निरुक्तम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते

ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्

तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ।।१॥

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ॥२॥
निरुक्तम् उक्तेषु षड् वेदाङ्गेषु अन्यतमः । निघण्ट्वाख्यस्य वैदिककोषस्य भाष्यरूपमस्ति निरुक्ताख्यं वेदाङ्गम् । निघण्टौ तु केवलं वैदिकाः शब्दाः परिगणिताः सन्ति, परन्तु निरुक्तकारो यास्कः तेषां वैदिकानां शब्दानां सविस्तरं विवेचनं करोति । अर्थात् निरुक्तनामके ग्रन्थे वैदिकशब्दानाम् अर्थज्ञानस्य प्रक्रिया वर्णिता अस्ति । निघण्टोः पञ्चाध्यायानां विवेचनं स्वकीये निरुक्तग्रन्थे यास्केन द्वादशाध्यायेषु सम्पादितमस्ति । निरुक्तं निरूपयन् सायणाचार्यः ऋग्वेदभाष्यभूमिकायामाह, अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् यदि अन्यानि वेदाङ्गानि वेदस्य बहिर्भूतानि तत्त्वानि व्याकुर्वन्ति, तर्हि निरुक्तं वेदस्य अन्तर्भूतानि तत्त्वानि व्याकुर्वति । अन्यच्च निरुक्तं गद्यशैल्यां निबद्धमस्ति, किन्तु अन्ये वेदाङ्गग्रन्थाः सूत्रशैल्यां निबद्धाः सन्ति । इत्थं निरुक्तेन वेदार्थानामवगमे सौविध्यं भवति ।

निरुक्तस्य परिचयः[सम्पादयतु]

शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्यौतिषं, कल्पः इति वेदस्य षडङ्गानि । तत्र ज्यौतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते इति कथनात् निरुक्तस्य प्रामुख्यं ज्ञायते ।
ऋगादि चत्वारः वेदाः सन्ति सर्वेषां मानवानां सनातनज्ञानमूलम् । तेषामध्ययनार्थं षड्वेदाङ्गानाम् अध्ययनं निश्चयेन अपेक्षितम् । अत एव वेदाङ्गानि वेदानां कुञ्चिका इत्युच्यते । कुञ्चिकायाः कार्यद्वयम् । एकं तु रक्षणम् । अन्यदेकमुद्घाटनम् । एवमेव वेदाङ्गानि अपि वेदमन्त्राणां रक्षां कुर्वन्ति । अपि च योऽस्ति ज्ञानाकाङ्क्षी(जिज्ञासुः), तस्मै वेदार्थस्य उद्घाटनं कारयन्ति । वेदमन्त्राणाम् अर्थस्य रक्षणे उद्घाटने च निरुक्तस्य अध्ययनम् अनिवार्यम् ।

निरुक्तकाराः[सम्पादयतु]

आसन् बहूनि निरुक्तानि इति ज्ञायते । बृहस्पतिः, काश्यपः, औपमन्यवः, औदुम्बरायणः, वार्ष्यायणिः, गार्ग्यः, आग्रायणः, शाकपूणिः, और्णवाभः, तैटीकिः, गालवः, स्थौलाष्ठीविः, क्रौष्ठुकिः, कात्थक्यः, कौत्सव्यः, यास्कः इत्यादयः सन्ति निरुक्तकाराः । इदानीमुपलभ्यते केवलं यास्कीयनिरुक्तम् ।महर्षियास्केन केषाञ्चन निरुक्तकाराणां नामानि उद्धृतानि स्वग्रन्थे ।

यास्कः[सम्पादयतु]

