन जण्डावेस्ता नामकेन सह अपि ऋचां समानता वर्त्तते । अतः आर्याणां रचितवेदस्य समतः योरुपीयाणां समसामयिकः इति अनुमीयते ।

ऋग्वेदः[सम्पादयतु]

ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।

ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) ।

मन्त्राश्च सर्वे दशसहस्त्रचतुः शतसप्तषष्ठिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् (१०५८०) मन्त्रान् आह । अत्र भेदे कालभेदेन मन्त्रवृध्दिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या -१५३८२६, अक्षरसंख्या -४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दस्सु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्र्ष्टारो ऋषयः गृत्समदविश्व्वामित्रवामदेवात्रिभद्वाजवसिष्ठादयः सन्ति । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि सोमविषयकमन्त्राणां सङ्कलनं कृतम् । पवमानः – सोमः । पूर्वोक्ताः सप्तापि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तमण्डलपर्यन्तगताभिः ऋग्भिः सम्बध्दाः, दशमण्डले मन्त्रा नानर्षिसम्बध्दाः । दशमे मण्डले न केवलं देवतास्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते ।

द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका आलोचकाः कथयन्ति ।

चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः दृश्यते । सर्ववेदानामिव अस्यापि संहिता –ब्राह्मण –आरण्यक-उपनिषद्भागाः सन्त्येव । तदधिकृत्य अनन्तरं सूच्यते ॥

ऋग्वेदकालः[सम्पादयतु]

अधुना लोके सर्वत्र उपलभ्यमानेषु सर्वेषु ग्रन्थेषु प्राचीनतमः अयम् ऋग्वेदः सर्वज्ञानस्याधारभूतः भवति । अस्य रचनाकालस्य निर्णये सर्वपण्डितमण्डलेषु भिन्नाभिप्रायो दृश्यते । तथापि अस्माभिः भारतीयैः वेदस्य अपौरुषेयत्वं मन्यमानैः ऋग्वेदस्यास्यापि अनादित्वं प्रकल्पितम् । अत्र मन्त्रद्रष्टार एव ऋषयः न तु कर्तारः ॥ वेदस्य अपौरुषेयत्वम् अङ्गीकर्तुमसमर्थैः पाश्चात्यकोविदैः ऋषिप्रणीतः वेदः इति निर्धार्य प्राचीनतमस्य अस्य कालः क्रि.पू.२००० वर्षतः ६००० पर्यन्तं मन्यते । परन्तु लोकमान्यबालगङ्गाधरमहाभागेन वेदवर्णितनक्षत्रविष- यकसूचनामवलम्ब्य गणितेन ज्योतिषेण च वेदरचनाकालः क्रि.पू.६००० वर्षतः पूर्वमेवेति निश्चयः कृतः । वेदगतभूगर्भशास्त्रसिध्दान्तमनुसृत्य डा. अविनाशचन्द्रमहोदयेन अनेकलक्षवर्षपूर्वमेव अस्य रचना सम्पन्ना इति प्रख्यापितम् । इत्यम्भूते सति अस्मत्प्राचीनैः यद्वेदस्य अपौरुषेयत्वम् अनादित्वं च कल्पितं तत्स्वीकारे का क्षतिः ? एवमेव वेदरचनाकालवादेन अस्माभिः ज्ञातुं शक्यते वेदेषु प्राचीनस्य ऋग्वेदस्य कालः अपि ॥

ऋग्वेदस्य क्रमीकरणम्[सम्पादयतु]

ऋग्वेदस्य एकविंशतिः शाखाः सन्ति कालक्रमेण तद्विलुप्य याः शाखाः सन्ति तासु आश्वलायन –शाकल-बाष्कलशाखाः प्रसिध्दाः । अत्र शाकलस्ंहितायां दशमण्डलानि प्रतिमण्डले नानासूक्तानि प्रत्येकं सूक्ते नानाऋचः च सन्ति । एवं ऋग्वेदे आहत्य १०२६ सूक्तानि ९९००० मन्त्राश्च वर्तन्ते ॥

अत्र मन्त्रद्रष्टारः ऋषयः गृत्समद-विश्वामित्र –अत्रि-भरद्वाजवसिष्ठादयः भवन्ति । शाकलसंहितायाः नवमण्डलं पवमाननाम्ना प्रसिध्दम् । अत्र सोमविषयकमन्त्राणां सङ्कलनमस्ति । प्रथमाष्टमण्डलयोः कण्ववंशीयनामाङ्गिरसगोत्रजानामन्येषां च ऋषीणां मन्त्राः दृश्यन्ते । अनुसन्धानकुशलैस्तु द्वितीयमण्डलमारभ्य अष्टमण्डलपर्यन्तं प्राचीनतमो भागः नवममण्डलं तदनन्तरभूतं प्रथमाष्टाममण्डले अर्वाचीने दशममण्डलं अर्वाचीनतममिति निर्धारितम् ॥

