स्तोत्रकाव्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(स्तोत्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

स्तोत्रम् इत्येषः शब्दः स्तुतिः, प्रशंसा श्लाघनम् इत्यर्थे प्रयुज्यते ।

ष्टुञ् (स्तुतौ) ष्ट्र्न् (३-२-१८२)स्तूयते अनेन इति स्तोत्रम्।
अस्ति नः स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तृप्यसि - माघ १४-३

स्तोत्रसाहित्यस्य इतिहासः[सम्पादयतु]

मानवः सर्वशक्तस्य परमात्मनः अनुग्रहप्राप्त्यै तं स्तुवन्ति । देवेन सह भक्तस्य व्यवहारमाध्यमम् एव स्तोत्रम् । भगवतः माहात्म्यं श्लाघमानः स्वस्य हृदयस्य असीमां भक्तिम् स्तोत्रद्वारा निवेदयति । मातुः प्रेम्णः प्राप्त्यै शिशुः कदाचित् हसति, रोदिति, नृत्यति, निन्दति, ताडयति च । भक्तः अपि देवेन सह एवमेव व्यवहरति । भावाभिव्यञ्जनाद् एव स्तोत्राणि मनोमोहकानि भवन्ति । सङ्गीतयोजनेन तु तद्भवति चेतोहारि । नृत्यमपि संयोज्यते चेत् तद्भवेत् सर्वजनतोषकम् । चञ्चलमनसः एकाग्रतासम्पादनाय स्तोत्रकाव्यं भवति सर्वसमर्थम् । इदं भारतीयजीवनपद्धतेः अबिभाज्यम् अङ्गम् ।
स्तोत्रसाहित्यस्य आरम्भः तु संहिताकाले एव । ऋक्संहिता स्तोत्ररूपा । प्रभुसम्मिता, मित्रसम्मिता, कान्तासम्मिता - एतेषु त्रिषु अपि प्रकारेषु स्तोत्रसाहित्यम् उपलभ्यते । संस्कृतकाव्यानाम् आदौ अन्ते च स्तोत्राणि दृश्यन्ते । कालिदास-भारवि-माघ-भवभूति-भासादीनां कृतिषु विद्यमानानि स्तोत्राणि सन्ति हृद्यानि । शुद्धभक्तेः उद्गाराः सर्वे काव्ये न अन्तर्भवन्ति । अष्टोत्तरशत-अष्टोत्तरसहस्रनामानि भक्तिव्यञ्जकानि । बाण-मयूर-शङ्कराचार्यादिभिः रचितानि स्तोत्राणि काव्यधर्मयुक्तानि एव ।
स्तोत्रेषु धर्म-मत-भक्ति-साहित्यानि युक्तानि सन्ति । इदं धर्मसाहित्यम्, इदं मतसाहित्यम् इति वर्गीकरणम् अशक्यम् । ब्राह्मण-जैन-बौद्ध-शैव-प्रभृतिभिः निर्मितानि स्तोत्राणि द्वैताद्वैतमतानुगुणं रचितानि स्तोत्राणि च उपलभ्यन्ते । लीलाशुकस्य कृष्णकर्णामृतम्, जयदेवस्य गीतगोविन्दं च प्रेमभरितानि स्तोत्राणि । शतकरूपाणि स्तोत्राणि अपि उपलभ्यन्ते ।

वैदिकस्तोत्राणि[सम्पादयतु]

अत्र इन्द्र:, वरुण:, सविता, अग्नि: इति देवता:।क्वचिद् ऐहिकेच्छा दृश्यते यथा- पुत्रा: पशवो धनम्...।क्वचिद् नीतिपूर्णा प्रार्थना दृश्यते यथा- हे अग्ने सुपथा न: वैभवं नय।ऋ. 1.189.1।बहुषु स्तोत्रेषु स्तोत्रं नाम ब्रह्म।

पौराणिकस्तोत्राणि[सम्पादयतु]

