रामेश्वरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रामेश्वरः इत्यस्मात् पुनर्निर्दिष्टम्)
रामेश्वरम्
रामेश्वरम् is located in Tamil Nadu
रामेश्वरम्
रामेश्वरम्
Location in Tamil Nadu
भौगोलिकस्थितिः: ९°१७′१७″उत्तरदिक् ७९°१९′०२″पूर्वदिक् / 9.288106°उत्तरदिक् 79.317282°पूर्वदिक् / ९.२८८१०६; ७९.३१७२८२
नाम
शुद्धनाम: रामनाथस्वामी कोयिल्
अवस्थितिः
देशः: भारतम्
राज्यम्: तमिळुनाडु
मण्डलम्: रामनाथपुरम्
अवस्थितिः: रामेश्वरम्
स्थापत्यकला संस्कृतिश्च
स्थापत्यशैली: द्रविडवास्तुशिल्पम्
इतिहासः
स्रष्टा: पाण्ड्या तथा जाफ्नाराजानः

द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षेत्रं तमिळुनाडुराज्यस्य रामनाथपुरमण्डले अस्ति । रामनाथपुरतः रामेश्वरं प्रति सेतुः अस्ति । सः सेतुः "पाम्बन्" नाम्ना निर्दिश्यते इदानीम् । अयमेकः सुन्दरः द्वीपः अस्ति । चतुर्धामेषु एतत् दक्षिणधाम इति उच्यते । पुराणेषु एतत् क्षेत्रं "गन्धमादन" नाम्ना निर्दिष्टम् अस्ति । "यात्रा" इति शब्दस्य श्रवणमात्रेण "काशी-रामेश्वर-यात्रा" एव स्मर्यते सर्वेण अपि हिन्दुजनेन । तावत्प्रसिद्धम् एतत्क्षेत्रम् । काशीतः गङ्गाजलम् आनीय रामेश्वरस्य अभिषेकं कारयामः चेत् यात्रा सम्पूर्णा इति चिन्तयति सर्वः अपि हिन्दुः ।

रामेश्वरमन्दिरम् अत्यन्तं भव्यं मन्दिरम् । श्रीलङ्कायाः राज्ञः परराजशेखरस्य साहाय्येन रामनाडुराजा उदयनसेतुपतिः अस्य मन्दिरस्य निर्माणकार्यं क्रि श १४१४तमे वर्षे आरब्धवान् । सार्धत्रिशतवर्षाभ्यन्तरे निर्मितम् अभवत् एतत् मन्दिरम् । अस्य बृहदाकारकाः स्तम्भाः, महाशिलायुक्तच्छदिः द्रष्टृषु आश्चर्यं जनयन्ति । मन्दिरस्य पूर्वदिशि पश्चिमदिशि च अत्युन्नतं भव्यं गोपुरम् अस्ति । गर्भगृहं परितः विद्यमानेषु प्रदक्षिणपथेषु प्रत्येकः अपि प्रदक्षिणपथः १,०००पादमितं दीर्घः, ६०० पादमितं विशालः, १५ पादमितम् उन्नतः च अस्ति । अत्रत्येषु स्तम्भेषु सुन्दराणि चित्राणि उत्कीर्णानि सन्ति । एतत् मन्दिरं दृष्टवान् प्रसिद्धः शिल्पकलातज्ञः फर्ग्युसन् "सर्वाङ्गसुन्दरस्य द्राविडशिल्पकलायुक्तस्य किमपि उदाहरणं दातव्यं चेत् अस्य मन्दिरस्य अपेक्षया उत्तमम् अन्यत् किमपि नास्ति इति उच्चस्वरेण वक्तुं शक्यते" इति अवदत् । प्रायः भारते एव अत्यन्तं बृहत् मन्दिरम् ।

