शिक्षा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

शिक्षा नाम तच्छास्त्रं येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । वेदे स्वरस्य प्राधान्यं वर्तते, स्वरज्ञानं च शिक्षाऽयत्तम्, अत एवेदं शिक्षाशास्त्रं वेदाङ्गम् ।

'अथ शिक्षा व्याख्यास्यामः - वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तान इत्युक्तः शिक्षाध्यायः॥'

तत्र वर्णोऽकारादिः, स्वरोदात्तादिः, मात्रा ह्रस्वादिः, बलं स्थानप्रयत्नौ, साम निषादादिः, सन्तानो विकर्षणादिः । एतदवबोधनमेव शिक्षायाः प्रयोजनम् ।

यथा वैदिकविधीनां सम्पादनार्थं ब्राह्मणग्रन्थाः उपयुज्यन्ते, तथैवोच्चारणप्रयोजनेन शिक्षायाः उपयोगो वाञ्छच्यते । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वरवर्णाद्युच्चारणानि केन प्रकारेण कर्त्तव्यानीत्येतस्मिन् विषये उपदिशति । सायणस्य ऋग्वेदभाष्यभूमिकायामुक्तम् -

'स्वरवर्णायुच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षेति'

वेदपाठावसरे शुद्धमुच्चारणं स्वरक्रिया च युक्ता काम्येते। अशुद्धोच्चारणयुक्तो भ्रष्टस्वरश्च वेदपाठो महद् दुष्फलं जनयति । यज्ञयागोपासनादिकं यत्कार्यमिष्टलाभाय क्रियते, तस्माद्विशिष्टलाभो न कदापि अशुद्धेनोच्चारणेन समवाप्तः सञ्जायते । तद्विधमशुद्धोच्चारणयुतं कार्यं तु विपदां महतीम् उत्पादयति। श्रूयते यत् पुरा 'इन्द्रशत्रुर्वधस्व' इत्यस्य मन्त्रस्य अशुद्धोच्चारणं कृतमभूत्, तेन यजमानम्प्रति तदनिष्टकारकमसिद्धयत् । पाणिनीयशिक्षायामुक्तम् --

'मन्त्रो हीनः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह।

स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात्॥'

वेदोच्चारणस्य युक्ततायै स्वरक्षाज्ञानमपेक्ष्यते समीचीनम् । स्वर उदात्तानुदात्तस्वरितभेदेन त्रिविधः । ‘उच्चैरुदात्तः', ‘नीचैरनुदात्तः', ‘समाहारः स्वरितः' इत्येतानि पाणिनिना तेषां त्रयाणां लक्षणानि प्रोक्तानि । 'अनुदात्तपदमेकवर्ज्यम्' इत्येतस्मिन् पाणिनीये सूत्रे अभिहितं यद्,, वेदस्य प्रतिपदमवश्यमेव केनापि उदात्तेन स्वरेण संश्लिष्टं भवति, अवशिष्टाश्च स्वराः भवन्त्यनुदात्ताः । तेष्वेवानुदात्तेषु स्वरेषु अन्यतमः स्वरो हि परिस्थितिविशेषे स्वरितो जायते । स्वरप्रधानतायाः कारणं वेदेष्वस्ति, तेषां स्वराणामर्थनियन्त्रणत्वम् ।

वेदेषु शुद्धोच्चारणं सर्वप्रथमं वाञ्छितं भवति, तच्च शुद्धोच्चारणं शिक्षा समुपदिशति । एतस्मादेव हेतोः षट्सु वेदाङ्गेषु शिक्षाऽङ्गस्य मूर्धन्यत्वमाम्नातम् । शिक्षाया अभिमतो विषयः प्रातिशाख्येषु दृश्यते । प्रातिशाख्यग्रन्थाः शिक्षाशास्त्रस्य प्राचीनतमाः प्रतिनिधय इव सन्ति । संहितापाठसम्बन्धिनः सर्वेऽपि विषयास्तत्र साङ्गोपाङ्गतया प्रतिपादिताः ।

