इन्द्रः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

इन्द्रः भारतियसनातनविश्वासानुगुणं देवतानाम् अधिपतिः अस्ति। शक्रः इति इन्द्रस्य नामान्तरमपि वर्तते। सः युद्धस्य वर्षायाः च अधिदेवता अस्ति । वैदिककाले इन्द्रः सर्वोच्चः देवः आसीत् कालान्तरेण पौराणिककथासु अस्य स्तर स्थानं किञ्चित् अवनतम् ।

ऋग्वेदे इन्द्रः[सम्पादयतु]

ॠग्वेदस्य २५०सूक्तेषु इन्द्रस्य वर्णनं कृतम् । अपि च ५०सूक्तेषु अन्यदेवताभिः इन्द्रस्य वर्णनं कृतम् । एव ऋग्वेदस्य सतुर्थांशेषु इन्द्रदेवस्य वर्णनं दृश्यते । अतः एवं वक्तुं शक्यते यत् इन्द्रः वैदिकयुगस्य सर्वप्रियः देवः । इन्द्रशब्दस्य व्युत्पत्तिः अर्थः च अस्पष्टः अस्ति । बहूनां विदुषाम् अपिप्रायः अस्ति इन्द्रः झंझावातस्य अधिदेवता । मेघेषु गर्जनं विद्युत् च इन्द्रस्य कृपा एव । किन्तु हेलब्रैण्ट् इत्यस्य मतानुगुण इन्द्रः सूर्यदेवता अस्ति । वैदिकभारतीयाः इन्द्रः प्रबला भौबिकशक्तिः इति भावयन्ति यः सैनिकविजयस्य साम्रज्यवादिविचारस्य च प्रतीकः भवति । प्रकृतेः न कोपि अङ्गः तादृशः शक्तिशाली अस्ति यथा विद्युत्प्रयारः भवति । इन्द्रम् अग्निदेवस्य यमलसोदरः इत्यपि सम्बोधयन्ति येन विद्युदीयाग्निः यज्ञवेदीयाग्निः च प्रकटितः भवति ।

महेन्द्रमहिमा[सम्पादयतु]

वैदिकानां मतम् अस्ति यत् वृत्रः अनावृष्टेः असुरः शुष्कमेघानां प्रतीकः च । इन्द्रः स्वायुधेन वज्रेण वृत्ररूपिणं राक्षस्यं हत्वा जलं मुक्तं करोति । तदा पृथिव्यां वर्षधाराः पतन्ति । ओल्डेनवर्ग्,हिलब्रैण्ट् च व्रत्रासुरवधस्य अन्यकथाम् अवदताम् । एतयोः मतानुगुणं पर्वतानां जलस्य मुक्तिः इन्द्रेण कृता । सूर्यरूपिणः इन्द्रस्य वर्णनं कृत्वा हिलब्रैण्ट् एवम् अवदत् वृत्रः शीतस्य हिमस्य वा प्रतीकः अस्ति यस्य मुक्तिः केवलं सूर्यः करोति । द्वावपि विचारौ इन्द्रस्य रूपद्वयं प्रकटयतः यस्य प्रदर्शनं क्षेत्रे झञ्झावातस्य पर्वते तपतः सूर्यस्यरूपेण भवति । इन्द्रः प्रभूतं सोमपानं करोति । इन्द्रस्य आयुधं वज्रः यस्य विद्युत्पहारस्य एव नामान्तरम् अस्ति । अपि च इन्द्रः ऋग्वेदः रात्रेः अन्धकारस्य नाशकः प्रकाशजनकः अपि कथयति । ऋग्वेदस्य तृतीये मण्डले उल्लिखितं यत् विश्वामित्रस्य प्रार्थानानुसारम् इन्द्रः विपाशशतद्रुनद्योः जलं शोषितवान् येन भरस्य सेना अनायासेन पारङ्गता ।

इन्द्रस्य सामर्थ्यम्[सम्पादयतु]

पूर्वजाः इन्द्रः युद्धकुशलः इति कारणेण प्रथिव्यां दानवैः सह युद्धावसरे इन्द्रमेव सेनापतिं कुर्वन्ति स्म । इन्द्रस्य पराक्रमस्य वर्णनं कर्तुं शब्दानां शक्तिः अपर्याप्ता भवति । एषः शक्तीनां प्रभुरस्ति । अस्य १००शक्तयः सन्ति । ४०अधिकाः अस्य शक्तिसूचकनामानि सन्ति । ४०अधिकानां युद्धानां विजेता इन्द्रः इति वदन्ति । भक्तेभ्यः मित्रेभ्यः च इन्द्रः तादृशीं शक्तिं ददाति ये तस्मै सोमरसम् अर्पयन्ति ।

इन्द्रः वरुणः च[सम्पादयतु]