ऋग्वेदस्य ब्राह्मणभागद्वयं ऐतरेयकौषीतकीति, आरण्यकानि ऐतरेय-कौषीतकि-शाङ्खायनादीनि त्रीणि, दश उपनिषदश्च विद्यन्ते ॥

वेदेषु आदिमः ऋग्वेदः हिन्दुधर्मस्य मूलग्रन्थः अस्ति । ऋग्वेदः ४५०० वर्षेभ्यः प्राग् संग्रथित: इति ते मन्यन्ते । अत्र १०१७ सूक्तानि सन्ति । तस्य श्लोकाः विविधादेवानां सम्बद्धा: सन्ति - यथा इन्द्रः, अग्निः, वायुः इत्यादय: । ऋग्वेदस्य १०५८९ संहिताः, १०२८ सूक्तानि च १० मण्डले विभाजिता: सन्ति । महामुनि व्यासस्य निर्देशे पैलः ऋग्वेदस्य संहितानाम् निर्माणम् अकरोत् । यज्ञेषु देवताह्वानेऽयं वेदभाग उपयुज्यते । यज्ञेषु ऋग्वेदमन्त्रपठनकर्ता "होता" इत्युच्यते । आयुर्वेदः ऋग्वेदस्य उपवेदः


ऋग्वेदस्य विभागः[सम्पादयतु]

ऋग्वेदस्य विभागः द्विधा क्रियते । यथा –(१) अष्टक क्रमेण, (२) मण्डल क्रमेण च । तत्र अष्टकक्रमानुसारं समग्र ग्रन्थः अष्ट अष्टकेषु विभक्तो भवति । प्रत्येकेषु अष्टकेषु अष्ट अध्यायाः भवन्ति । एवं सम्पूर्णग्रन्थे चतुः षष्ठी अध्याया भवन्ति । प्रत्येकाध्यायानां अवान्तरभेदाः वर्गनाम्ना व्यपदिश्यन्ते । वर्गाणां संख्या २००६ (षडधिकद्विसहस्रं) भवन्ति । मण्डलक्रमानुसारं सम्पूर्णग्रन्थः दश (१०) मण्डलेषु विभक्तः अस्ति । अतः ऋग्वेदः “ द्शतयी” इत्युच्यते । सम्पूर्णऋग्वेदे पञ्चाशीति (८५) अनुवाकाः सप्तदशाधिकैकसहस्रं (१०१७ ) सूक्ताः सन्ति । मण्डलानुसारं क्रमशः एतेषां सूक्तानां व्यवस्था यथा -१९, ४३, ६२, ५८,८७,१०४,९२,११४,१९१-१०१७ । एतेषां सूक्तानां भिन्नमेकादशवालखिल्यसूक्तेषु अशीतिमन्त्राः सन्ति । सम्पूर्णऋग्वेदे सूक्तेषु मन्त्राणां संख्या -१०५८० १/४, ऋक्षु शब्दानां संख्या ४३२००० । यथोच्यते शौनकस्य अनुक्रमणिकायां –

ऋचां दश सहस्राणि, ऋचां पंच शतानि च ।
ऋचामशीति पादश्च तत्पारायणमुच्यते ॥

ऋग्वेदस्य शाखाः[सम्पादयतु]

यज्ञस्य आवश्यकतामनुभूय संकलित संहितानां पठनपाठनस्य अक्षुण्णतार्थञ्च व्यासः स्वशिष्यान् वेदान् अपाठयत् । यथोच्यते –तत्रर्गवेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एकैको निष्णातो यजुषामुत ॥ अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । (भागवत- १/४/२१) एते मुनयः पुनः स्वशिष्यान् संहिताः अध्यापयत् । एवं प्रकारेण संहितानां अनेकाः शाखाः समुपजाताः । शाखा चरणशब्देन सह सम्बन्धिताः भवन्ति । मालतिमाधवस्य टीकाकर्त्ता जगद्धरकथनानुसारं चरणशब्दस्य अर्थः यथा –

चरणशाब्दः शाखाविशेषाध्ययन परैकतापन्नजनसंघवाची ॥

तत्र महाभाष्यकारानुसारं ऋग्वेदस्य एकविंशति शाखाः सन्ति । तासु पञ्चशाखाः प्रधानाः भवन्ति । यथा -१. शाकलः , २. वाष्कलः, ३. आश्वलायनः , ४. शांखायनः, ५. माण्डुकायनश्च । एताः शाखाः इदानीं महाराष्ट्रदेशे एव उपलभ्यन्ते ।

पश्यतु[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Text
Translation
"https://sa.wikipedia.org/w/index.php?title=ऋग्वेदः&oldid=389540" इत्यस्माद् पुनः प्राप्तिः