छन्दश्शास्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(छ्न्दः इत्यस्मात् पुनर्निर्दिष्टम्)

छन्दः शास्त्रस्य इतिवृत्तम् मह्त्त्वपूर्णम् अस्ति । छन्दः शास्त्रस्य परम्परायां येषां महद्योगदानं तेषां सर्वेषाम् आचार्याणां विवरणं रामानुजाचार्यस्य गुरुणा श्रीमता यादव प्रकाशेन एकादश शताब्द्यां पिङ्गलसूत्र इति ग्रन्थस्य समाप्तौ एकःमहत्त्वपूर्णः श्लोकः लिखितः। अस्य श्लोकस्य गङ्गादास प्रणीतायां छन्दोमञ्जर्याः भूमिकायां डॉ० ब्रह्मानन्दत्रिपाठिना प्रयोगो विहितः। यथा-

                  छन्दो ज्ञानमिदं भवाद्भगवतो लेभे गुरूणां गुरुस्,
                  तस्माद् दुश्च्यवनस्ततो सुरगुरुर्माण्डव्यनामा तत:l
                  माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्तत:पिङ्गलस्,
                  तस्येदं यशसा गुरोर्यदि धृतं प्राप्यास्मदद्यै: क्रमात् l l

छन्द शास्त्रस्य आचार्याणां क्रमः एवमस्ति- क्रमाङ्कितसूच्यंशाः • दुश्च्यवनः(इन्द्रः) • शुक्राचार्यः • माण्डव्यः • सैतव • यास्कः • पिङ्गलः

अथ च युधिष्ठर मीमांसकेन वैदिक छन्दोमीमांसायाम् आचार्याणां क्रमः एवं वर्णितः।

छन्दशास्त्रमिदं पुरा त्रिनयनाल्लेभेगुहोनादित:।
तस्मात् प्राप्य सनत्कुमारकमुनिस्तस्मात् सुराणां गुरु:।
तस्माद्देवपतिस्तत:फणिपतिस् तस्माच्च सत्पिङ्गल:।
तच्छिष्यैर्बहुभिर्महात्मभिरथो मह्यां प्रतिष्ठापितम् ।

छन्द शास्त्रस्य आचार्याणां क्रमः एवमस्ति-

तोटक छन्द[सम्पादयतु]

छन्दशास्त्रस्य आचार्य पिंगलस्य मतानुसारं अस्य लक्षणम् अस्ति-

वद तोटकमब्धिसकारयुतम्

पिङ्गलमतानुसारं यस्य चतुर्षु चरणेषु चत्वारः सगणाः भवेयुः तत्तोटकं नाम वृत्तम् । अस्योदाहरणम् एवम् अस्ति-

यमुनातटमच्युतकेलिकला लसदङ्घ्रिसरोरुहसङ्गरुचिम् ।
मुदितोटकलेरपनेतुमघं यदिचेछसि जन्म निजं सफलम् ।।

तोटक वृत्तस्य प्रयोगः शंकराचार्येण बहु कृतः । अस्य छन्दसः गीतं पश्यन्तु-

प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियाणमिदम् । मनसा वचसा वपुषा व्यतथितान्, मनुजान गणयन्ति विचारपरान् । सहयोगपरं निशि वा दिवसं श्रमशीलयुतं हरियाणमिदम् । प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियाणमिदम् ।१ रणभूमियुतं कुरुभूमियुतं प्रतिभाति किलोइ शिवायतनम् । शिवभूमिरियं गुरुभूमिरियं श्रमशीलयुतं हरियाणमिदम् ।२ नहि कोपि कदापि विकारयुतं नगरं नगरं रमणीयतरम् । मनसा क्रियते श्रवणं रमणं श्रमशीलयुतं हरियाणमिदम् ।३ भ्रमणं गमनं तनुषा स्नपनं पठनं क्रयविक्रयणं सततम् । करणीयमिदं निशि वा दिवसं श्रमशीलयुतं हरियाणमिदम् ।४ भयमुक्तमिहाचरणं रचितं कृषिकर्मणि वारिविधानकृतम् । लघुमनण्डलमाचरितं सुखदं श्रमशीलयुतं हरियाणमिदम् । ५ युवकानतिवृत्तिपरान्विमुखान् अभिलक्ष्यमिहाचरणं चरितम् । नितरामतियोजनया भरितं श्रमशीलयुतं हरियाणमिदम् ।६ अधिराजगृहं नगरं परितःननु वृत्तिविधानमिहाचरितम् । अधिमार्गमिमं ह्यभितस्तरवः श्रमशीलयुतं हरियाणमिदम् ।७ अनिलन्नितवाति हि स्वास्थ्यकरं प्रतिधर्म परं हरियाणमिदम् । यवनेशसिखं ननु हिन्दुमयं श्रमशीलयुतं हरियाणमिदम् ।८ नहि सन्ति विवादपरा मनुजाः हरियाणमिदं प्रतिभाभरितम् । रणबीरसुतं परिप्राप्यमिदं श्रमशीलयुतं हरियाणमिदम् ।९ कथितं मुनिभिःपरिपूर्णमिदं हरियाण विकासपरं भविता । प्रतिभाभरिते प्रमुखे सततं श्रमशीलयुतं हरियाणमिदम् ।१० जननाद्धि स्वतन्त्रविचारपरं अनुलोमविलोमपरं ह्यभवत् । तपसा नियमेन ह्ययं नृपतिः श्रमशीलयुतं हरियाणमिदम् ।११

शार्दूलविक्रीडितम्[सम्पादयतु]

यस्य चतुर्षु चरणेषु क्रमेण मगणःसगणःजगणःसगणःतगणःतगणःगुरुवर्णश्च भवेत् तत् शार्दूलविक्रीडितम् नाम इति वृत्तम् भवति। तस्य लक्षणम् आचार्यपिङलेन इत्थं निर्दिष्टम् -' ' ' सूर्याश्वैर्यदिमः सजौ सततगाः शार्दूलविक्रीडितम् ' ' ' असिमन् वृत्ते सूर्यैः(द्वादशभिः) अश्वैः(सप्तभिः) च वर्णैः यतिः भवति।

' ' ' गोविन्दं प्रणमोत्तमाङ्ग! रसने! तं घोषयाहर्निशं, पाणी! पूजय तं, मनः! स्मर, पदे! तस्यालयङ्गच्छतम् ।
एवञ्चेत् कुरुथाखिलं मम हितं शीर्षादयस्तद्ध्रुवं, न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ।' ' ' छन्दोमञ्जरी
- द्रुतविलम्बितम्-
लक्षणम्‌- द्रुतविलम्बितमाह नभौ भरौ

गज भुजंग विहंगम बंधनं शशिदिवाकरयोग्रहपीडनम् । मतिमतान्च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः।।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=छन्दश्शास्त्रम्&oldid=431041" इत्यस्माद् प्रतिप्राप्तम्