शिक्षाशास्त्रेतिहासः पुरातनतरः । परं न तद्विषयकाः प्राचीनतराः ग्रन्थाः उपलभ्यन्ते। श्रीवाचस्पतिगैरोला स्वकीये इतिहासे लिखति यत्, सत्यकेतुविद्यालङ्कारस्य मतमिदं यत् ‘जैगीषव्यस्य शिष्यो बाभ्रव्यः शिक्षाशास्त्रं प्रणिनाय। महाभारते शान्तिपर्वणि आचार्यगालवकृतस्य शिक्षाग्रन्थस्योल्लेखो लभ्यते । भण्डारकरशोधसंस्थान-पूना-तः भारद्वाजशिक्षायाः प्रकाशनं जातमस्ति । तत्र नागेश्वरभट्टस्य टीका च वर्तते । नागेश्वरमतेन स ग्रन्थो भारद्वाजेन प्रणीतः । शिक्षासङ्ग्रहनामके ग्रन्थे द्वात्रिंशच्छिक्षापुस्तकानां सङ्ग्रहोऽवाप्यते । शिक्षा इमाश्चतुर्णामपि वेदानां भिन्नभिन्नशाखास्वात्मानं सम्बध्नन्ति । श्रीबलदेव-उपाध्यायः स्वकीये ‘वैदिक साहित्य और संस्कृति' इत्येतदभिधेये ग्रन्थे याज्ञवल्क्यशिक्षा-वासिष्ठीशिक्षादिसंज्ञकानां विंशतिग्रन्थानामुल्लेखं विदधानो दृश्यते । साम्प्रतं समवाप्ता पाणिनीयशिक्षा प्राचीनशिक्षासूत्राणां साहाय्येन प्रणीता अभूदिति बुधानां विचारः । अद्यतने युगे पाणिनीयशिक्षां स्वामी-दयानन्द उद्दधार। इदानीं शुक्लयजुर्वेदे याज्ञवल्क्यशिक्षा, सामवेदे नारदशिक्षा, अथर्ववेदे माण्डूकीशिक्षा, किञ्च ऋग्वेदे पाणिनीयशिक्षा च प्राप्यन्ते न च अन्या काऽपि।

 उपनिषत्काले शिक्षा[सम्पादयतु]

वैदिककाले एव वेदाङ्गं प्रति वैदिकानाम् ऋषीणां ध्यानाकर्षणमभवत् । ब्राह्मणग्रन्थेषु शिक्षासम्बद्धनियमानाम् उल्लेखो यत्र तत्र प्राप्यते। उपनिषत्सु अद्वैत-विशिष्टाद्वैतश्रुतीनां सद्भावः। अस्मिन्नेव काले मूलरूपेण शिक्षा-सिद्धान्तोऽपि प्रतिपादितोऽस्ति । अाचार्यैः शिक्षासिद्धान्तप्रतिष्ठापिकाः श्रुतयः प्रधानत्वेन स्वीकृताः, अन्यासां श्रुतीनां गौणत्वञ्च तैरुपपादितम् । वस्तुत उपनिषत्सु सर्वेषामपि दर्शनानां बीजानि निहितानि सन्ति। न केवलं शिक्षादर्शनस्य अपि तु विभिन्नदर्शनानामपि मूलसिद्धान्ताः समुपलभ्यन्ते ।

उपनिषदां प्रधानत्वेन प्रतिपाद्यो विषयोऽस्त्यात्मा । संहिता-तः अारण्यकं यावत् तद् ब्रह्म अात्मनो भिन्नमित्येतेन रूपेण प्रतिपादितमस्ति, तदुपनिषत्सु ततो भिन्नमित्येतेन प्रकारेण व्याख्यातमस्ति । द्वयोरप्यभिन्नत्वाद् दैवाध्यात्मिकतत्त्वयोः एकत्वाच्च आत्मैवैकः सर्वत्र न च तं विहाय कोऽप्यन्यः पदार्थ इति हि उपनिषद्भिः उक्तम्। तच्चात्माख्यं तत्त्वं पूर्णमस्ति । तदेव तत्त्वं द्रष्टृ तदेव च दृश्यम् । न द्रष्टृदृश्ये भिन्नतां वस्तुतः श्रयतः । आत्मैव सर्वव्यापी वर्त्तते । विश्वस्य सर्वेष्वपि पदार्थेषु स एव व्याप्तोऽस्ति । तस्मिन्नेव समग्रस्यापि प्रपञ्चस्य लयो भवति। ततो व्यतिरिक्तं न किमपि । अत एव बृहदारण्यकोपनिषदाह -

‘स वाऽयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्रमाणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमयः अापोमयो वायुमय अाकाशमयस्तेजोमयः काममयोऽकाममयः क्रोघमयोऽत्रकोघमयो घर्ममयोऽधर्ममयः सर्वमयः ************ '

