प्रश्नोपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Om buttom.svg

प्रश्नोपनिषत् (Prashnopanishat) अथर्ववेदीया उपनिषत् । गुरु-शिष्याणां संवादरूपा वर्तते इयम् उपनिषत् । अत्र षट्सङ्खाकाः शिष्याः गुरुं पिप्पलादं यथाविधि उपगम्य ब्रह्मविद्यां बोधयितुं प्रार्थयन्ते । तानुद्दिश्य पिप्पलादऋषिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयन्तः वेदान् अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे श्रद्धया ब्रह्मचर्यपूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः (सुकेशाः भारद्वाजः शैब्यः सत्यकामः, सौर्यायणी गार्ग्यः कौसल्यः आश्वलायनः, वैदर्भी भार्गवः, कबन्धी कात्यायनः) आगत्य षट् प्रश्नान् पृच्छन्ति । कश्चन प्रश्नः उत्तरञ्च योजयित्वा उपनिषदः खण्डः भवति । एवं षट् खण्डाः भवन्ति । एते प्रश्नाः इत्येव निर्दिश्यन्ते ।

प्रथमप्रश्नः[सम्पादयतु]

तत्र प्रथमं तावत् कबन्धी कात्यायनः पृच्छति, यस्मादिदं चराचरं जगत् उत्पद्यते, तस्य कारणीभूतं तत्त्वं किम् ? इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते – सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एकोऽहं बहुस्यामिति चिन्तयन् सङ्कल्पमात्रेण प्राणरयिनामकं (चैतन्य-जड) शक्तिद्वयं असृजत् । इन्द्रियाणां गोचराः स्थूलसूक्ष्मादीनि वस्तूनि सर्वाणि जडरूपाणि एव । एतेषु सञ्चलनं यत् कारयति तदेव चैतन्यम् । चन्द्रमाः जडस्वरूपं सूर्यः चैतन्यस्वरूपम् इति ऋषिभिः कल्पितम् । सूर्यः स्वस्य उदयेन चराचरवस्तुषु चैतन्यं जागरयति । चन्द्रलोकः नाम स्वर्गलोकः । यज्ञयागादीनि परोपकारकर्माणि यैः क्रियते ते चन्द्रलोकं प्राप्नुवन्ति । इमं मार्गं पितृयानमिति निर्दिशन्ति । सूर्यलोकः नाम पुनर्जन्मरहितानां मुक्तानां स्थानम् । ज्ञानश्रद्धादिभिः सूर्यलोकः प्राप्यते । अयं मार्गः देवयानमिति निर्दिश्यते । संवत्सरः प्रजापतिः इति प्रकल्प्य दक्षिण-उत्तरायणौ जड-चैतन्यमार्गौ इति, मासः प्रजापतिः इति प्रकल्प्य निशा-दिवे च जड-चैतन्ये इति च मुनयः निर्णीतवन्तः । अन्ते अन्नमेव प्रजापतिः ततः एव रेतः ततः एव प्रजाः इति निर्दिष्टम् ।

द्वितीयप्रश्नः[सम्पादयतु]

द्वितीयेन प्रश्नेन तावत् भार्गवः पिप्पलादं पृच्छति, कति देवाः प्रजानां स्थूलशरीरं धारयन्ति, तेषु वरिष्ठः देवः कः इति । 'पञ्चभूतानि इन्द्रियाणि च शरीरस्य निजः आधारः न, प्रमुखः आधारः भवति प्राणः । प्राणः एव वायु-अग्नि-आदिदेवेषु वरिष्ठः । यावत्कालं प्राणः देहे आस्ते तावदेव अन्ये देवाः (इन्द्रियाणि)तमधिकृत्य क्रियाशीलाः भवन्ति । तस्य शरीरान्निस्सरणानन्तरम् अन्ये निष्क्रियाः भवन्ति । अतः प्राणः एव विश्वपतिः । सः सर्वस्य आधारभूतः । सः एव सर्वस्य प्रेरकः' इति उत्तरति मुनिः ।

तृतीयप्रश्नः[सम्पादयतु]

