याज्ञवल्क्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
याज्ञवल्क्यः
जनकाय बह्मविद्यायाः दिक्षां कुर्वन् याज्ञकवल्क्यः
जननम् कार्तिकमासस्य शुक्लसप्तमी
वृत्तिः ऋषिः
राष्ट्रीयता भारतीयः
प्रकारः यजुर्वेदस्य ज्ञाता
पतिः/पत्नी मैत्रेयी कात्यायनी
बान्धवाः वेदव्यासस्य शिष्यः

याज्ञवल्क्यः मिथिलावासी ह्यासीत्। मिथिलादेशाधीश्वरस्य महाराज्ञो जनकस्य राजसभायामस्य विशेषसमादरः अासीत्। अनेन याज्ञवल्क्येन व्यासदेवस्य चतुर्भ्यः शिष्येभ्यः वेदचतुष्टयस्य अध्ययनं कृतम्। निजमातुलाद् वैशम्पायनादयं यजुर्वेदस्य अध्ययनं कृतवान्। शतपथब्राह्मणस्य प्रामाण्यस्य उपरि अनेनोद्दालक-आरुणिनामकेन प्रौढदार्शनिकेन वेदान्तस्य परिशीलनं कृतम्। वेदान्तस्य प्रशंसायाम् एकदाऽरुणिरमुमवोचत् -- वेदान्तशक्त्या अभिमन्त्रितजलेन यदि स्थाणुरपि सिञ्चेत्, तर्हि तस्मादपि पत्रपुष्पाणि च निःसरेयुः इति। ततः सुयोग्यशिष्येण याज्ञवल्क्येन गुरोः कथनमिदमक्षरशः सत्यं प्रमाणीकृतम्। प्रगाढपाण्डित्येन अपूर्वयोगबलेन, गाढ-दर्शनिकत्वेन योगी याज्ञवल्क्योऽयं कर्मयोगिनो नृपजनकस्य विशेषाभ्यर्थनायाः सत्कारस्य च भाजनमासीत् (बृहदा० उ० अ० ३/४ ) 

याज्ञवल्क्यं महाप्राज्ञम् आदित्यात् प्राप्तविद्यकम्।
यजुर्वेदस्य द्रष्टारं वन्देहं गुरुपुङ्गवम् ॥

अतीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वम् यः पश्यति स्वयं वाक्यं स ऋषिः - इति वचनानुसारं तपसा ईश्वरस्य अनुग्रहेण वेदमन्त्राणां द्रष्टा अस्ति ब्रह्मर्षिः याज्ञवल्क्यः। यागनिर्वर्तने सिद्धहस्तः एषः विशेषतया अग्नेः आराधकः आसीत्।

परिवारः, बाल्यञ्च[सम्पादयतु]

याज्ञवल्क्यस्य पितुर्नाम देवराज इति। याज्ञवल्क्यस्य माता साध्वी सुनन्दादेवी। दम्पती अनन्यश्रद्धया यज्ञेश्वरस्य आराधनेन याज्ञवल्क्यं पुत्ररूपेण प्राप्तवन्तौ। अयं हि देवराजः सर्वदा दरिद्रेभ्यः वस्त्रदानाय तत्परः अासीत्। तेनैव कारणेन ‘वाजसनि' इत्यपरनाम्ना विख्यातः आसीत्। देवराजः धर्मगुरुः इति प्रसिद्धः आसीत्। कार्तिकमासस्य शुक्लसप्तम्याम् याज्ञवल्क्यस्य जन्म अभवत्। गर्भपञ्चमे वयसि याज्ञवल्क्यस्य उपनयनसंस्कारः जातः। याज्ञवल्क्यस्य द्वे पत्न्यौ स्तः - मैत्रेयी कात्यायनी च। मैत्रेयी विदुषी ब्रह्मवादिनी आसीत्। परिव्रजनकाले तामेव ब्रह्मविद्यायाः शिक्षां दत्त्वाऽयं गृहं तत्याज।

विद्याभ्यासः[सम्पादयतु]