अतः संसारस्य यावन्तोऽपि सन्ति स्थूला वा सूक्ष्माः पदार्थाः, सर्वेऽपि नात्मनो भिन्नाः । ते सर्वे अात्मत्वेनैव वेदितव्याः, नात्मनः परं किमपि प्रियतरम् । ऋषिभिः बहुधा स अात्मा वर्णितः । कथयन्ति ते यत्, अात्मैव प्राणापानव्यानोदानवायुरूपेण अस्मच्छरीरे भवति । आत्मैव क्षुत्पिपासामोहशोकजरामरणेभ्यः अस्मान्नुद्धरति । अात्मनो ज्ञानानन्तरमेव मानवः सुतसम्पत्सुन्दरीस्वर्गादिसमवाप्तेः इच्छातो विरतो भूत्वा परिव्राजो जीवनं वहति । पूर्णत्वाद् अखण्डत्वाच्चात्मा सदसल्लघुगुरुद्रादूरान्तर्बहिरादि-सकलविरुद्धधर्माणाम् एकाधारः । सर्वेऽपि दर्शनकारा अत एवेदं परमतत्त्वमात्मा अभिधेयं विभिन्नरूपेण स्वस्वमूलतत्त्वं मत्वा भिन्नभिन्नया दृष्टिसरण्या भिन्नभिन्नानि दर्शनानि व्यरचयन् । ब्रह्मतत्त्वं यः कोऽपि जिज्ञासति, ज्ञातुं शक्नुते, यः कोऽपि मानवस्तल्लिप्सति लब्धुं प्रभवति।

नायमात्मा वेदाध्ययनेन लब्धुं शक्यो न च सद्धारणाशक्त्यैव । साधको हि यमात्मानं वृणुते, तेनैव स तमवाप्तुमीष्टे । सम्प्रति हि स्वयमेवात्मा स्वकीयं रूपमभिव्यनक्ति। कठोपनिषदाह-

‘नायमात्मा प्रवचनेन लभ्यो न मेघया न बहुधा भ्रुतेन ॥

यमेवैष वृणुते तेन लभ्यस्तस्यैष अात्मा विवृणुते तनू' स्वाम् ॥'

तैत्तिरीयोपनिषदः प्रथमवल्ल्यामस्याः शिक्षायाः समस्तमूलसिद्धान्तस्य विवेचनमुपलब्धं भवति । यथा- शिक्षां व्याख्यास्यामः ॥ वर्णः, मात्रा, बलं, साम, सन्तानः, इत्युक्तः शिक्षाध्याये'॥[१]

उपनिषदानुसारेण इत्येतानि षडङ्गानि भवन्ति शिक्षाविषयस्येति

(१) वर्णस्य अभिप्रायः अक्षराणि भवन्ति । वेदतत्त्वस्य ज्ञानार्थं संस्कृतवर्णमालायाः ज्ञानं नितान्तम् आवश्यकमस्ति । पाणिनीयशिक्षातः ज्ञानं भवति यत्, संस्कृतवर्णमालायां ६३ अथवा ६४ वर्णाः निर्धारिताः भवन्ति । न केवलमियं संख्या संस्कृतभाषार्थमेव, प्रत्युत वैदिककाले प्रयुक्तं प्राकृतभाषार्थमपि नियता आसीत्।

(२) स्वरस्याभिप्रायः - उदात्तानुदात्तस्वरितै: सहास्ति ।

(३) मात्राशब्देन उच्चारणसापेक्षसमय एवास्ति । मात्रा त्रिधा भवति - ह्रस्व-दीर्घ-प्लुताश्चेति । एकमात्रो भवेद् ह्रस्वः, द्विमात्रो दीर्घं उच्यते, तथा त्रिमात्रो प्लुतसंज्ञको भवति ।

(४) बलेन स्थानप्रयत्नयोः बाधो भवति । स्वर-व्यञ्जनयोः उच्चारणकाले ताल्वादि यत्स्थानस्य वायुना स्पर्शो भवति, तदैव स्थानमिति । स्थानानि च इमानि अष्टसंख्यकानि भवन्ति । प्रयत्नोऽपि द्विधा भवति- अाभ्यन्तरो बाह्यश्चेति । अभ्यन्तरप्रयत्नः चतुर्धा विभक्तोऽस्ति - स्पृष्ट-ईषत्स्पृष्ट-विवृत-संवृतभेदात् । बाह्यप्रयत्नोऽपि एकादशधा - विवार-संवार-श्वास-नाद-घोष-अघोष-अल्पप्राण-महाप्राण-उदात्तस्वरिताश्चेति ।