तृतीयेन प्रश्नेन आश्वलायनः पृच्छति, प्राणः कुतः आयाति, देहप्रवेशः कथम्, पञ्चधा कथं विभक्तः भवति, देहादूर्घ्वोत्क्रमणं कथम् इति । तदा पिप्पलादः ब्रूते-आत्मनः एव प्राणः जायते । मनोकृतेन सङ्कल्पेन एषः प्राणः जीवमनुप्रविशति । विविधकर्माणि कर्तुं जीवं धारयितुं च एषः स्वयं पञ्चधा विभक्तः सन् पञ्चसु स्थानेषु तिष्ठति हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः इत्यमरः । प्राणः सम्राडिव सर्वान् प्रणान् तत्तत्कार्ये विधत्ते अपानः पुरुषं दृढं धारयति यथा न पतेत् भूमौ तथा । हुतमन्नं जीर्णीकरोति समानः । सर्वासु नाडीषु सञ्चरति व्यानः । उदानः यथासङ्कल्पम् ऊर्ध्वं पुण्यं लोकं नयति मरणानन्तरम् । आदित्यः, पृथिवी, आकाशः, वायुः, तेजः च क्रमेण प्राण-अपान-समान-व्यान-उदानरूपेण बाह्यपदार्थानाम् आधाररूपाः भवन्ति । देहान्तर्गततत्त्वानां प्राणः आधारभूतः भवति ।

चतुर्थप्रश्नः[सम्पादयतु]

चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् सर्वाः शक्तयः सम्प्रतिष्ठिता भवन्ति इति पृच्छति । तदा उत्तरं ब्रवीति गुरुः- सर्वाः शक्तयः मनसि सम्मिल्य स्वपन्ति । प्राणाग्नयः जागरिताः सन्तः सततं कार्यरताः भवन्ति । स्वप्नान् पश्यति देवः मनः एव । विविधानि शक्याशक्यानि दृष्टादृष्टानि वस्तूनि मनसि गोचराः भवन्ति । पूर्णज्ञानस्य प्राप्त्या आत्मा सुखी भवति, मनः अपि सुखमनुभवति । सुषुप्तस्थितौ सर्वाणि भूतानि, तेषां तन्मात्राणि, सर्वाणि इन्द्रियाणि, इन्द्रियविषयाश्च आत्मनि लीनाः भवन्ति । आत्मा एव द्रष्टा, श्रोता, वक्ता च । सः परमश्रेष्ठे अक्षरब्रह्मणि प्रतिष्ठितः । परब्रह्म एव सर्वेषां प्रतिष्ठारूपम् ।

पञ्चमप्रश्नः[सम्पादयतु]

पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् ओङ्कारमुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं वदति - परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । ओङ्कारः मात्रात्रयेण युक्तः । अकारः, उकारः, मकारः एव ताः मात्राः । प्रथममात्रस्य अकारस्य ध्यानं नाम ऋग्वेदोपासनम् । अस्य लोकस्य महिम्नः अनुभवः एव ध्यानस्य फलं भवति । द्वितीयमात्रस्य उकारस्य ध्यानं नाम यजुर्वेदविहितानां यज्ञयागादीनां पुण्यकर्मणाम् आचरणम् । पुण्यस्य समाप्तिपर्यन्तं स्वर्गलोकस्य सुखानि अनुभूय प्रत्यागमनमेव उकारध्यानस्य फलम् । मात्रात्रयमपि संयुज्य यः ओङ्कारस्य ध्यानं कुर्यात् तेन पुनर्जन्मरहितः सूर्यलोकः ब्रह्मलोकः वा प्राप्यते । तदेव अमृतपदम् ।

षष्ठः प्रश्नः[सम्पादयतु]

षष्ठे प्रश्ने सुकेशाः भारद्वाजः पृच्छति यत् कोशलदेशस्य राजकुमारः हिरण्यनाभः एकदा षोडशकला-सम्पन्नस्य पुरुषस्य विषये मां पृष्टवान् । अहम् अनभिज्ञः इति ज्ञात्वा सः रथमारुह्य प्रतिगतवान् । अतः अहं त्वां पृच्छामि कोऽसौ षोडशकलायुक्तः पुरुषः – इति । उत्तरं पठति-पुरुषे एव एते षोडशकलाः संहताः यथा रथनाभौ अराः तथा । सः पुरुषः प्राणमसृजत । सृष्टेः श्रेयसे प्राणतः श्रद्धाम् असृजत । ततः पञ्चभूतानि । तत्र श्रूयते –स प्राणमसृजत, प्राणात् श्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च । एते एव षोडशकलाः । एते सर्वे पुरुषे लीनाः सन्तः विनष्टाः भवन्ति । सर्वाः देवताः, प्राणाः, भूतानि च परमपुरुषे प्रतिष्ठितानि सन्ति । अयमेव षोडशकलाभिः युक्तः पुरुषः ।
तदनन्तरं गुरुः ब्रूते-एतावदेवाहमेतत्परं वेद नातः परमस्तीति । तदा सर्वे शिष्याः सविनयं गुरुस्तवनं कुर्वन्ति –त्वं हि नः पिता यः अस्माकमविद्यायाः परं पारं तारयसि इति ।