याज्ञवल्क्यस्य गुरुः महर्षिः वैशम्पायनः। वैशम्पायनः भगवतः व्यासस्य शिष्यः। भगवान् व्यासः वेदान् ऋक्-यजुस्-साम-अथर्व इति चतुर्धा विभक्तवान्। तेषां प्रचाराय चतुरः शिष्यान् नियुक्तवान्। ऋग्वेदपाठकत्वेन पैलः, यजुर्वेदपाठकत्वेन वैशम्पायनः, सामवेदपाठकत्वेन जैमिनिः, अथर्ववेदपाठकत्वेन सुमन्तुः च तेन योजिताः। यज्ञविधिः आदौ यजुर्वेदः इति एकः एव आसीत्। (एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत्। चातुर्होत्रमभूत्तस्मिन् तेन यज्ञमथाकरोत् ॥ - विष्णुपुराणम्)। व्यासः तत् चतुर्धा विभज्य चतुर्भिः याजकैः युक्तां चातुर्होत्रपद्धतिम् आनीतवन्तः। यजुर्वेदमन्त्रैः अध्वर्युः, ऋग्भिः होता, सामभिः उद्गाता, अथर्वमन्त्रैः ब्रह्म च यज्ञे भागं यथा वहेयुः तथा अकरोत्। महर्षिः याज्ञवल्क्यः यजुर्वेदवृक्षं सप्तविंशतिशाखाभिः विभज्य एकैकां शाखाम् एकस्मै शिष्याय अबोधयत्।

याज्ञवल्क्यः नितरां बुद्धिमान् आसीत्। विनयशीलः सः अचिरादेव गुरुकुले सर्वेषां प्रीतिपात्रं जातः। अत्यल्पावधौ यजुर्वेदं सम्पूर्णतया अधीत्य तेजोयुक्तः जातः। गुरुः वैशम्पायनः कदाचित् अस्वस्थः जातः। तस्य स्वास्थ्यर्थं चरक-अध्वर्युः इत्यादयः ज्येष्ठशिष्याः तपः कर्तुं निश्चितवन्तः। याज्ञवल्क्यः गुरोः समीपं गत्वा अवदत् - 'तैः क्रियमाणं तपः प्रभावयुक्तं न स्यात्। अतः अहम् एकाकी तपः आचरामि' इति। वैश्म्पायनः - 'ज्येष्ठशिष्यानां विषये एवं कथनं न उचितम्। भवता तपः आचरणीयं नास्ति' इति स्वस्य असन्तोषं प्राकटयत्। अन्यदा राज्ञः स्वास्थ्याय आश्रमे आचरितस्य होमस्य प्रसादं स्वीकृत्य तस्य दानाय प्रासादम् अगच्छत् याज्ञवल्क्यः। तीर्थप्रसादयोः विषये राज्ञा दर्शिताम् उपेक्षाम् असहमानः याज्ञवल्क्यः पुनः गुरुणा सूचितोऽपि तत्र गमनं न अङ्ग्यकरोत्। एतैः कारणैः शिष्यविषये क्रुद्धः वैशम्पायनः 'गुरुकुलात् प्रतिगम्यताम्। अत्र अधीतं सर्वं परित्यज्य गम्यताम्' इति आदिष्टवान्। याज्ञवल्क्यः अधीतं समग्रं यजुर्वेदम् अवमत्। एतेन तदीयं तेजः अदृश्यतां गतम्।

अग्रे पैलमुनेः शिष्यस्य भास्कलस्य समीपं गत्वा ऋग्वेदं, कोसलदेशस्य ऋषेः हिरण्यनाभस्य गुरुकुले सामवेदम्, आचार्यस्य आरुणेः समीपं गत्वा अथर्ववेदं च अधीतवान्। ततः सः महर्षेः उद्दालकस्य आश्रमम् अगच्छत्। शास्त्रोक्तधार्मिककर्मणां विषये अत्र गभीराध्ययनम् अकरोत् याज्ञवल्क्यः। शिष्यस्य बुद्धिशक्तिं सामर्थ्यं च दृष्ट्वा परमसन्तुष्टः उद्दालकः तेन ज्ञातां समग्रां विद्याम् अबोधयत्। यजुर्वेदज्ञानं यद् आत्मना परित्यक्तं तस्मिन् विषये याज्ञवल्क्यस्य मनसि बहु खेदः आसीत्। यजुर्वेदस्य अध्ययनं विना विद्याभ्यासः पूर्णः न भवति इति कारणतः सः वेदमातुः गायत्र्याः अनुग्रहप्राप्त्यै तपः आरब्धवान्। एतस्य कठिनतपसा सन्तुष्टा सा प्रत्यक्षीभूय 'वत्स ! सूर्यः आराध्यताम्। तस्य अनुग्रहेण भवदिष्टं सिद्ध्यति।' इति अवदत्। ततः याज्ञवल्क्यः तीव्रतपसा सूर्यस्य आराधनाम् आरब्धवान्। तपसः प्रभावेण अद्भुतशक्तयः तस्मिन् गोचरतां गताः। गुरुः याज्ञवल्क्यस्य पितरौ आहूय अस्य विद्याभ्यासः सम्पन्नः इति असूचयत्।