(५) सामशब्दस्यार्यो भवति — ‘साम्यम्' अर्थात् दोषरहितम् अनुदात्त-माधुर्यादिगुणयुक्तमुच्चारणम् । तद्यथा -

‘माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।

धैर्यं लयसमर्थञ्च षडेते पाठका गुणाः।।'[२]

विपरीतमस्य अधमपाठकेषु परिगणितप्रकाराणां निर्देशोऽपि तत्रैव । यथा -

‘गीती शीघ्री शिरः कम्पी यथा लिखितपाठकः॥

अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाऽधमाः॥'[३]

शकृितभीतादिपाठोऽपि अनर्थको भवति। यथा -

'शङ्कितं भीतमुत्कृष्टमव्यक्तमनुनासिकम्।

काकस्वरं शिरसिंगं तथा स्थानविवर्जितम्।।

उपांशुदष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम्।

निष्पीडितं ग्रस्तपदाक्षरश्च वदेन्न दीनं न तु सानुनास्यम्।।'[४]

(६) सन्तानः - सन्तानशब्दस्यार्थो भवति संहिता, अर्थात् पदानामतिशयसनिधिः । सत्यपि पदानां स्वतन्त्रास्तित्वे यदा कदा पदद्वयस्य आवश्यकतानुसारेण शीघ्रतयैकस्य अनन्तरमेकस्य उच्चारणं भवति, तदेवोच्चारणं संहितापदेन व्यपदिश्यते । पदेषु प्रथमं संहिता भवति, तत्पश्चादेव सन्धिर्भवितुमर्हति । यथा -'वायो आयाहि' अत्र स्वतन्त्रे द्वे वैदिकपदे स्तः । यदैकस्मिन्नेव वाक्ये पदद्वयस्य सहैवोच्चारणं भवति तदा सन्धिकारणेन अत्र किमपि परिवर्त्तनं भवति। तदा पूर्वोदाहरणस्य रूपं 'वायवायाहि' भविष्यति। अनेनैव प्रकारेण 'इन्द्राग्नो आगतम्' अत्र प्रकृतिभावो भविष्यति । प्रत्येकस्मिन् वेदे वर्णानामुच्चारणं समानरूपेण भवितुं नार्हति । तेषामुच्चारणे पार्थक्यं भवत्येवेति । उदाहरणाय - मूर्धन्यः 'ष' इत्येतस्य शुक्लयजुर्वेदे रेफेण सह उष्मवर्णेन सह संयुक्ते सति च अस्योच्चारणं ‘ख’ इव भवति । किञ्च अन्यवेदेषु अस्य उच्चारणं विशुद्धमूर्धन्यः ‘ष' इव भवति । यथा पुरुषसूक्तस्य प्रधानमन्त्रगत-‘सहस्रशीर्षा पुरुषाः' अत्र ऋग्वेदिनामुच्चारणे यत्र 'शीर्षा' इत्येतस्य 'ष' इति मूर्धन्यः स्पष्टत एव भवति, तत्र माध्यन्दिनशाखीयानामुच्चारणे 'शीरेखा पुरुखः' इत्युच्चारणं भवति । अस्य विशिष्टपरिचयः तत्तद्वेदस्य एव शिक्षायां विस्तरेण सह प्रदत्तमस्ति । इदमेव कारणमस्ति यत्, प्रत्येकस्य वेदस्य स्वकीया शिक्षाऽस्ति । तस्यामेव शिक्षायां तत्तद्वेदविशेषस्य उच्चारणस्य अपि विधानं वर्त्तते । 

प्रातिशाख्यानि[सम्पादयतु]

प्रातिशाख्यानि शिक्षाणां पूर्वरूपाणि । किन्तु तानि वेदाङ्गसंज्ञया न व्यवह्नियन्ते । शौनकेन विरचितम् ऋग्वेदप्रातिशाख्यं प्रातिशाख्येषु विशिष्यते । एतत् जर्मनीयैः पण्डितैः मुद्रयित्वा प्रकाशितम् अस्ति । पदप्रकृतानिप्रातिशाख्यानि, एतदतिरिक्तं प्रातिशाख्यग्रन्थेषु, शिक्षा-व्याकरण-छन्दसां नियमाः विवेचिताः सन्ति । कस्याः शाखायाः नियमविशेषः कः, इति प्रदर्शनम् एव प्रातिशाख्यग्रन्थानां प्रयोजनमस्ति । अर्थात् शिक्षा-व्याकरण-छन्दसां समाहारः एव प्रातिशाख्यग्रन्थः । इमे प्रातिशाख्याः संहिताभेदेन शाखाभेदेन वा विभिन्नाः वर्तन्ते । यथा ऋग्वेदस्य ऋक्प्रातिशाख्यम्, यजुर्वेदस्य वाजसनेयिप्रातिशाख्यम्, तैत्तिरीयप्रातिशाख्यम्, सामवेदस्य ऋक्तन्त्रम्, पुष्यसूत्रप्रातिशाख्यं तथा अथर्ववेदस्य शौनकीयाप्रातिशाख्यम्, अथर्ववेदप्रातिशाख्यञ्च सुप्रसिद्धाः प्रातिशाख्यग्रन्थाः सन्ति ।