प्रमुखाः शब्दार्थाः[सम्पादयतु]

  • समित्पाणि - हस्ते समिधः (अग्नेः ज्वालनाय आवश्यकाः काष्ठखण्डाः) गृहीत्वा (गुरोः समीपे गमनावसरे एषा पद्धतिः अनुस्रियते)
  • रयि - अन्नम् अथवा जडम्
  • मिथुन - स्त्रीपुरुषयोः युगलम्
  • इष्टापूर्तकर्म - यज्ञयागादीनाम् आचरणं, कूपसरसां निर्माणञ्च
  • निरोध - नियमः
  • द्वादशाकृतिः - सूर्यस्य द्वादश रूपाणि
  • पञ्चप्राण - प्राण-अपान-व्यान-समान-उदान
  • एकर्षि - एकाकी सञ्चारी
  • आद्य - खादनाय योग्यम् (आहुतिः) प्रथमः वा
  • अध्यात्म - देहसम्बद्धम्
  • गार्हपत्य - अग्निहोत्रिणः गृहे पश्चिमघटे स्थाप्यमानः अग्निः । गृहपतिनां (गृहस्थानां) गृहे भवति इत्यतः इदं नाम ।
  • अनाहार्य - अग्निहोत्रिणां दक्षिणाग्निः, अमावास्यायां क्रियमाणे पितृश्राद्धे अग्नये इतः एव आहुतयः अर्प्यन्ते ।
  • आहवनीय - पूर्वाग्निः हवनाय योग्यम् इत्यतः आहवनीयम् इति कथ्यते । प्रतिनित्यं गार्हपत्याग्नितः अस्य ज्वालनं भवति ।
  • तन्मात्रा - तत्त्वानाम् अत्यन्तं शुद्धं सूक्ष्मञ्च स्वरूपम् । व्यक्तस्य सृष्टेः पूर्वं विद्यमाना तत्त्वस्थितिः ।
  • कला - अंशाः अवयवाः वा
  • कलारहितः - एकरूपयुक्तः, अखण्डः
  • प्रजा - प्राणिनः, जीवाः, भूतानि
  • व्रात्य - उपनयनादिसंस्काररहितः । अत्र प्राणः सर्वप्रथमः इत्यतः तस्मै कः संस्कारं यच्छति ? अतः अत्र 'व्रात्यः' नाम संस्कारातीतः

इत्यर्थः ।

प्रश्नोपनिषदः वैशिष्ट्यम्[सम्पादयतु]

इयं संवादरूपा इत्यतः अन्वर्थनामा । विषयबोधनाय संवादपद्धतिः बहु परिणामयुक्ता । अस्याः पद्धतेः प्रमुखः गुणः नाम एकस्य प्रश्नस्य विषये चिन्तनावसरे विषयस्य तस्मिन् एव भागे मनः एकाग्रं भवति इत्यतः सः भागः स्पष्टं बुद्धिगोचरः भवति । तस्मात् समग्रस्य विषयस्य आकलनभारः न भवति । पृथक्कृतः कश्चन भागः स्वीक्रियते इत्यतः विषयज्ञानं सुलभं भवति ।
अस्याम् उपनिषदि विद्यमानः षट् प्रश्नाः अपि आत्मज्ञानसम्बद्धान् सर्वान् अपि प्रमुखान् विषयान् बोधयन्ति । ओङ्कारस्य उपासनं तस्य विविधाः प्रकाराश्च आत्मज्ञानस्य साधनभूतानि इति निर्दिष्टानि ।
अत्र उपस्थापिताः विषयाः तर्कबद्धाः विद्यन्ते । इयम् उपनिषद् सुलभावगमयोग्या वर्तते । स्वर्गः मोक्षश्च विभिन्नावस्थायुतौ, मोक्षः स्वर्गात् श्रेष्ठः, आत्यन्तिकावस्था च वर्तते इति स्पष्टं निर्दिष्टम् अस्ति । काम्यबुद्ध्या कृतानां पुण्यकर्मणां फलं भवति स्वर्गः । किन्तु पूर्णज्ञानिना निष्कामपुरुषेण प्राप्यमाणं फलं भवति मोक्षः ।
मोक्षस्य प्रमुखं लक्षणं पुनर्जन्मरहिता आनन्दस्थितिः । अस्य आत्मज्ञानस्य सम्पादनाय तपः, ब्रह्मचर्या, श्रद्धा, विद्या च कारणीभूताः इति निर्दिशति इयम् उपनिषत् ।

"http://sa.wikipedia.org/w/index.php?title=प्रश्नोपनिषत्&oldid=255534" इत्यस्माद् पुनः प्राप्तिः