तमिळुनाडुराज्यस्य रामेश्वरे विद्यमानं रामनाथेश्वरमन्दिरम्

रामेश्वरमन्दिरस्य पुरतः स्वर्णस्तम्भः अस्ति । तत्समिपे रामेण संस्थापितः १३ पादमितोन्नतः, ८ पादमितं दीर्घः, ९ पादमितं विशालः धवलवर्णस्य महानन्दिविग्रहः अस्ति । तस्य विग्रहस्य वामभागे हनुमतः विग्रहः, दक्षिणभागे "शिवतीर्थ"नामिका पुष्करणी च अस्ति । अस्य मन्दिरस्य परिसरे सर्वतीर्थाणि अपि सन्ति इति विश्वासः अस्माकम् । रामेश्वरमन्दिरस्य प्रदक्षिणपथस्य उत्तरभागे हनुमता कैलासतः आनीतं शिवलिङ्गम् अस्ति । रामेश्वरलिङ्गं शेषस्य महाफणाकारकम् अस्ति । पार्श्वयोः सीता लक्ष्मणयोः स्वर्णविग्रहौ स्तः । अगस्त्येन पूजितम् अगस्त्येश्वरलिङ्गम् अपि अस्ति अत्र । पर्वत्याः, षण्मुखस्य, गणेशस्य, नन्दिकेश्वरस्य, विशालाक्ष्याः एवं बहूनां देवानां मन्दिराणि सन्ति अत्र ।

अयं द्वीपः कृष्णस्य शङ्खस्य "पाञ्चजन्य"स्य आकारकः अस्ति । अस्मिन् एव द्वीपे रामः अखण्डं दिनत्रयम् आदिजगन्नाथम् उद्दिश्य तपः आचर्य दिव्यचापं प्राप्तवान् । एतत्स्थानं "दर्भशयनम्" इति उच्यते । रामेश्वरतः सार्धैकमैल् दूरे पर्वतस्य उपरि सुन्दरं किञ्चित् मन्दिरम् अस्ति, तत्र रामस्य पादचिह्नम् अस्ति । रामेश्वरस्य दक्षिणभागे "धनुष्कोटि"नामकं स्थानम् अस्ति । रामः तस्मिन् स्थाने एव धनुषः अग्रभागेण लङ्कां प्रति निर्मितं सेतुम् अनाशयत् इति । रावणसंहारानन्तरं विभीषणः लङ्कायाः राजा अभवत् । वानरैः निर्मितसेतुद्वारा अन्ये लङ्कायाः उपरि आक्रमणं कुर्युः इति विभीषणस्य भयम् अभवत् । लङ्काम् आक्रमणेभ्यः रक्षितुं, मित्रस्य विभीषणस्य भयं दूरीकर्तुं च रामः तं सेतुम् एव अनाशयत् इति । तस्मिन् स्थाने एव कोदण्डराममन्दिरम् अस्ति । १९६४तमे वर्षे सञ्जातात् झञ्झावातकारणात् एतदेकं मन्दिरं विहाय अन्यत्सर्वम् अपि नष्टम् अभवत् ।

वर्षपूर्णं यात्रिकाः आगच्छन्ति रामेश्वरमन्दिरं प्रति । १९४७तमे वर्षे, १९५७तमे वर्षे च सञ्जाते कुम्भाभिषेके देशस्य सर्वकोणेभ्यः अपि जनाः अत्र सम्मिलिताः आसन् । शारदा माता अपि अत्र आगतवती आसीत् । तदा मन्दिरस्य सर्वाणि आभराणि तस्याः पुरतः संस्थाप्य यत्किमपि एकं स्वीकर्तुम् उक्तवन्तः मन्दिरस्य अधिकारिणः । शारदमातुः कदापि आभरणानां विषये मोहः नासीदेव । तया सह तस्याः अग्रजस्य पुत्री अपि तत्र गतवती असीत् । तां शारदामाता अवदत् "भवती इच्छति चेत् स्वीकरोतु" इति । किन्तु मनसि एव "तस्याः पुत्र्याः तादृशी इच्छा न भवतु" इति परमहंसं प्रार्थयन्ती आसीत् । सा अपि बालिका किमपि आभरणं न स्वीकृतवती एव । अनन्तरं माता शारदादेवी रामेश्वरं स्पृशन्ती आनन्दाश्रु स्रावयन्ती "इदानीमपि पूर्ववदेव अस्ति" इति यदा अवदत् तदा तत्रत्यैः सर्वैः सा महाशक्तेः एव अंशभूता इति ज्ञातम् । स्वामी विवेकानन्दः अपि विदेशयात्रां समाप्य भारतम् आगतवान् रामेश्वरे एव अवतीर्णवान् नौकातः । तदा रामेश्वरस्य समुद्रतीरस्य सिकताः चुम्बनं कृत्वा शिरसि स्थापितवान् आसीत् । वास्तवरूपेण शिवपूजा नाम का ? इति विषये स्वामिविवेकानन्देन कृतं भाषणं शिलायाम् उत्कीर्य मन्दिरस्य गोपुरद्वारसमीपे स्थापितम् अस्ति । अस्य शिलालेखस्य अनावरणं १९६३तमे वर्षे सप्तेम्बरमासे २८तमे दिनाङ्के तदातनराष्ट्रपतिः दिवङ्गतः डा एस् राधाकृष्णन् अकरोत् ।

