दैवतकाण्डम्
निघण्टुग्रन्थस्य पञ्चमाध्याये सङ्गृहीतशब्दाः अस्मिन् काण्डे विवृताः । अत्र देवताशब्दानां निर्वचनेन सह देवताविज्ञानं, गौणमुख्यदेवतापरिज्ञानमपि दर्शितमित्यतः काण्डमेतत् प्रामुख्यं भजते । अत्र १५१ शब्दाः व्याख्याताः ।
मन्त्राणां अर्थाः त्रिविधाः भवन्ति । ते आधिभौतिकं, आधिदैविकं, आध्यात्मिकञ्चेति । आधिभौतिकार्थस्य साहाय्येन आधिदैविकस्य, आधिदैविकेन आध्यात्मिकस्य च ज्ञानं भविष्यति ।
उत त्वं सख्ये .............. अफलामपुष्पाम् । (ऋक्.१०.७१.५.)
इति मन्त्रस्य व्याख्याने उक्तं हि आचार्येण -
अर्थं वाचः पुष्पफलमाह । याज्ञदैवते पुष्पफले । देवताध्यात्मे वा । (निरु.१.१९.)
अस्मिन् दैवतकाण्डे आधिदैविकार्थः मन्त्राणां दर्शितः । अपि च मन्त्राणां देवतापरिज्ञाने मार्गदर्शनं कृतम् । तर्हि किं नाम देवता ?
- १. यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन् स्तुतिं प्रयुङ्क्ते तद्दैवतः स मन्त्रो भवति । (निरु.७.१.)
मन्त्रद्रष्टा ऋषिः यस्य विषये अर्थापत्तिम् इच्छति सः मन्त्रः तद्दैवतः भवति ।
- २. षड्गुरुशिष्यग्रन्थे उच्यते - तेन वाक्येन यत्प्रतिपाद्यं वस्तु सा देवता ।
- ३. एष एव अभिप्रायः बृहद्देवतायामपि (१.६.) दर्शितः ।
अनेन ज्ञायते यत् मन्त्रे प्रतिपादित विषय एव देवता इत्यभिधीयते । मन्त्रद्रष्टा ऋषिः यथा अर्थमिच्छति तथा देवतानां स्तुतिः = वर्णनं च भविष्यति । आधिदैविकस्तरे बह्व्यः देवताः भवन्ति । प्रायः ते सर्वे जडदेवताः च भवन्ति । किन्तु आध्यात्मिकदृष्ट्या एक एव देवः = परमात्मा स्तुतिपात्रः भवति | तस्यैव वर्णनं मन्त्रेषु भवति ।
माहाभाग्याद्देवताया एक आत्मा बहुधा स्तूयते । एकस्यात्मनो अन्ये देवाः प्रत्यङ्गानि भवन्ति । (निरु.७.१४.)
देवेषु महान् ऐश्वर्यशाली परमात्मा सर्वत्र स्तुत्यो भवति । सा एव सर्वेषां मन्त्राणां मुख्यदेवता । अन्याः देवताः तस्यैव अङ्गानि भवन्ति ।
ओंकारः सर्वदेवत्यः अन्या देवतास्तद्विभूतयः । एकैव महानात्मा देवता । तदप्येतदृचोक्तम् - इन्द्रं मित्रं वरुणं ...... । (सर्वानुक्रमणी)
अत्र तु एकं सद् विप्रा बहुधा वदन्ति इति वेदप्रामाण्यं च दर्शितम् ।
देव शब्दः दिवादिगणस्य दिवु क्रीडादि धातुना सिध्यति । निरुक्ते देव शब्दस्य निर्वचनमेवं वर्तते ।
देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा । यो देवः सा देवता । (निरु.७.१५.)
