मृत्युञ्जयमन्त्रः
मृत्युञ्जयमन्त्रः यजुर्वेदस्य रूद्राऽध्यायस्थितः एकः मन्त्रः । अत्र शिवस्य स्तुतिः विद्यते । शिवः मृत्युञ्जयः इति मन्वन्ते । सोऽयं मन्त्रः मृत्युञ्जयेति -
त्र्यम्बकं यजामहे
- सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनात्
- मृत्योर्मुक्षीय मामृतात्॥
त्र्यम्बकमिति। अम्बति नक्षत्रपर्यन्तं गच्छतीति अम्बकम्। नेत्रमित्यर्थः। त्रीणि अम्बानि यस्य सः त्र्यम्बकः शिवः ।सुदूरवर्ति वस्तु पश्यति इति त्र्यम्बकपदस्य अर्थः।
तस्य एव विशेषणे सुगन्धिम् इति पुष्टिवर्धनम् इति च।यज्ञार्पिताभिः आहुतिभिः सुगन्धयुतं, पुष्टिं वर्धयन्तं च शिवम् इत्यर्थः।
तादृशं त्र्यम्बकं यजामहे इति।वयमिति कर्तृपदम् अध्याहार्यम्।
उर्वारुकमिति कर्कटीम्। यथा कश्चिद् कर्कटीं बन्धनात् मोचयति तथा इति दृष्टान्तः।
मृत्योः मरणात्। मुक्षीय मोचयित्वा।
मा इति निषेधे। अमृताद् इति।न मृतं मरणम् अत्र इति अमृतम् अमृतत्वम् इत्यर्थः।
तथा च मेदिनीकोश:-
- अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते।
- अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः॥
तस्माद् अमृतत्वात्। अमृतस्वरूपाद् मोक्षाद् मा मोचय मा दूरीकुरु इत्यर्थः। तथा च अमृतत्वसाधनभूताद् उपासनाद् मा वियोजय इत्यर्थः उन्नेयः।
भावार्थः
[सम्पादयतु]यज्ञाहुतिभिः सुगन्धयुतं पुष्टिकारकं रुद्रदेवं शिवं वयं यजामहे। हे रुद्र, यथा कश्चिद् जनः सुलभतया वृन्ताद् कर्कटीं मोचयति, तथा त्वं मां मृत्योः पाशाद् मोचय। अमृतत्वात् पदात् तु मां मा मोचय(अमृतत्वपदे सदा स्थिरीकुरु।)