गृहस्थाश्रमप्रवेशः[सम्पादयतु]

ज्येष्ठानाम् अपेक्षानुगुणं याज्ञवल्क्येन ऋषेः कदिरस्य पुत्री कात्यायनी परिणीता। विवाहावसरे गुरुः वैशम्पायनः सपत्नीकः उपस्थाय 'अधुना भवान् अस्ति सर्वज्ञः। लोकः इदम् अङ्गीक्रियात्' इति प्रीत्या अनुगृहीतवान्। कात्यायनी वयसा यद्यपि अवरा तथापि स्वस्य वचन-व्यवहारैः याज्ञवल्क्यस्य योग्या पत्नी आसीत्।

सूर्योपासनं सिद्धिश्च[सम्पादयतु]

सरस्वत्याः आदेशानुगुणं यजुर्वेदज्ञानस्य प्राप्त्यै याज्ञवल्क्यः तीव्रं सूर्योपासनम् आरब्धवान्। प्रतिदिनं ब्राह्मीमुहूर्ते उत्थाय नित्यकर्माणि समाप्य सूर्यमन्त्रस्य जपे मग्नः भवति स्म आमध्याह्नम्। सूर्याय अर्पितं पायसान्नमात्रं दम्पत्योः दिनस्य आहारः आसीत्। दिने दिने तस्य तपः तीव्रतां गतम्। कदाचित् सूर्यजपे मग्नेन तेन विलक्षणः आनन्दः अनुभूतः। सूर्यः अश्वाकारेण प्रत्यक्षः जातः। ततः मनुष्यदेहं प्राप्य सूर्यः अवदत् - 'आदौ सरस्वतीदेवी भवन्तं प्रविश्य वेदज्ञानस्य प्राप्त्यर्थम् आवश्यकीं शक्तिं दास्यति। ततः शरीरं मनः च पवित्रं भवति। ततः वेदज्ञानं प्राप्तुम् अर्हति।' इति। सरस्वत्याः अनुग्रहेण शक्तिं प्राप्तवान् याज्ञवल्क्यः प्रकाशे विद्यमानस्य वेदस्य ज्ञानं प्राप्तवान्। तदीयं शरीरं मनः आत्मा च आनन्दानुभवेन पूर्णतां गताः। तेन साक्षात्कृताः मन्त्राः एव शुक्लयजुर्वेदः इति प्रसिद्धिं गतः। शुक्लयजुर्वेदे कर्मयोग-ज्ञानयोगसम्बद्धाः विषयाः विस्तृतरूपेण विवृताः सन्ति। तस्मात् शतपथब्राह्मणनामकं शतैः अध्यायैः युक्तं ब्राह्मणं रचितं जातम्। ईशावास्योपनिषत्, बृहदारण्यकोपनिषत् - एतदुभयमपि आत्मनः दैवविषये च उपदिशति। याज्ञवल्क्येन स्मृतिः रचिता। सा याज्ञवल्क्यस्मृतिः इति प्रसिद्धा।

कुलपतित्वम्, ब्रह्मर्षित्वप्राप्तिश्च[सम्पादयतु]