विष्णु: शिव: देवी इति देवता:। मोक्षेच्छा प्रबला। ऐहिकेच्छा तिरस्कृता ।

प्रमुखाः स्तोत्रकाराः

१ मयूरभट्टः।
एष: काशीवासी, हर्षराजाश्रित:। स्वकुष्ठनिवारणाय सूर्यशतकं रचितम्। स्रग्धरावृत्ते इदं प्रथमम् एव काव्यम्।दीर्घसमासयुक्तम् अनुप्रासप्रचुरं सविस्तरं सूर्यवर्णनम् अत्र विद्यते।
बाणभट्टः
चण्डीशतकम्। अनुप्रासयुक्ता रचना।
आदिशङ्कराचार्यः
स्तोत्रकाराणाम् अयं मुकुटमणि:। प्रायश: 200 स्तोत्राणि अनेन रचितानि।दार्शनिकजगति अद्वैतमतस्थापना कृता तथा व्यावहारिकजगति सगुणोपासनापराणि स्तोत्राणि विरचितानि। अस्य स्तोत्रेषु कारुण्यं, भक्ति:, वैराग्यम् उत्कण्ठा, उपताप: मार्दवं, नादमाधुर्यं, प्रसाद: इति एते भावा: पदे पदे दृश्यन्ते। सुभाषितानि अपि बहुत्र दृश्यन्ते यथा- कुपुत्रो जायेत क्वचिदपि कुमाता न भवति। क्षुधातृषार्ता जननीं स्मरन्ति।सौन्दर्यलहरीनामकं स्तोत्रं तु साहित्य-मन्त्रशास्त्र-तत्वज्ञानानां सङ्गमरूपम्।शाङ्करस्तोत्राणां सामान्यत: वर्गीकरणम् एवम्

01 भक्तिपराणि शिवविष्णुकृष्णपराणि
02 वैराग्यपराणि वैराग्यपञ्चकम् कौपीनपञ्चकम् धन्याष्टकम्।
03 उपदेशपराणि चर्पटपञ्जरी, द्वादशपञ्जरी, गुर्वष्टकम्, अनात्मश्रीविगर्हणम्।
04 स्तुतिपराणि
05 वेदान्तपराणि
06 संमिश्राणि


3 उत्पलदेव:। काश्मीरीय: शैवाचार्य:।शिवस्तोत्ररत्नावली रचिता यस्यां 21 स्तोत्राणि सन्ति।

4 जगद्धरभट्ट:। शैवाचार्य:। स्तुतिकुसुमाजली रचिता यस्यां 31 स्तोत्राणि सन्ति। 1425श्लोका: सन्ति।

5 पुष्पदन्त: । शिवमहिम्न: स्तोत्रं रचितम्। लोकप्रियम् इदं स्तोत्रम्।कव्यं तथा तत्वज्ञानम् इति एतयो: मेल: अत्र विद्यते।

6 बुधकौशिक:। अयं ऋषि:। रामरक्षास्तोत्रम् अनेन विरचितम्।तत्र स्तुति: ध्यानं तथा कवचम् अस्ति।

7 कुलशेखर:।- मुकुन्दमालास्तोत्रम्। 34 पद्यानि।

8 यामुनाचार्य:। - आळवन्दारस्तोत्रम् अनेन कृतम्। तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति। स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीहते ॥

9 जगन्नाथ:। - करुणालहरी, गङ्गालहरी, अमृतलहरी तथा लक्ष्मीलहरी इति एतानि स्तोत्राणि अनेन कृतानि।विभूषितानङ्गरिपूत्तमाङ्गा, सद्य:कृतानेकजनार्तिभङ्गा। मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु॥ - गङ्गालहरी

जैनस्तोत्राणि[सम्पादयतु]