शिक्षासाहित्यम् -[सम्पादयतु]

‘शिक्षा'-शब्दस्य अत्रार्थो भवति वैदिकमन्त्राणामुच्चारणविधेः शिक्षको ग्रन्थः । शिक्षा-प्रातिशाख्ययोः परस्परसम्बन्धविषये मतैक्यं नास्ति । शिक्षायाः साहित्यं पर्यातरूपेण विशालमस्ति । प्रधानशिक्षायाः संक्षिप्तपरिचयेन शिक्षासाहित्यस्य विशालतायाः कल्पना भवेत्।

व्यासशिक्षा[सम्पादयतु]

अस्य ग्रन्थस्योपरि महामहोपाध्यायपण्डितवैङ्कटरामशर्मणा रचितो वेदतैजसनाम्ना व्याख्याग्रन्थः समुपलब्धोऽस्ति ।

भरद्वाजशिक्षा[सम्पादयतु]

अस्य ग्रन्थस्य सम्बन्धः तैत्तिरीयसंहितया सहास्ति । ग्रन्थोऽयं ‘संहिताशिक्षा' नाम्ना व्यवहृतोऽस्ति । यतोऽस्य प्रधानलक्ष्यं संहिता-पदानां शुद्धतैवाऽस्ति । तदर्थं विशिष्टनियमानाम् अस्मिन् ग्रन्थे विवरणमस्ति। क्वचिद्विशिष्टशब्दानां सङ्कलनमप्यस्ति । तैत्तिरीयसंहितायां ‘वृजिन्'-शब्दस्य उपलब्धिर्भवति । किञ्च जकारस्य उदात्तस्वरयुक्तत्वे सति अकारयुक्तः ‘वृजन' इत्येवं भवति ( वृजने ‘च' उदात्तश्चेद् अकारेण सहोच्यते) । अनेन प्रकारेण 'पर्शु'-शब्दः अन्तोदात्तश्चेत्, 'परशु' इत्यस्मिन् रूपे परिणतो भवति । अनेनैव प्रकारेणात्र नियमाः प्रदर्शिताः । अक्षरक्रमेण ग्रन्थस्य सङ्कलनमस्ति । शिक्षायाः अन्येषां विषयाणाम् अत्राभावो विद्यते । श्रीनिवासदीक्षितेन रचिता ‘सिद्धान्तशिक्षा' अपि अस्याः शिक्षाया विषयप्रतिपादने अनुगमनं करोति ।

पाणिनीयशिक्षा[सम्पादयतु]

शिक्षेयं प्रसिद्धा लोकप्रिया चास्ति । लौकिकानां वैदिकानाञ्च शास्त्राणां कृते शिक्षेयं नितान्तमुपयोगित्वेन अधिकमहत्त्वपूर्णाऽस्ति । ग्रन्थेऽस्मिन् षष्टिः श्लोकाः सन्ति । एतेषु श्लोकेषु उच्चारणविधिसम्बद्धविषयाणां संक्षिप्तं किञ्चोपादेयं विवरणं प्रदत्तमस्ति । ग्रन्थान्ते पाणिनेरुल्लेखः दाक्षीपुत्रनाम्ना कृतोऽस्ति ।

'शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते।

वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः।।'[५]

अनेन पाणिनिमतानुयायी कोऽपि वैयाकरणः अस्य उपयोगिनो ग्रन्थस्य निर्माणमकरोत् । अस्य ग्रन्थस्य उपरि बहुविधाः टीकाः अप्युपलब्धाः भवन्ति । परिमाणे न्यूनत्वेन अप्यस्य सारगर्भितग्रन्थस्य अनुशीलनेन संस्कृतभाषायाः अस्योपयोगिनो विषयस्य सुष्ठु ज्ञानं प्राप्येत।

याज्ञवल्क्यशिक्षा[सम्पादयतु]