महर्षिः उद्दालकः याज्ञवल्क्यम् उद्दिश्य 'वार्धक्यकारणतः गुरुकुलचालनं मम कष्टाय जातम्। इतःपरं भवान् अस्य गुरुकुलस्य कुलपतिः भवतु' इत्यवदत्। गुरोः आदेशम् शिरसा पालयता तेन कुलपतिपदम् अङ्गीकृतम्। तस्य कारणतः आश्रमस्य कीर्तिः सर्वत्र प्रसृता जाता। विदेहस्य राजा जनकः याज्ञवल्क्यस्य आश्रमम् आगत्य तस्य अनुग्रहपात्रं जातः। शुक्लयजुर्वेदस्य प्रचाराय तेन सभा आयोजिता। तत्र समुपस्थिताः सर्वे विद्वद्वरेण्याः वेदद्रष्टारः याज्ञवल्क्यद्वारा शुक्लयजुर्वेदं श्रुत्वा परमसन्तुष्टाः जाताः। अयं वेदः वाजिरूपेण आदित्येन उपदिष्टम् इत्यतः वाजसनेयी संहिता' इति, ईशावास्योपनिषत् वाजसनेयसंहितोपनिषत् इति च भवतु इति याज्ञवल्क्येन सूचितम्। सभायाम् उपस्थिताः दार्शनिकाः सर्वे याज्ञवल्क्यं ब्रह्मर्षिः इति सम्मानितवन्तः। तस्यां सभायाम् उपस्थिता मैत्रेयी याज्ञवल्क्यस्य शिष्या सती आध्यात्मसाधनं कर्तुम् इष्टवती। सा कात्यायन्याः अनुमतिं प्राप्य याज्ञवल्क्यस्य पुरतः स्वस्य आशयम् अवदत्। तां सः आध्यात्मसहधर्मिणीरूपेण परिणीतवान्।

ज्ञानसत्रम्[सम्पादयतु]

जनकमहाराजः किञ्चन महद् ज्ञानसत्रम् आयोजितवान् आसीत्। तत्र उद्देशद्वयम् आसीत्। विभिन्नदिग्भ्यः आगताः विद्वांसः ऋषयः परस्परविचारविनिमयेन वैदिकविचाराणां प्रचारं कुर्युः इति। आगतेषु अत्युत्तमज्ञानी योग्यरीत्या सत्कृतः स्यात् इति च। तद्दिने बहवः ज्ञानिनः सम्मिलिताः। तत्र जनकेन घोषितं - 'अत्र यः अस्ति ब्रह्मज्ञानी सः अत्र आगत्य सर्वज्ञकिरीटधारणेन सम्माननं प्राप्य गोष्ठे बद्धाः सुवर्णनाणकहारैः अलङ्कृतशृङ्गाः सहस्र धेनवः स्वायत्तीकुर्यात्' इति। तदा विद्वत्सभातः सिंहगाम्भीर्येण उत्थाय आगतः याज्ञवल्क्यः शिष्यम् अवदत् - 'सामश्रव ! गोसमूहः आश्रमं प्रति नीयताम्' इति। तस्य ध्वनिः आत्वविश्वासपूर्णः आसीत्। भीतिः अहङ्कारः वा लेशमात्रेण अपि नासीत्। ततः बहुभिः पृष्टानां विविधप्रश्नानां कृते समुचितम् उत्तरं तेन दत्तम्। तस्मात् सर्वे समाहिताः जाताः। सः सर्वज्ञकिरीटधारणेन सम्मनितः जातः।

संन्यासस्वीकारः[सम्पादयतु]

ज्ञानसत्रस्य अनन्तरं याज्ञवल्क्यः स्वस्य शिष्ययोः कण्व-मध्यन्दिनयोः कृते गुरुकुलदायित्वं प्रदत्तवान्। जीवने वैराग्यं प्राप्तवान् सः पत्न्यौ आहूय संन्यासस्वीकाराय अनुमतिम् अपृच्छत्। ब्रह्मवादिनी मैत्रेयी आत्मसाक्षात्कारमार्गम् उपदिश्यताम् इति प्रार्थितवती। सन्तुष्टः सः ताम् उपादिशत्। ततः संन्यासाश्रमस्वीकरणम् अकरोत्।

नमोऽस्तु याज्ञवल्क्याय नमोऽस्त्वमिततेजसे।
नमो ज्ञानस्वरूपाय परब्रह्मविदे नमः ॥
"https://sa.wikipedia.org/w/index.php?title=याज्ञवल्क्यः&oldid=477597" इत्यस्माद् प्रतिप्राप्तम्