जैनमुनीनां षट्क्रियासु चतुर्विंशतिस्तव: अन्यतरा क्रिया।ते ईश्वरं न मन्यन्ते।तेषां स्तोत्राणि तीर्थङ्करविषयकाणि सन्ति। द्वे प्रमुखे जैनस्तोत्रे -

  • 1 भक्तामरस्तोत्रम् - मानतुङ्गाचार्य:
  • 2 कल्याणमन्दिरस्तोत्रम् - सिद्धसेनदिवाकर:

बौद्धस्तोत्राणि[सम्पादयतु]

1 लोकेश्वरशतकम्-वज्रदत्त:।(बुद्धस्य रूपगुणा: श्रेष्ठत्वं च वर्णितम्।बाण-मयूरकृतयो: स्तोत्रयो: अनुकरणं स्पष्टम्। )

2 आर्यातारास्रग्धरास्तोत्रम्।- सर्वज्ञमिश्र:

3 भक्तिशतकम्- कविभारति:।(हिन्दुधर्मगतभक्तिकल्पनाया: अत्र स्वीकार: दृश्यते।)

हिन्दुस्तोत्राणामनुकरणं बौद्धस्तोत्रेषु दृश्यते।बौद्धमते ईश्वर: कश्चिद् न स्वीकृत:।तथापि महायान-पन्थे स्तोत्राणि विद्यन्ते। बुद्धस्य फलपुष्पै: अर्चनेन अपि निर्वाणप्राप्ति: भवति इति महायानपन्थस्य मतम्।अत: तत्र स्तोत्राणां कृते अवसर: अस्ति।स्तोत्रेषु अवलोकितेश्वर: देव:, तारा देवी। नागार्जुन: वस्तुत: शून्यवादी बौद्ध:। तथापि तस्य स्तोत्रेषु आस्तिक्यवाद: दृश्यते।

काव्यशास्त्रदृष्या स्तोत्राणि त्रिधा -

  • १ तिरस्कृतकाव्यतत्वानि स्तोत्राणि
  • २ पुरस्कृतकाव्यतत्वानि स्तोत्राणि
  • ३ चित्रकाव्यानि स्तोत्राणि

तिरस्कृतकाव्यतत्वानि स्तोत्राणि- 1 नामावली - विष्णुसहस्रनाम। 2 वैराग्यपराणि- वैराग्यपञ्चकम् 3 तत्वज्ञानपराणि- 4 लीलागुणादिवर्णनपराणि5 उपदेशपराणि- चर्पटपञ्जरी,
चित्रकाव्यानि- वर्णमालास्तोत्रम् ,रामकृष्णविलोमकाव्यम्।
पुरस्कृतकाव्यतत्वानि- 1 अलङ्कारप्रधानानि 2 भक्तिरसप्रधानानि
भक्तिरसप्रधानानि पुन: त्रिधा -
१ दास्यभक्तिरसप्रधानानि- रामरक्षा , शिवमहिम्न:
२ वात्सल्यभक्तिरसप्रधानानि- देव्यपराधक्षमापनम्
३ माधुर्यभक्तिरसप्रधानानि - गीतगोविन्दम्।

नामावलीस्तोत्राणि - कस्य चिद् देवस्य बहूनि प्रसिद्धानि अप्रसिद्धानि च नामानि पद्यबद्धानि सन्ति।एतेभ्य: नामभ्य: तस्य देवस्य गुण-कर्मादिकमपि सूचितं भवति।यथा दशरथात्मज: इत्युक्ते रामस्य पितृप्रेम सूचितं भवति।विश्वामित्रप्रिय: इति रामस्य नाम तस्य आदर्शशिष्यत्वं सूचयति।रावणारि: इति नाम्ना रामस्य रावणेन सह जातम् अभूतपूर्वं युद्धं स्मर्यते।तस्मान्नामावलिरूपाणि स्तोत्राणि परम्परया गुणवर्णनपराणि भवन्ति।
गुणलीलावर्णनपराणि स्तोत्राणि - भगवत: गुणलीलासङ्कीर्तनेन तस्मिन् प्रीति: वर्धते।