परिमाणेयं बृहदाकाराऽस्ति । अस्याः श्लोकानां संख्या २३२ अस्ति। अस्याः सम्बन्धः शुक्लयजुर्वेदीयवाजसनेयीशाखया सहास्ति । अस्यां शिक्षायां वैदिकस्वराणामुदाहरणेन सह विशिष्टं विस्तृतञ्च वर्णनमस्ति । लोपागमविकारप्रकृतिभावाख्यानां चतुर्विधसन्धीनां विवेचनोऽप्यत्र वर्तते । वर्णानां विभेदस्वरूप-साम्य-वैषम्यादीनामपि वर्णनमस्ति ।

वासिष्ठीशिक्षा[सम्पादयतु]

अस्या अपि सम्बन्धो वाजसनेयीसंहितया सहैवास्ति । अस्यां संहितायां ऋग्-मन्त्र-यजुर्मन्त्रयोः पार्थक्यम् अतिविस्तारेण वर्णितमस्ति । अनया शिक्षया अनुसारेण शुक्लयजुर्वेदीयसमग्रसंहितायाम् ऋग्वेदीयाः १४६७ मन्त्राः सन्ति । अत्र यजुषां संख्या २८२३ अस्ति । संख्याविभागोऽयमस्य वेदस्य अध्ययनकर्तृभ्यः अतीवोपादेयः अस्ति ।

कात्यायनीशिक्षा[सम्पादयतु]

अस्यां शिक्षायां केवलं त्रयोदशश्लोकाः वर्त्तन्ते । जयन्तस्वामिनाम्ना कोऽपि विद्वानस्य टीकां लिलेख ।

पाराशरीशिक्षा[सम्पादयतु]

अस्यां शिक्षायामपि १६० शलोकाः सन्ति । अस्मिन्नपि ग्रन्थे सन्धि-स्वर-वर्णादीनां विषयाणां विवेचनमस्ति।

माण्डव्यशिक्षा[सम्पादयतु]

शिक्षेयं शुक्लयजुर्वेदेन सह सम्बद्धाऽस्ति । ग्रन्थेऽस्मिन् वाजसनेयीसंहितायां प्रयुक्तानां नामौष्ठ्यवर्णानां सङ्ग्रहो विद्यते। अतीवपरिश्रमेण समस्तसंहितायाः अध्ययनं कृत्वा उपादेयोऽयं ग्रन्थो लिखितोऽस्ति । सामान्यशिक्षाग्रन्थेभ्यः अस्य ग्रन्थस्य विशिष्टता अधिका अस्ति। स्वरस्य वर्णस्य च विचारम् अकृत्वैव केवलम् ओष्ठेन उच्चारितवर्णानाम् एवात्र सङ्ग्रहः कृतोऽस्ति ।

अमोघानन्दिनीशिक्षा[सम्पादयतु]

अस्मिन् ग्रन्थे १३० श्लोकाः सन्ति । अत्र स्वरस्य वर्णस्य च सूक्ष्मविचारः कृतोऽस्ति । अस्य ग्रन्थस्य संक्षिप्तसंस्करणमप्यस्ति । अस्मिन् संस्करणे केवलं सप्तदशश्लोका एव सन्ति ।

माध्यन्दिनीशिक्षा[सम्पादयतु]

ग्रन्थेऽस्मिन् केवलं द्वित्वनियमानां विवेचनमस्ति । द्विविधोऽयं ग्रन्थः । एकः बृहदाकारः, द्वितीयस्तु लघ्वाकार एवेति । प्रथमो गद्यात्मकः, द्वितीयः पद्यात्मकश्चेति ।

वर्णरत्नप्रदीपिकाशिक्षा[सम्पादयतु]

अस्य ग्रन्थस्य रचयिता भारद्वाजवंशीयः कोऽपि अमरेशनामको विद्वानस्ति । अस्यापि समयः अज्ञात एव । अस्य ग्रन्थस्य श्लोकानां संख्या २२७ अस्ति। नामानुरूपेण एव अस्मिन् ग्रन्थे वर्ण-स्वर-सन्धीनां साङ्गोपाङ्गं विवेचनमस्ति ।

केशवीशिक्षा[सम्पादयतु]