यास्कस्य कालस्थानयोः विषये विदुषां मतभेदो वर्तते । आधुनिकपाश्चात्यविदुषां मते यास्कस्य कालः प्रायः ईसापूर्व सप्तमशताब्दिः (7th BC)। यास्कः पाणिनेः प्राचीनः इत्यैतिहासिकानां मतम् । यास्कस्य निरुक्तस्यान्ते पारस्कर इति नाम विद्यते । तेन ज्ञायते यत् सः पारस्करदेशीय इति । अपि तस्य गोत्रनाम यास्कः इति तस्य निजनाम किमिति एतावत्पर्यन्तं न ज्ञायते । यास्कस्य ग्रन्थद्वयं विद्यते । निघण्टुः निरुक्तञ्चेति । निघण्टौ वैदिकशब्दानां सङ्ग्रहः वर्तते । यास्कादपि पूर्वं निघण्टुग्रन्थः आसीत् । तस्य परिष्कारः कृतः यास्केन । स्वपरिष्कृतनिघण्टुग्रन्थस्य भाष्यमेव निरुक्तम् ।

निघण्टुः[सम्पादयतु]

निघण्टुग्रन्थे १७७३ शब्दाः सङ्गृहीताः । अध्यायपञ्चकेषु विभक्तोऽयं ग्रन्थः । गवादि देवपत्न्यन्ताः वैदिकशब्दाः तत्रोक्ताः । प्रथमाध्यायत्रयं नैघण्टुककाण्डमिति प्रोक्तम् । चतुर्थाध्यायस्तु नैगम इत्युच्यते । पञ्चमस्तावत् दैवतमिति संविज्ञातम् । अस्य ग्रन्थस्य विषये यास्कः स्वयमेव वदति - समाम्नायः समाम्नातः, स व्याख्यातव्यः । ... छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः । (निरु.१.१.) अर्थात् अस्मिन् ग्रन्थे निघण्टौ आम्नायशब्दाः एव समाहृताः । तस्य विवरणमत्र निरुक्ते क्रियते ।

व्युत्पत्तिः[सम्पादयतु]

निघण्टु्शब्दस्य व्युत्पत्तिः एवं भवति । नि + गम्लृ गतौ + तुन् प्रत्ययः (उणा.१.६९.) अपि च वदति यास्कः - निघण्टवः कस्मात्? निगमा इमे भवन्ति । ते निगन्तव एव सन्तो निगमनात् निघण्टव इत्युच्यन्त इति औपमन्यवः। निश्चयेन गमयन्ति प्रापयन्ति वेदार्थान् इति निगमाः, निघण्टवो वा । अपि च हन धातुना अपि निघण्टुशब्दस्य व्युत्पत्तिं दर्शयन्ति - सम्यक्तया आहताः वेदेभ्यः इति ।

निरुक्तम्[सम्पादयतु]

निघण्टुग्रन्थस्य भाष्यमेव निरुक्तमित्युक्तं हि । उभयोः ग्रन्थयोः गणना वेदाङ्गे़षु क्रियते निरुक्तनाम्ना । यतो हि - अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् - इत्युक्तत्वात् । अपि च एकैकस्य पदस्य सम्भाविता अवयवार्थाः यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम् । एवंविध लक्षणेन निघण्टुनिरुक्तयोः गणना भवति निरुक्तनाम्ना ।

प्रयोजनम्[सम्पादयतु]

व्याकरणज्ञानस्य परिपूरणं निरुक्तस्य अध्ययनेनैव भवति । अतः व्याकरणस्य कार्त्स्न्यं निरुक्तस्य एकं प्रयोजनम् । अस्य निरुक्तस्य किं प्रयोजनमिति उच्यते यास्केनैव । अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते । - अस्य शास्त्रस्याध्ययनं विना वेदमन्त्राणाम् अर्थज्ञानं न सम्भवति । यतो हि अस्मिन् शास्त्रे वैदिकशब्दानां विवरणं, शब्दार्थविज्ञानं (Etymology) चोपदिष्टम् । अपि च वेदार्थेनैव सफला वयं भवेमेति उच्यते निरुक्ते । मन्त्रार्थज्ञानस्य प्रयोजनञ्चोक्तम् - योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा । - यो अर्थज्ञः स एव मङ्गलकरं प्राप्नोति नान्ये इति ।