2 वैराग्यपराणि तत्वज्ञानपराणि उपदेशपराणि स्तोत्राणि । स्तोत्रे वस्तुत: काचिद् देवता स्तूयते।वैराग्यादिपरेषु स्तोत्रेषु न कापि देवता स्तुता तथापि रूढ्या तेषां स्तोत्रसंज्ञा प्राप्ता।
पुरस्कृतकाव्यतत्वानि स्तोत्राणि
इयम् अपरा परम्परा स्तोत्रवाङ्मयस्य। तिरस्कृतकाव्यतत्वानि स्तोत्राणि प्रायश: अभिधया देवता: स्तुवन्ति। पुरस्कृतकाव्यतत्वानि स्तोत्राणि नानाविधानां काव्यतत्वानाम् आश्रयेण देवता: स्तुवन्ति।अत: एतानि स्तोत्राणि रुचिरतराणि भवन्ति।
अलङ्कारप्रधानानि स्तोत्राणि -अलङ्कारशब्देन अत्र रसभिन्नतत्वानां ग्रहणं कार्यम्।पण्डितराज-जगन्नाथकृता गङ्गालहरी एतस्य निदर्शनम्।
भक्तिरसप्रधानानि स्तोत्राणि -यदा वैष्णवमतस्य प्रभाव: वर्धित:, तदा भक्तिरसप्रधानानि स्तोत्राणि रचितानि।अद्वैतमते अपि भक्ति: स्वीकृता। अत: तत्र अपि स्तोत्ररचना दृश्यते तथापि भक्तिपरस्तोत्राणां परिपोष: तु वैष्णवसम्प्रदायेषु जात:।तदा एव भक्तिरस: रसगणनायां स्थानं लेभे।तस्य एव भक्तिरसस्य सूक्ष्मभेदा: रूपगोस्वामि-जीवगोस्वामि-मधुसूदनसरस्वतीप्रभृतिभि: आचार्यै: विशदीकृता:।भक्तिरसस्य आविष्काराय स्तोत्रसदृशम् अन्यद् माध्यमं किमिव स्यात् ?
दास्यभक्तिरसप्रधानानि स्तोत्राणि -एषु देव: स्वामी भक्त: तस्य दास: इति भावनया स्तोत्रं गीयते।यथा श्रीरामचन्द्रचरणौ मनसा स्मरामि...।
वात्सल्यभक्तिरसप्रधानानि स्तोत्राणि -देव: माता अथवा पिता इति चिन्त्यते। भक्त: आत्मानं तस्य अपत्यं मत्वा स्तोत्रं गायति।यथा पृथिव्यां पुत्रास्ते ...।
माधुर्यभक्तिरसप्रधानानि स्तोत्राणि -देव: पति: , भक्त: तस्य पत्नी प्रेयसी वा इति भावना अत्र क्रियते। एतेषु स्तोत्रेषु बहुधा कृष्ण: एव देव: स्तूयते। क्वचिद् एव शिव:, विष्णु; अथवा बुद्ध: अत्र देवता भवति।माधुर्यस्तोत्राणां मूलाधार: श्रीमद्भागवतम्।तत्र वर्णिता रासक्रीडा भक्तकविभि: वस्तुत्वेन स्वीकृता। तद् वस्तु स्वप्रतिभया सुशोभिता।माधुर्यभक्तिरसस्य सामग्री एवम्-
स्थायिभाव: - ईश्वरविषये रति:
आश्रय: - भगवद्भक्ता:।
आलम्बन-विभाव: - परमेश्वर: तस्य अवतारा: च।
उद्दीपनविभाव: - भगवत्सौन्दर्यम्।दीनरक्षा। विराट्स्वरूपम्। कीर्तनम्। देवालय:।
अनुभाव: - औत्सुक्यम् अश्रुपात:।
सञ्चारिभाव: - मरणवर्जिता: हर्ष-औत्सुक्य-निर्वेदादय: भावा:।
स्तोत्राणां काव्यदृष्ट्या समीक्षणस्य औचित्यम् ।- भक्त-सहृदययो: अयं विवादविषय:।सहृदयाणां मते स्तोत्राणाम् अपि काव्यशास्त्रदृष्ट्या समीक्षा कर्तव्या।अन्यथा गीतगोविन्दसदृशेषु काव्येषु विद्यमानं सौन्दर्यं दुर्लक्षितं स्यात्।भक्ता: भक्तिशास्त्रमनुसृत्य कामम् एतेषां भिन्नरीत्य समीक्षां कुर्यु:। न तत्र अस्माकं कोपि आक्षेप:।काव्यदृष्ट्या समीक्षा अस्माभि:काव्यशास्त्रज्ञै: करणीय एव।
भक्तानां मते स्तोत्रमार्गेण ईश्वरविषयिणी प्रीति: वर्धनीया।तद् एव साध्यम्। तद् यएन स्तोत्रेण भवति तद् उत्तमं स्तोत्रम्।अत: एव यत्र न कश्चिद् गूढार्थ:, यत्र प्रतिपादनं सरलम् अभिधाप्रधानं तदेव स्तोत्रं लोकेषु प्रथते, प्रतिदिनं गृहे गृहे मुखे मुखे च वर्तते। काव्यशास्त्रदृष्ट्या उत्तमम् अपि गीतगोविन्दं न प्रतिदिनं पठ्यते। प्रत्युत काव्यशास्त्रदृष्ट्या नीरसं काव्यतत्वशून्यं विष्णुसहस्रनाम अन्तकाले अपि पठ्यते, मुमूर्षवे श्राव्यते च।