अस्याः रचयिता आस्तिकमुनेर्वंशजो गोकुलदैवज्ञस्य पुत्रः केशवदैवज्ञोऽस्ति । द्विविधेयं शिक्षा समुपलब्धा भवति । प्राथमिकीशिक्षायां माध्यन्दिनशाखातः सम्बद्धपरिभाषाणां विस्तृतं विवेचनमस्ति। प्रतिज्ञा - समस्तानां नवसूत्राणां विस्तृतव्याख्योदाहरणेन सहात्र प्रदत्ताऽस्ति। द्वितीया शिक्षा पद्यात्मिका अस्ति। एकविंशतिपद्येषु अत्र स्वरस्य विस्तृततया विचारोऽस्ति।

मल्लशर्म-शिक्षा[सम्पादयतु]

अस्य ग्रन्थस्य रचयिता उपमन्युगोत्रीयः अग्निहोत्री खगपतिमहोदयस्य पुत्रो मल्लशर्मा नामतः कोऽपि कान्यकुब्जब्राह्मणः आसीत्। अस्याः शिक्षायाः पद्यानां संख्या ६५ अस्ति। लेखकस्य कथनानुसारेण अस्याः रचना १७८१ विक्रमाब्देऽभवत् ।

स्वराङ्कश-शिक्षा[सम्पादयतु]

अस्याः शिक्षायाः रचयिता जयन्तस्वामीनामकः कोऽपि विद्वानासीत् ।

षोडश-श्लोकीशिक्षा[सम्पादयतु]

श्रीरामकृष्णनामकेन विदुषा षोडशश्लोकीशिक्षा नामकं लघ्वेकं पुस्तकं प्रणीतं, यत्र स्वरस्य व्यञ्जनस्य च विचारः कृतः अस्ति ।

अवसान-निर्णयशिक्षा[सम्पादयतु]

वैदिकव्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानाय स्वरवर्णादिज्ञानसौलभ्याय च शिक्षेयं प्रणीता अनन्तदेवेन विदुषा ।

स्वरभक्तिलक्षणशिक्षा[सम्पादयतु]

स्वरभक्तिप्रयोगनियमानां ज्ञानाय महर्षिणा कात्यायनेन विविधोदाहरणैः संयुतो लक्षणग्रन्थोऽयं रचितः।

प्रातिशाख्य-प्रदीप-शिक्षा[सम्पादयतु]

इदं पाण्डित्यपूर्णं शिक्षाशास्त्रं सदाशिवपुत्रेण बालकृष्णनाम्ना केनाऽपि विदुषा कृतमस्ति। शिक्षेयं परिमाणे गरिष्ठेति। शिक्षाशास्त्रमिदं किमपि प्राचीनम् ईदृशं शास्त्रम् आलोक्यैव प्रणीतम् । ग्रन्थेऽस्मिन् कतिपयानि व्याकरणप्रयोगपराणि ग्रन्थान्तरात्पद्यानि समुद्धृतानि सन्ति । स्वरवर्णादिशिक्षायाः समग्रविषयाणां सरसं सरलं साङ्गोपाङ्गञ्च विवेचनमत्रास्ति ।

नारदीयशिक्षा[सम्पादयतु]

सामवेदेन सम्बद्धोऽयं शिक्षाग्रन्थोऽस्ति । अतिविस्तृता, उपादेया च शिक्षाऽस्ति। अस्य ग्रन्थस्य शोभाकरभट्टेन विस्तृता व्याख्याऽपि लिखिता। व्याख्येयं नितान्तप्रौढा प्रसिद्धा चास्ति । सामवेदीयस्वराणां रहस्यं विज्ञातुं ग्रन्थोऽयम् अतीवोपयोगी वर्त्तते ।

गौतमीशिक्षा[सम्पादयतु]

सामवेदेन सह सम्बद्धा शिक्षा इयम्।

लोमेंशीशिक्षा[सम्पादयतु]

सामवेदेन सह सम्बद्धा शिक्षा इयम्।

माण्डूकीशिक्षा[सम्पादयतु]

अथर्ववेदेन सम्बद्धेयं शिक्षाऽस्ति । अस्याः श्लोकानां संख्या १७९ अस्ति। अथर्ववेदस्य स्वराणां वर्णानाञ्च सुष्ठुज्ञानाय शिक्षेयं महनीया श्लाघनीया चास्ति ।

कामसन्घानशिक्षा[सम्पादयतु]

गलब्रुरुशिक्षा[सम्पादयतु]

मनःस्वार-शिक्षा[सम्पादयतु]