सीतायाः आनयनाय प्रस्थितः रामः लङ्कां प्रति गमनात् पूर्वं रामेश्वरे शिवलिङ्गं प्रतिष्ठाप्य पूजितवान् । अतः एव एतत् क्षेत्रं "रामेश्वरम्" इति निर्दिष्टम् अभवत् । रामः धनुषा भूमिं विदार्य जलाशयं निर्मितवान् । तस्य एव जलाशयस्य जलेन शिवस्य अभिषेकं कृतवान् । सः एव जलाशयः "कोटितीर्थ"नामकः । गन्धमादनक्षेत्रं सेतुबन्धरामेश्वक्षेत्रं जातं यत् तस्य पृष्ठभूमिकायां विद्यमाना कथा अपि रसपूर्णा अस्ति - रामः रावणेन अपहृतां सीतां प्रत्यानेतुं सुग्रीवस्य सैन्येन सह प्रस्थितः दक्षिणदिशि आगच्छन् गन्धमादनप्रदेशं प्राप्तवान् । लङ्कां प्रति गमनाय शतयोजनानां सागरस्य तरणं करणीयम् । तदर्थं दिनत्रयं यावत् उपवासम् आचर्य साहाय्यं करोतु इति समुद्रराजं प्रार्थितवान् रामः । तथापि समुद्रराजः नागतः एव । कुपितः रामः अस्त्रेण समुद्रं निर्जलं कर्तुम् उद्युक्तः । भीतः समुद्रराजः प्रत्यक्षः जातः । सः रामं "प्रकृतिनियमानां विरुद्धं भवतः कृते मार्गं कल्पयितुं न अर्हामि अहम् । कृपया तथा करणे मां मा प्रेरयतु । सेतुनिर्माणं कृत्वा सागरतरणं क्रियताम्" इति प्रार्थितवान् । तदनुसारं रामः प्रख्यातस्य वास्तुशिल्पिनः विश्वकर्मणः पुत्रस्य नलस्य साहाय्येन सेतुनिर्मणम् अकारयत् । दशयोजनविशालः शतयोजनदीर्घः सः दोलासेतुः वृक्षकाण्डैः शिलाभिः सिकताभिः च निर्मितः । तस्य सेतोः अवशेषाः अभिज्ञाताः अमेरिकादेशस्य उपग्रहेण ।