प्रमुखानि स्तोत्रसाहित्यानि[सम्पादयतु]

  1. चण्डीशतकम्
  2. सूर्यशतकम्
  3. स्तोत्ररत्नम्
  4. लक्ष्मीसहस्रनामस्तोत्रम्
  5. वरदराजस्तवः
  6. पञ्चलहरी
  7. शिवमहिम्नः स्तोत्रम्
  8. शिवस्तोत्रावली
  9. भजगोविन्दम्
  10. मुकुन्दमाला
  11. चतुस्तवः
  12. लोकेश्वरशतकम्
  13. देवागमस्तोत्रम्
  14. कल्याणमन्दिरस्तोत्रम्
  15. भक्तामरस्तोत्रम्

सर्वमङ्गलाष्टकम्‌!

श्रीगणेशायः नमः॥ लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान्‌ रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः॥ ब्रह्माडं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्यात्‌ सदा मङ्गलम्‌॥१॥ ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ॥ नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌॥२॥ विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः॥ माण्डव्यो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विष्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम्‌॥३॥ मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान्‌‍ धर्मसुतो नलो दशरथो रामो ययातिर्यदुः॥ इक्ष्वाकुश्च बिभीषणश्च भरतश्चोत्तानपादध्रुवावित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌॥४॥ श्रीमेरुर्हिमवांश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः॥ सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमान्तकावित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌॥५॥ गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती॥ कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः कुर्वन्तु वो मङ्गलम्‌॥६॥ वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र तन्त्रसहितास्तर्कस्मृतीनां गणाः॥ काव्यालंकृतिनीतिनाटकगणाशब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः कुर्वन्तु वो मङ्गलम्‌ ॥७॥ आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्गणाः॥ मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌॥८॥ इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरैर्व्याख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम्‌॥ माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा यः पठेद्धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवः॥९॥ इति श्रीमद्वादिराजविरचितं सवमङ्गलाष्टकं संपुर्णम्‌॥

"https://sa.wikipedia.org/w/index.php?title=स्तोत्रकाव्यम्&oldid=455874" इत्यस्माद् प्रतिप्राप्तम्