अनेन निर्वचनेन जडदेवाः परमात्मा च ग्रहीतुं शक्याः अतः आधिदैविकेऽर्थे जडदेवाः, आध्यात्मिके अर्थे परमात्मा च ग्रहीतव्याः ।
प्रत्येकस्मिन् मन्त्रे मुख्यदेवता विशेष्या भवति । अन्ये देवतावाचकशब्दाः विशेषणानि भवन्ति । तेषां सर्वेषामपि दैवतशब्दानां निर्वचनं नात्र क्रियते अत्र केवलं विशेष्यदेवतानां, प्रधानस्तुतिभाजानां व्याख्या क्रियते ।
अस्मिन् काण्डे आधिदैविक एव अर्थः विवृतः इत्युक्तं हि । ताः देवताः गौणमुख्यभावेन विभक्ताः । एकस्मिन्नेव मन्त्रे बह्व्यः देवताः भवन्ति । तेषु गौणदेवता मुख्यदेवता च परीक्ष्य मन्त्रार्थः ग्राह्यः ।
तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते । (निरु.१.२०.)
एताः देवताः स्थानत्रये च विभक्ताः । ते पृथिवीस्थानीयाः, अन्तरिक्षस्थानीयाः, द्युस्थानीयाः । सर्वा जडदेवताः एषु त्रिषु स्थानेषु स्थिताः इति निरुक्तकाराणामाशयः । देवताः अपि मुख्यतया तिस्र एव इति । पृथ्वीस्थाने अग्निः, वायुः अथवा इन्द्रः अन्तरिक्षस्थाने, सूर्यः द्युस्थाने स्थितः ।
तिस्र एव देवता इति नैरुक्ताः । अग्निः पृथिवीस्थानः, वायुर्वेन्द्रो वा अन्तरिक्षस्थानः, सूर्यो द्युस्थानः । (निरु.७.२.)
एतेषामेव अङ्गानि भवन्ति अन्यदेवताः । एते देवताः समानस्थानत्वेन, समानभोगेन च एकत्वं भजन्ते । यथा मनुष्याः, पशवः, देवाः एते सर्वे पृथ्वीस्थानीयाः । तथैव पृथिव्याः पर्जन्येन, वायुना, आदित्येन च समानभोगः वर्तते । एतासां देवतानाम् एकत्वमिति विज्ञायते ।
तथैव एकदेवतावाचका अपि शब्दाः भिन्नकार्यसूचकाः भवन्ति । यथा निरुक्तस्य (१२.२.) स्थाने निर्दिष्टः । तत्र सविता, भगः, सूर्यः, पूषा, विष्णुः, विश्वानरः, वरुणः, केशी, वृषाकपिः एते शब्दाः आदित्यवाचकाः प्रस्तुताः । किन्तु एते सर्वे उषःकालतः अस्तकालपर्यन्तम् आदित्यस्य भिन्न-भिन्नकार्यान् सूचयन्ति ।
एवं दैवतकाण्डे देवतापरिज्ञाने विवृताः बहवः विषयाः । अस्याध्ययनं विना मन्त्रार्थपरिज्ञानं दुष्करम् ।
आधिदैविकव्याख्यानमेकम् उदाहरिष्यामः -
तत्को वृत्रः ? मेघ इति नैरुक्ताः । ...................... अपां च ज्योतिषश्च मिश्रीभावकर्मणो वर्षकर्म जायते । तत्रोपमार्थेन युद्धवर्णा भवन्ति ।
वृत्रः = मेघः । न तु त्वाष्ट्र्ः असुरः । यतः वेदे ऐतिहासिक कथाः सर्वथा न सन्तीति निरुक्तकाराणामाशयः । अतः वृत्रः इत्यस्य आधिदैविकार्थः स्वीकरणीयः । विद्युतः प्रहारेण मेघः नष्टो भवति । तेन कायेर्ण वृष्टिः भविष्यति । एतदेव वर्णनम् उपमार्थे युद्धवर्णनरूपेण स्थितं भवति ।
एवम् अन्यत्रापि आधिदैविकार्थाः अभ्यूहितव्याः = विचार्य अध्येतव्याः निरुक्तस्य मार्गदर्शनेन ।