अधिकारी कः[सम्पादयतु]

अस्य ग्रन्थस्य अधिकारी भवति सः यः ज्ञानमपेक्षन् गुरोः समीपमागच्छति, तपस्वी, मेधावी च भवति । यः ज्ञानं नेच्छति तस्य ज्ञाने सर्वदा असूया भवति । यदि सः मन्त्रार्थविषये कार्यं करोति तर्हि अनर्थमेव भवति । उक्तं हि - बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति । पश्यामः च यास्कोक्तिम् - न अवैयाकरणाय, नानुपसन्नाय, अनिदंविदे वा, नित्यं हि अविज्ञातुः विज्ञाने असूया, उपसन्नाय तु निर्ब्रूयात्, यो वा अलं विज्ञातुं स्यात् मेधाविने, तपस्विने वा ।
निरुक्तस्य प्रथमभागे यास्ककृतभूमिका वर्तते । तदनन्तरं नैघण्टुककाण्डम् । अनन्तरञ्च नैगमकाण्डम्, दैवतकाण्डम्, परिशिष्ठञ्चेति निरुक्तस्य विभागाः । अन्तिम अध्यायद्वयं परिशिष्टकाण्डं यास्ककृतं वा न वेति विवादः वर्तते । किन्तु सायणदुर्गाचार्यादयः चतुर्दशाध्यायाः अपि यास्ककृताः एव इति मन्यन्ते ।
यास्ककृतभूमिकायां ग्रन्थस्य प्रयोजनम्, अधिकारी, निरुक्तस्य विभागाः इत्यादिविषयाः प्रस्तुताः ।
नैघण्टुककाण्डे एकार्थकानामनेकशब्दानां निर्वचनं कृतम् । ते सर्वे पर्यायशब्दाः ।
तदुत्तरं नैगमकाण्डे अनेकार्थकशब्दानां सङ्ग्रहः वर्तते । एते शब्दाः अनवगतसंस्काराः । अर्थात् एतेषां शब्दानां प्रकृतिप्रत्ययभावः अस्पष्टः । तेषां नाम ऐकपदिकाः अथवा नैगमाः । अतैव अस्य काण्डस्य नाम नैगम इति । अत्र २७९ शब्दाः सङ्गृहीताः।
दैवतकाण्डे वेदमन्त्राणां देवतानां (मन्त्रप्रतिपाद्यविषयो देवता) विवरणं वर्तते । देवताविज्ञानं मन्त्रार्थसहायकं कथमित्यस्मिन् काण्डे उच्यते । अस्मिन् १५१ शब्दाः सन्ति ।

व्याख्याकाराः[सम्पादयतु]

निरुक्तस्य बहवः व्याख्याकाराः सन्ति । तेषु प्रमुखाः क्षीरस्वामी, देवराज यज्वा, बर्बरस्वामी, दुर्गाचार्यः, स्वामी ब्रह्ममुनि परिव्राजकः इत्यादयः । ब्राह्मणग्रन्थानामनन्तरं प्रथमवेदभाष्यं निरुक्तमेव । अस्मिन् ग्रन्थे नतु सर्वे वैदिकशब्दाः निर्वचिताः। न च सर्वे मन्त्राः व्याख्याताः । परन्तु निर्वचनप्रकारः, मन्त्रार्थपरिज्ञानविज्ञानमत्र प्रदर्शितः । अस्य मार्गदर्शनेन वेदार्थपरिज्ञानेच्छुकाः वेदाध्ययनं कुर्युः।

अधिकज्ञानाय पठ्यताम्[सम्पादयतु]

  1. यास्कभूमिका
  2. नैघण्टुककाण्डम्
  3. नैगमकाण्डम्
  4. दैवतकाण्डम्
  5. परिशिष्टम्
  6. निर्वचनप्रक्रिया
"https://sa.wikipedia.org/w/index.php?title=निरुक्तम्&oldid=314478" इत्यस्माद् पुनः प्राप्तिः