ऋग्वेदस्य नवसूकेषु इन्द्रवरुणयोः वर्णनम् अस्ति । द्वावपि एकसूत्रेण सोमरसं पिवतः, व्रत्रे विजयं साधयतः, जलस्य मूलं खनतः, सूर्यस्य नलनं नियमयतः । युद्धे साहाय्यं, विजयप्रदानम्, धनदानम्, उन्नतिप्रदानम्, दुष्टानापुपै शक्तिशालिवज्रस्य प्रहरणम्, तज्जुरहितमायाबन्धनम् इत्यैद्षु कार्येषु अभावपि समानौ स्तः । किन्तु सृष्टिविषयकगुणेषु षड्भेदाः सन्ति ।

  • वरुणः राजा अस्ति ।
  • असुरत्वस्य सर्वोत्कृष्टाधिकारी अस्य आज्ञाः देवगणः पालयति ।
  • इन्द्रः युद्धप्रेमी, वैरधूलि प्रसारयति ।
  • इन्द्रः वज्रेण वृत्रवधम् अकरोत् । किन्तु वरुणः साधुः भूत्वा सन्धेः रक्षणं करोति ।
  • वरुणः शान्तिदेवता अस्ति । इन्द्रः युद्धस्य देवः अस्ति । मरुता सह सम्माननस्य अन्वेषणेरतः भवति ।
  • इन्द्रः शत्रुतावशेण वृत्रस्य वधमकरोत् । किन्तु वरुणः वृत्राणां रक्षणं करोति ।

पौराणिकमतम्[सम्पादयतु]

पौराणिकदेवमण्डले इन्द्रस्य तत् स्थानं नास्ति यत् वैदिकमण्डलेषु उक्तम् । पौराणिकदेवमण्डलेषु ब्रह्माविष्णुमहेश्वराणां महत्वमस्ति । इन्द्रः देवाधिराजः इति मानितः । एषः देवलोकस्य राजधान्याम् अमरावत्यां वसति । सुधर्मा अस्य राजसभा । सहस्रमन्त्रिणः अस्य मन्त्रिमण्डले सन्ति । शची अथवा इन्द्राणी अस्य पत्नी, ऐरावतः (गजः) अस्य वाहनम्, आयुधं वज्रः अथवा अशनि । कोऽपि मानवः तमः कृत्वा इन्द्रपदं प्राप्तुमिच्छति तदा अस्य इन्दपदं सङ्कटे पतति । स्वस्य सिंहासनस्य रक्षणार्थं इन्द्रः तपोभङ्गं कर्तुम् अप्सराः प्रेषयति । पुराणेषु अस्मिन् विषये नैकाः कथा सन्ति । पौराणिकः इन्द्रः शक्तिमान्, समृद्धः विलासी राजा इव चित्रितः ।

कथा[सम्पादयतु]

कदाचित् अनावृष्टेः कारणेण घोरक्षामः अगतः । ऋषिगणः तपस्यानिरतः असित् । तान् निश्चिन्तान् ऋषीन् दृष्ट्वा तत्र इन्द्रः प्रकटः अपृच्छत् । क्षामेऽस्मिन् अपि भवन्तः कथं जीविताः इति । ऋषयः अवदन् वृष्टिमात्रं मनुष्यजीवनस्य साधनं न । प्रकृतिः सर्वस्मिन् ऋतौ मनुष्यजीवनस्य आनुकूल्यं प्रकल्पयति । उदाहरणार्थं मरुभुवि अपि किमपि खाद्यं लभ्यते एव । तथापि अनावृष्टौ कष्टम् अवश्यं भवति । इति उक्ता ऋषिगणः पुनः तपसिमग्नः अभवत् । प्रजापतिः अवदत्.. पापरहितं जराशून्यं, मृत्युशोकादिविकाररहितम् आत्मानं यः ज्ञानोति सः सम्पूर्णं लोकं सर्वकामनाः च प्राप्नोति । प्रजापतेः उक्तिं श्रुत्वा देवताः असुराः च तं आत्मानं ज्ञातुम् उत्सुकाः अभवन् । अतः देवराजः इन्द्रः दैत्यराजः विरोचनः च ईर्ष्याभावेन हस्ते समिदः गृहीत्वा प्रजापतेः समक्षम् अगच्छताम् । द्वावपि २१वर्षाणि ब्रह्मचर्यव्रतम् अपालयताम् । पश्चात् प्रजापतिः तयोः आगमस्य कारणम् अपृच्छत् । तयोः जिज्ञासां मत्वा सजलपात्रे दृष्टुम् अवदत् । आत्मा तत्रैव अस्ति इति । द्वावपि जले स्वबिम्बम् एव दृष्ट्वा सन्तुष्टौ ततः निर्गतौ । पश्चात् प्रजापतिः अचिन्तयत् । देवः वा भवतु दानवः वा भवतु आत्मसाक्षात्कारेण विना तेषां पराभवः एव भवति । विरोचनः सन्तुष्ठभावेन असुरपुरं गत्वा एवम् अवदत् देहः एव पूजनीयः अस्ति । अस्य परिचर्यां कृत्वा एव मनुष्यः लोकद्वयं प्राप्नोति इति । देवतानां समीपगमनात् पूर्वम् इन्द्रः अचिन्तयत् जलपात्रे आभूषणसहितं रूपं दृष्टम् । सुन्दरशरीरस्य सुन्दरं रूपं, अन्धस्य अन्धरूपं यदि दृश्यते तर्हि आत्मा अजरः अमरः च कथम् अभवत् । इति शङ्कया सः पुनः प्रजापतेः निकटम् अगच्छत् । प्रजापतिः पुनः २१वर्षाणि तत्रैव तं वासयित्वा पश्चात् अवदत् यः स्वप्ने पूजितः विचरितः अस्ति सः एव आत्मा अमृतः अभयः च ब्रह्म भवति । ससंश्यः इन्द्रः पुनः २१वर्षाणि प्रजापतेः निकटं ब्रह्मचर्यं समाचर्य, पुनः पञ्चवर्षाणि अनुवर्त्य आहत्य १०१वर्षाणि ब्रह्मचर्यव्रतं प्रजापतेः साहचर्यं च कृत्वा प्रजापतिना आत्मस्वरूपं ज्ञातवान् । यथा..