रामेण लङ्कां प्रति गमनाय निर्मिता इति कथ्यमाना रामसेतुः

रामः रावणस्य संहारानन्तरं पुनः गन्धमादनक्षेत्रम् आगतः । तत्र सीता अग्निपरीक्षाद्वारा पावित्र्यं प्राकटयत् । तथापि रामस्य मुखे काचित् चिन्ता दृष्टा अगस्त्यादिमुनिभिः । यद्यपि रामः रावणेन सह जाते युद्धे जयं प्राप्तवान् तथापि रावणसंहारेण ब्रह्महत्यादोषपूर्णः जातः आसीत् । तदेव दुःखं रामं बाधते स्म । मुनयः रामस्य दुःखम् अवगतवन्तः । तदा ते रामं सागरतीरे शिवस्य ज्योतिर्लिङ्गं संस्थाप्य पूजयितुं सूचितवन्तः । रामः कैलासतः शिवस्य दिव्यलिङ्गम् आनेतुं हनुमन्तम् असूचयत् । हनुमान् कैलासं प्राप्तवान् चेदपि तत्र शिवस्य दर्शनं न प्राप्तवान् । शिवस्य दर्शनं प्राप्य दिव्यलिङ्गस्य आनयनसमये कालः अतीतः । रामस्य सङ्कल्पपरिवर्तनं तु न भवेदेव । तदा सीता मनोबलेन एव रामस्य पुरतः सिकतानिर्मितं शिवलिङ्गम् अकरोत् । मुनीनाम् आदेशानुगुणं रामः सिकतालिङ्गम् एव प्रतिष्ठाप्य पूजितवान् । ज्येष्ठशुद्धदशम्यां बुधवासरे हस्तानक्षत्रे स्थिते चन्द्रे, वृषभराशौ स्थिते सूर्ये च शिवलिङ्गस्य प्रतिष्ठापनं कृतम् । तदेव रामेश्वरलिङ्गम् । स्वस्य प्रयत्नः विफलः जातः इति हनुमान् कुपितः । वृष्टि-वायुबाधां सोढुम् अशक्तेन तेन सिकतानिर्मितेन शिवलिङ्गेन किं प्रयोजनम् ? कैलासतः आनीतं स्फटिकलिङ्गं किं करणीयम् ? इति कोपेन रामम् अपृच्छत् हनुमान् । तदा रामः "तर्हि एतत् सिकतानिर्मितं शिवलिङ्गं ततः निष्कास्य स्फटिकलिङ्गं भवान् एव प्रतिष्ठापयतु" इति हनुमन्तम् असूचयत् । महता प्रयत्नेन अपि सिकतानिर्मितं शिवलिङ्गं कम्पयितुम् अपि न शक्तः हनुमान् । तस्मात् दुःखितं हनुमन्तं समाश्वसन् रामः सिकतालिङ्गस्य पार्श्वे एव स्फटिकलिङ्गम् अपि प्रतिष्ठापितवान् । "हनुमदीश्वरः" इति प्रसिद्धस्य तस्य लिङ्गस्य दर्शनानन्तरम् एव रामेश्वरस्य दर्शनं करणीयम् । तदा एव यात्रा फलति इति हनुमते आश्वासनम् अपि दत्तवान् रामः । तदा एव तत्र प्रत्यक्षः सन् शिवः रामं "भवता स्थापितस्य रमेश्वरलिङ्गस्य दर्शनेन भक्ताः मुक्तिं प्राप्नुवन्ति" इति अवदत् ।

रामः रामेश्वरस्य पूजनेन रावणसंहारदोषात् मुक्तः जातः । ब्रह्मणः पञ्चमं शिरः कर्तितवान् शिवः अपि अत्रत्ये शिवतीर्थे स्नात्वा तपः आचर्य पापमुक्तः जातः । कंससंहारं कृतवान् कृष्णः अपि प्रायश्चित्तार्थम् अत्रत्ये कोटितीर्थे स्नानं कृतवान् । सूर्यः यदा मकरराशौ भवति तदा, ग्रहणकाले च धनुष्कोटितीर्थे स्नानकरणेन पुण्यं प्राप्यते इति वदति रामेश्वरमाहात्म्यम् । नारिकेलवृक्षाणां पङ्क्तयः, जलात् उपरि आगताः महाशिलाः, फेनयुक्ताः पौनःपुन्येन आगच्छन्तः तरङ्गाः च अत्रत्यं सौन्दर्यं वर्धयन्ति । "आसेतुहिमाचल" इति शब्दः अपि अत्रत्यरामनिर्मितसेतुकारणतः एव प्रयोगपथम् आगतः । भारतस्य दक्षिणान्ते प्रदेशे स्थितम् एतत् दक्षिणकाशी इति च प्रसिद्धम् अस्ति । अत्र रामनाथस्वामी देवालयः अपूर्वः विशालः च अस्ति । सागरतीरे स्थितः प्राचीनदेवालयः एषः पुराणकालादपि प्रसिध्दः अस्ति । श्रीरामः एव अत्र शिवलिङ्गं प्रतिष्ठापितवान् इति रामायणे अस्ति । अतः एव रामेश्वरम् इति नाम आगतम् । अत्र सागरे समुद्रस्नानं पुण्यकरम् आनन्दाय च भवति । रामेश्वरं प्रकृतिसौन्दर्य युक्तं पवित्रक्षेत्रं च अस्ति ।

मार्गः[सम्पादयतु]

मधुरैविमाननिस्थानतः १७३ कि.मी. भूमार्ग –दक्षिणभारतस्य सर्वनगरेभ्यः वाहनसम्पर्कः अस्ति । धूमशकटमार्गः -मण्डपम् पर्यन्तम् धूमशकटयानसौलभ्यमस्ति ।



सबस्क्रिप्ट पाठ

"https://sa.wikipedia.org/w/index.php?title=रामेश्वरम्&oldid=430641" इत्यस्माद् प्रतिप्राप्तम्