उक्तानां त्रयाणां ग्रन्थानां रचयिता याज्ञवल्क्यमुनिरस्ति ।

उपरिलिखिताः शिक्षाग्रन्थाः प्रकाशिताः सन्ति । किञ्च एतदतिरिक्तान्यपि शिक्षाशास्त्राणि सन्ति, येषां प्रकाशनमद्यावधिः नाभवत् । एते ग्रन्थाः हस्तलिखितरूपेण एव अवतिष्ठन्ते। एतेषु शिक्षाग्रन्थेषु प्राचीनशिक्षासूत्रमपि विद्यमानमासीत् । आपिशलि-पाणिनि-चन्द्रनोमीत्यादीनि शिक्षासूत्राणि च सन्ति प्रकाशितानि।[६] आपिशलिशिक्षासूत्रे स्थान-करण-अन्तः-प्रयत्न-बाह्यप्रयत्न-स्थानपीडन-वृत्तिकारप्रकरण-प्रकम-नाभितल-प्रकरणादयश्चाष्टप्रकरणानि सन्ति । एतेषु प्रकरणेषु अक्षराणामुत्पत्तिः, स्थानप्रयत्नानाच्च विशदं विवेचनञ्च अस्ति । एभ्यः शिक्षासूत्रेभ्यः कतिपयानि शिक्षासूत्राणि वृषभदेवेन वाक्यपदीयटीकायां, हेमचन्द्रेण व्याकरणस्य बृहद्वृत्त्यां, न्यासकारेण च स्वन्यासे समुद्धृतानि सन्ति । पाणिनि-शिक्षासूत्रेष्वपि आपिशलि-शिक्षासूत्रमिव क्रम-प्रकरणयोः उल्लेखो विद्यते । उभयोरपि सूत्रेषु समता लभते। उपरिलिखितेभ्यः शिक्षाग्रन्थेभ्यः एतानि शिक्षासूत्राणि असन्दिग्धरूपेण प्राचीनतराणि सन्ति । यथा अष्टाध्यायीम् आधारीकृत्य चन्द्रगोमीपण्डितेन स्वं व्याकरणं विरचितं स्यात्तथैव पाणिनिशिक्षासूत्राणि अाधारीकृत्यैव स्वकीयवर्णसूत्राणां रचना कृताऽस्ति ।

प्राचीना ऋषयः भाषाशास्त्रस्य आवश्यकाङ्गस्य वैज्ञानिकाध्ययनमकुर्वन्। अद्यतनीयाः प्रतीच्यप्रधयोऽपि उच्चारणविद्यान्तर्गते (Phonology) अस्य विषयस्याध्ययनं कुर्वन्ति । सम्प्रति वैज्ञानिकैः उच्चारणस्वरूपावबोधनाय उच्चारणयन्त्रमपि निर्मितम् । प्राचीनभारते एवंविधस्य यन्त्रस्य अप्यभाव आसीत् । तथाऽप्यस्य विषयस्य एवंविधं वर्णनमनुशीलनञ्च प्राचीनभारतीयानाम् उच्चारणसम्बन्धिवैज्ञानिकगवेषणस्य द्योतकम् अस्ति।[७] अद्यापि तत्तद्वैदिकमन्त्राणां तथैवोच्चारणं भवति, यथा प्राचीनकाले तेषामुच्चारणमभूत् । वैदिकोच्चारणस्य परम्परा एवंविधा विशुद्धाऽस्ति यत्, प्रान्तेतराणामप्यध्येतारः समानरूपेणैव समानशाखाया उच्चारणं कुर्वन्ति । तेषां विभिन्नप्रान्तीयानां वैदिकानामुच्चारणे स्तोकमपि पार्थक्यं वैभिन्न्यञ्च परिलक्षितं न भवति । शिक्षाशास्त्रीयमहत्त्वस्य सूचकोऽयमस्ति । शास्त्रमिदं यद्यपि वैदिकव्याकरणलक्षणप्रयोगज्ञानाय निर्मितमिति प्रतिभाति, तथाऽप्यस्य शास्त्रस्य साहित्यिकं किमपि वैशिष्ट्यं विद्वज्जनमनोरञ्जकाय विद्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

  1. वेदः
  2. वेदाङ्गम्
  3. उपनिषद्
  4. निरुक्तम्

आधाराः[सम्पादयतु]

  1. ( तै० १।२ )
  2. (पा० शि० ३३ )
  3. (पा० शि० ३२ )
  4. (पा० शि० ३४।३५ )
  5. ( पा० शि० ५६ )
  6. शिक्षासूत्राणि, काशी० स० २००५
  7. A Phonnetic Observation of Anciant Hindus by Sidheswar Verma
"https://sa.wikipedia.org/w/index.php?title=शिक्षा&oldid=484080" इत्यस्माद् प्रतिप्राप्तम्