  • अयम् आत्मा अविद्याकृतदेहेन मनो इन्द्रिययुक्तः च भवति । सर्वात्मभावस्य प्राप्तेः पश्चात् अयम् आकाशसमानं विशुद्धः भवति । आत्मज्ञानं प्राप्य मनुष्यः स्वकर्माणि कुर्वन् स्वायूंषि समाप्य ब्रह्मलोकं गच्छति । पुनः नायाति ।

रामायणे इन्द्रः[सम्पादयतु]

देवानां राज्ञः इन्द्रस्य मेषवृषणः इत्यपि कथयन्ति । रामरावणयोः युद्धं दृष्ट्वा किन्नराः एवम् अवदन् । एतत् युद्धं समानं न यतः रावणस्य महती सेना श्रीरामः पदातिः। एतत् श्रुत्वा इन्द्रः कवचधनुर्बाणैः युक्तं स्वरथं रामार्थं प्रेषितवान् । विनीतभावेन इन्द्रसारथिः मातलिः रथादिवस्तूनि स्वीकर्तुं रामचन्द्रं न्यवेदयत् । युद्धस्य परिसमाप्तेः पश्चात् श्रीरामः तानि सर्वाणि अपनेतुम् आदिशत् । इन्द्रः दशरथस्य मित्रम् इति रामायणे वर्णितः ।

दुर्वासस्य शापः[सम्पादयतु]

कदाचित् इन्द्रः सुरापानेन उन्मत्तः एकान्ते रम्भया सह खेलन् आसीत् । तदा अकस्मात् दूर्वासमुनिः स्वशिष्यैः सह आगतः । इन्द्रः अतिथिसत्कारं कृतवान् । दूर्वासः आशीर्वादं कुर्वन् पारिजातपुष्पम् इन्द्राय अयच्छत् । तत् पुष्पं विष्णुना दत्तम् । इन्द्रः ऐश्वर्यमदेन तत् पुष्पं स्ववाहनस्य गजस्य मस्तके स्थापितवान् । पुष्पस्य प्रभावेण गजः अलौकिकगरिमायुक्तः वनम् अगच्छत् । इन्द्रः तं गजं नियन्त्रयितुम् असमर्थः अभवत् । दूर्वासः श्रीहीनः भवतु इति तम् अशपत् । तेन अमरावती अपि अत्यन्तं श्रिया हीना अभवत् । इन्द्रः प्रथमं बृहस्पतेः पश्चात् ब्रह्मणः साहाय्यम् अयाचत । समस्तदेवताः विष्णोः निकटम् आगताः । लक्ष्मीः सागरपुत्री भवतु इति आदेशः दत्तः । अतः लक्ष्मी सागरे अगच्छत् । पश्चात् विष्णुः स्वपत्न्याः प्राप्तये सागरमथनं कर्तुं देवान् आदिशत् । समुद्रमथनेन अनेकानि रत्नानि आगतानि । लक्ष्मीः अपि ततः आगता नारायणाय वरमालां समर्प्य प्रसन्नाभवत् । सहस्रारः इति नामकस्य राज्ञः पत्नी मानससुन्दरी गर्भवती खिन्नाभवत् । राजा कारणं पृष्टवान् । इन्द्रस्य वैभवं दृष्टुम् उत्कटेच्छा अस्ति इति उक्तवती । सत्वरं राजा ताम् इन्द्रस्य ऋद्धिवैभवं दर्शितवान् । फालरूपेण अस्य गर्भात् यस्य बालकस्य जन्म अभवत् तस्य इन्द्रः इत्येव नाम कृतम् । लङ्कायाः अधिपतिः माली इन्द्रस्य वैभवं श्रुत्वा स्वभ्रात्रा सुमालिना सह अमरावती आक्रान्तवान् । युद्धे अनेकसैनिकैः सह माली अपि मारितः । सुमाली प्रधावन् पाताललङ्कां प्रविष्टवान् ।

"http://sa.wikipedia.org/w/index.php?title=इन्द्रः&oldid=270096" इत्यस्माद् पुनः प्राप्तिः