मन्त्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

मन्त्रः (Mantra) वेदसम्बद्धः शब्दः। आपस्तम्बे प्रोक्तञ्च – ‘मन्त्रब्राह्मणयोर्वेदनामधेयम्॥' [१] येन हि यज्ञयागानामनुष्ठानं निष्पन्नतामुपैति देवतानाञ्च स्तुतिविधानं यत्रोल्लिखितमस्ति, स मननात् मन्त्र इत्युच्यते । मननात् त्रायते इति मन्त्रः ।केचन विख्याता: मन्रा: -

मन्त्रः

उभयवेदमन्त्राः[सम्पादयतु]

सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्राः सन्ति । तेषु ७५ मन्त्रा ईदृशा सन्ति ये ‘ऋग्वेदे' न प्राप्यन्ते, शेषाः सर्वे उभयवेदसाधारणाः । सामवेदागतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः । एतावानेवोभयवेदसाधारणानां सामवेदमन्त्राणाम् ऋग्वेदमन्त्रेभ्यो भेदः।

मन्त्राणां पदकाराः[सम्पादयतु]

वेदार्थानुशीलनस्य प्रथमः सोपानः पदपाठ एवाऽस्ति । वैदिकमन्त्राणां पदपाठं विना तेषामर्थज्ञानं कदापि भवितु न शक्नोति। अस्मै पदपाठाय व्याकरणस्य नियमानामाविष्कारः पूर्वमेवाऽभवत् । शाकल्यः ऋग्वेदस्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम अात्रेयोऽस्ति। गाग्र्यः सामवेदस्य पदकारः अस्ति।

विभिन्नेषु पदकर्तृषु नास्ति ऐकमत्यम् । प्राचीनकाले अस्मिन् विषये कापि परम्परा आसीत् इत्यनुमीयते । आदित्यशब्दस्य विषये निरुतस्य भाष्यकारेण स्कन्दस्वामिना उक्तम् —

'शाकल्यात्रेयप्रभूतिभिर्नावगृहीतम्; पूर्वनिर्वचनाभिप्रायेण। गाग्र्यप्रभूतिभिरवगृहीतम् । विचित्राः पदकाराणामभिप्रायाः ॥ क्वचिदुपसर्गविषयेऽपि नावगृह्णन्ति, यथा शाकल्येन 'अधिवासन्' इति नावगृहीतम्, अात्रेयेण तु अधिवासमिति अवगृहीतम्' ( २॥१३ ॥ )

स्कन्दस्वामिनोऽभिप्रायः अयमेवास्ति यत्, दकाराणां तात्पर्यमपि विचित्रमेव भवति । उपसगानन्तरं कोऽपि पदकारः ‘अवग्रहं’ न ददाति, कोऽपि यच्छति सामान्यनियमेन एव । ‘अधिवासः' इति पदे शाकल्यस्तु अवग्रहं न मन्यते, अात्रेयस्तु मन्यते एव इति।

  1. https://sa.wikisource.org/wiki/आपस्तम्बीयं_श्रौतसूत्रम्/प्रश्नः_२४
"https://sa.wikipedia.org/w/index.php?title=मन्त्रः&oldid=421596" इत्यस्माद् पुनः प्राप्तिः